संस्कृत-शब्दकोशः

व्रजेश्वर व्रज्या

व्रज्

व्रज गतौ


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- व्रजति

अर्थ−
१. घुम्नु, जानु ।
परि-
१. संन्यासीझैँ घुम्नु, यात्रा गर्नु ।

कृदन्तरूपमाला

  • 1“व्रज गतौ” 2 व्राजकः-जिका, व्राजकः-जिका, विव्रजिषकः-षिका, वाव्रजकः-जिका;
  • व्रजिता-ती, व्राजयिता-त्री, विव्रजिषिता-त्री, वाव्रजिता-त्री;
  • इत्यादिकानि रूपाणि समस्तान्यपि भौवादिकध्रजतिवत् 3 ज्ञेयानि।
  • 4 व्रजः, 5 व्रज्या, 6 व्राज्यम्, 7 परिव्राट्-प्ररिव्राड्-परिव्राजौ-परिव्राजः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • 8। व्राजिः, 9 वज्रम्।
  • 10

प्रासङ्गिक्यः

  • (१६६०)
  • (१-भ्वादिः-२५३। सक। सेट्। पर।)
  • (९२६)
  • ७। ‘गोचरसञ्चरवहव्रज--’ (३-३-११९) इत्यधिकरणे घप्रत्ययान्तो निपातितः। व्रजः = गोकुलम्।
  • ८। ‘व्रजयजोर्भावे क्यप्’ (३-३-९८) इति भावे स्त्रीलिङ्गे क्यप्प्रत्ययः। क्तिनोऽपवादः। परिव्रज्या सन्न्यासः।
  • ९। ण्यति, ‘अजिव्रज्योश्च’ (७-३-६०) इति कुत्वनिषेधः।
  • १०। परावुपपदे औणादिके (द। उ। ९-८) क्विप्प्रत्यये, दीर्घे जकारस्य षकारे च रूपमेवम्। परित्यज्य सर्वं व्रजति इति परिव्राट् = यतिः।
  • ११। औणादिके (द। उ। १-५३) ञिप्रत्यये, ञित्त्वादुपधावृद्धिः। तेन रूपमेवम्। व्राजिः = मनः [मुनिः]
  • १२। व्रजति सर्वत्र प्रेरित इति औणादिके (द। उ। ८-४६) रन्प्रत्यये निरूढः। रेफलोपो निपातनात्। वज्रम् = पविः।
  • [पृष्ठम्१२७५+ २७]


व्रज मार्गसंस्कारगत्योः


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- व्राजयति–ते

अर्थ−
१. पूर्ण गर्नु, तयार गर्नु, सिद्ध गर्नु,
२. जानु, घुम्नु ।

कृदन्तरूपमाला

  • 1“व्रज मार्गसंस्कारगत्योः” 2 “वजि 3 मार्गसंस्कारयोर्गतौ चेति मैत्रेयादयः।
  • स्वामी तु व्रजस्थाने वजिं पठित्वा मार्गेति द्वितीयं धातुमाह” इति धातुवृत्तावुक्तम्।
  • ‘-- मार्गणे’ इति धनपालः।
  • ‘द्वौ धातू इत्यन्ये’ इति क्षीरस्वामी।
  • ‘व्रज--’ इति चन्द्रः।
  • ‘व्रज मार्गसंस्कारे’ इति दुर्गः।
  • उभयोरप्यनयोर्वज- व्रजपक्षयोर्मार्गणं संस्कार इत्येवार्थस्तन्त्रान्तरे पठ्यते” इति पुरुषकारे प्रोक्तम् 4
  • व्राजकः-जिका, विव्राजयिषकः-षिका;
  • व्राजयिता-त्री, विव्राजयिषिता-त्री;
  • व्राजयन्-न्ती, विव्राजयिषन्-न्ती;
  • इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिक- क्लपयतिवत् 5 ज्ञेयानि।

प्रासङ्गिक्यः

  • (१६६१)
  • (१०-चुरादिः। सक। सेट्। उभ।)
  • (व्रजि?)
  • (दैवश्लो। ५७)
  • (२८२)



Correction: