संस्कृत-शब्दकोशः

वृहू वॄ

वृह्

वृहू उद्यमने


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वृहति

अर्थ−
१. उद्योग गर्नु, प्रयास गर्नु ।

कृदन्तरूपमाला

  • 1“वृहू उद्यमने” 2 ‘उद्यमः = उद्धरणम्’ इति क्षीरस्वामी।
  • दन्त्योष्ठ्यादिः इति सर्वे।
  • केचित् ‘बृहू पवर्गादिः’ इति।
  • क्षीरतरङ्गिण्यामपि ‘बृहू’ इत्येव दृश्यते।
  • वर्हकः-र्हिका, वर्हकः-र्हिका, विवर्हिषकः- 3 विवृक्षकः-क्षिका, वरीवृहकः-हिका;
  • वर्हिता-त्री, वर्हयिता-त्री, विवर्हिषिता-त्री, विवृक्षिता-त्री, वरीवृहिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकदर्हतिवत् 4 ज्ञेयानि।
  • 5 वृढः-वृढवान्, 6 वर्हित्वा-वृढ्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • ‘वृहु’ इति उदित्पक्षे क्त्वायामेवेड्विकल्पः इति विशेषः।

प्रासङ्गिक्यः

  • (१६३७)
  • (६-तुदादिः-१३४७। अक। वेट्। पर।)
  • ३। ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति वलादेरार्द्धधातुकस्य विकल्पेन इडागमः। तेन सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वान्न गुणः।
  • (८६८)
  • ४। निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधः।
  • ५। क्त्वायाम् ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः। इड्विकल्पात् रूपद्वयं ज्ञेयम्।


वृहि भासायां, भाषायाम् वा


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- वृंहयति-ते, वृंहति

अर्थ−
१. चम्कनु, प्रकाशित हुनु,
२. बोल्नु ।

कृदन्तरूपमाला



Correction: