व्रणीय
व्रत
व्रण्
व्रण शब्दे
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- व्रणति
अर्थ−
१. शब्द गर्नु, आवाज गर्नु ।
कृदन्तरूपमाला
- 1“व्रण शब्दार्थः” 2 ‘व्रणेच्छब्दार्थविषये व्रणयेद् गात्रचूर्णने।’ 3 इति देवः।
- ‘अयं बशादित्वेन क्वचित् पठ्यते।
- सर्वत्र दन्त्योष्ठ्यादिरेव।’ इति धातुवृत्तिः।
- व्राणकः-णिका, व्राणकः-णिका, विव्रणिषकः-षिका, वंव्रणकः-णिका;
- व्रणिता-त्री, व्राणयिता-त्री, विव्रणिषिता-त्री, वंव्रणिता-त्री;
- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकक्वणतिवत् 4 ज्ञेयानि।
- ‘व्रण क्रिमिभक्षणे’ इति काशकृत्स्नः।
प्रासङ्गिक्यः
व्रण गात्रविचूर्णने
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- व्रणयति–ते
अर्थ−
१. चोट पुऱ्याउनु, घायल गर्नु, घाइते पार्नु, ढुट्याउनु ।
कृदन्तरूपमाला
- 1“व्रण गात्रविचूर्णने” 2 अदन्तः।
- ‘व्रणेच्छब्दार्थविषये व्रणयेद् गात्रचूर्णने’ 3 इति देवः।
- धातुवृत्तौ ‘व्रणति इति दीप्त्यर्थे शपि’ इति दृश्यते।
- भ्वादौ तु शब्दार्थे एव पठितः।
- व्रणकः-णिका, विव्रणयिषकः-षिका, व्रणयिता-त्री, विव्रणयिषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 4 ऊह्यानि।
प्रासङ्गिक्यः