संस्कृत-शब्दकोशः

व्यथित व्यथ्य

व्यथ्

व्यथ भयसञ्चलनयोः


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- व्यथते

अर्थ−
१. डराउनु,
२. क्षुब्ध हुनु, सन्तप्त हुनु, दुःखी हुनु ।

कृदन्तरूपमाला

  • 1“व्यथ भयसंचलनयोः” 2 घटादिः, षिच्च।
  • ‘-- दुःखभयचलनयोः’ इति काशकृत्स्नः।
  • ‘--दुःख- चलनयोः’ इति दुर्गः।
  • ‘दुःखे चाले भये’ इति वोपदेवः इति पा।
  • धा।
  • समीक्षा।
  • व्याथकः-थिका, 3 व्यथकः-थिका, विव्यथिषकः-षिका, वाव्यथकः-थिका;
  • व्यथिता-त्री, व्यथयिता-त्री, विव्यथिषिता-त्री, वाव्यथिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकक्लथतिवत् 4 ऊह्यानि।
  • 5 अव्यथ्यः 6, 7 अव्याथी, 8 अव्यथी 9, 10 व्यथनः, 11 व्यथा, 12 व्याथं-व्याथम्-व्यथं-व्यथम्, 13 विथुरः, 14 विधुरः इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
  • शानचि- 15 व्यथ्यमानः।

प्रासङ्गिक्यः

  • (१६५३)
  • (१-भ्वादिः-७६४। सक। सेट्। आत्म।)
  • ३। धातोरस्य घटादित्वात् ण्यन्ते, ‘घटादयो मितः’ (ग। सू। भ्वादिः) इति मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वे रूपमेवम्। ण्यन्ते सर्वत्र एवमेव प्रक्रिया ऊह्या।
  • (२८०)
  • ४। ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’ (३-१-११४) इति कर्तरि क्य- प्प्रत्यये निपात्यते। न व्यथते--अव्यथ्यः।
  • आ। ‘समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान्।’ भ। का। ६-६०।
  • ५। ‘… व्यथवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति ग्रह्यादिपाठात् णिनिप्रत्यये अव्याथी इति रूपं सिद्ध्यति इति क्षीरस्वामी। प्रकृतगणसूत्रे ‘व्यथ’ इत्यत्र ‘व्रज’ इत्येव दृश्यते।
  • ६। ‘जिदृक्षिविश्रीण्वमाव्यथ--’ (३-२-१५७) इति तच्छीलादिषु कर्तृषु इनिप्रत्यये रूपमेवम्।
  • B। ‘न्याय्यं परिभवी ब्रूहि पापमव्यथिनं कपिम्।।’ भा। का। ७-२०।
  • ७। तच्छीलादिषु कर्तृषु युच्प्रत्यये रूपमेवम्।
  • ८। अस्य धातोः षित्त्वाद् ‘षिद्भिदादिभ्योऽङ् (३-३-१०४) इति स्त्रियामङ्प्रत्ययः।
  • ९। णमुलि, ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परत उपधायाः दीर्घः विकल्पेन भवति। तेन रूपद्वयं बोध्यम्।
  • [पृष्ठम्१२७०+ ३३]
  • १। ‘व्यथेः संप्रसारणं धः किच्च’ (द। उ। ८-२२) इति उरच्प्रत्यये, संप्रसारणे, धातु- थकारस्य धकारादेशे च रूपमेवम्। विधुरः = चोरः, अनग्निकः, राक्षसश्च। धातुवृत्तावपि एवमेव स्थितम्। “… व्यथधातौ न त्वेतद् युक्तम्। ‘त्वमेषां विथुरा शावांसि’ (ऋ। ६-२५-३) ‘अतिविद्धा विथुरेणा चिदस्रा’ (ऋ। ८-९६-२) इत्यादिनन्त्रेषु थकारपाठस्य निर्विवादत्वात्। यदपि माधवेनोक्तम्-- ‘विदि- भिदि--’ (३-२-१६२) इत्यत्र ‘व्यथेः संप्रसारणं च’ इति वचनात् कुरचि थान्तं रूपमिति तदतिस्थवीयः। कुरज्विधायके सूत्रे व्यथेरुपसंख्यानस्याप्रसिद्धत्वात्। तस्मादिह ‘धः किच्च’ इति दशपादीपाठं पुरस्कुर्वन्तः प्रसादकारादयोऽप्यु- पेक्ष्याः। कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत्--धुरो विगत इति प्रादिसमासेनेत्यवधेहि। ‘समासान्ताः’ (५-४-६९) इति सूत्रे वृत्तिपदमञ्जर्यो- स्तथैवोक्तत्वात्” इति प्रौढमनोरमाकारः। एवं तत्त्वबोधिनीकारोऽपि। (द। उ। ८-२२) टिप्पण्यपीहानुसन्धेया। काशिकायां तु (३-२-१६२) ‘व्यधेः सम्प्रसारणं कुरच्च वक्तव्यः’ इति दृश्यते।
  • आ। ‘मन्मथायुथसंपातव्यथ्यमानमतिः पुनः।।’ भ। का। ४-३०।



Correction: