संस्कृत-शब्दकोशः

वेल्ली वेवी

वेल्ल्

वेल्ल चलने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- वेल्लति

अर्थ−
१. जानु, लस्किनु,
२. काँप्नु, हल्लिनु, थर्कमान हुनु ।

कृदन्तरूपमाला

  • 1“वेल्ल चलने” 2 तरङ्गिण्यां पाठोऽयं न दृश्यते।
  • मैत्रेयसम्मतः पाठः इति धातुवृत्तिदर्शनात् ज्ञायते।
  • वेल्लकः-ल्लिका, वेल्लकः-ल्लिका, विवेल्लिषकः-षिका, वेवेल्लकः-ल्लिका;
  • वेल्लिता-त्री, वेल्लयिता-त्री, विवेल्लिषिता-त्री, वेवेल्लिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककेलतिवत् 3 बोध्यानि।
  • 4 वेल्लः, कर्तरि क्तप्रत्यये प्रवेल्लितम् 5 इति।

प्रासङ्गिक्यः

  • (१६४६)
  • (१-भ्वादिः-५४०। अक। सेट्। पर।)
  • (२६२)
  • १। संज्ञायां घञि रूपमेवम्। वेल्लः = विषम्।
  • आ। ‘फणीश्वरक्ष्वेलरुधं प्रवेल्लितस्रजं मुहुः पेलववातफेलनात्।।’ धा। का। १-६९।



Correction: