व्रात्यस्तोम
व्रीङ्
व्री
व्री वरणे
गणः- क्र्यादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- व्रिणाति, व्रीणाति
अर्थ−
१. खोज्नु, मन पराउनु, सिला खोज्नु,
२. ढाक्नु, छोप्नु ।
कृदन्तरूपमाला
- 1“व्री वरणे” 2 प्वादिः।
- ‘--वरणे-आवरणे’ इति ‘व्रीतः-व्रीतवान् आवारकेऽर्थे’ इति च काशकृत्स्नः।
- ‘--गतौ च द्रुमे’ इति धा।
- का।
- व्या 3।
- ‘व्रीणाति वरणे तत्र व्रीङो व्रीयेत तु श्यनि।’ 4 इति देवः।
- व्रायकः-यिका, व्रायकः-यिका, विव्रीषकः-षिका, वेव्रीयकः-यिका;
- व्रेता-त्री, व्राययिता-त्री, विव्रीषिता-त्री, वेव्रीयिता-त्री;
- 5 व्रिणन्-न्ती, व्राययन्-न्ती, विव्रीषन्-न्ती;
- -- व्रेष्यन्-न्ती-ती, व्राययिष्यन्-न्ती-ती, विव्रीषिष्यन्-न्ती-ती;
- -- इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकप्लिनातिवत् 6 ज्ञेयानि।
- 7 व्रेपयति।
प्रासङ्गिक्यः
व्रीङ् वृणोत्यर्थे
गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- व्रीयते
अर्थ−
१. खोज्नु, मन पराउनु, सिला खोज्नु,
२. ढाक्नु, छोप्नु ।
कृदन्तरूपमाला
- 1“व्रीङ् वृणोत्यर्थे” 2 ‘-- वरणे-आवरणे सामीप्ये’ इति काशकृत्स्नः।
- ‘व्रीणाति वरणे तत्र व्रीङो व्रीयेत तु श्यनि।’ 3 इति देवः।
- ‘-- छादनं परिग्रहो वा तत्’ इति धा।
- का।
- व्याख्यायाम् 4।
- व्रायकः-यिका, व्रायकः-यिका, विव्रीषकः-षिका, वेव्रीयकः-यिका;
- व्रेता-त्री, व्राययिता-त्री, विव्रीषिता-त्री, वेव्रीयिता-त्री;
- इत्यादीनि रूपाणि सर्वाण्यपि दैवादिकधीङ्धातुवत् 5 ज्ञेयानि।
- धातोरस्य आत्मनेपदित्वात् शानचि व्रीयमाणः, व्रेष्यमाणः इति ज्ञेयम्।
प्रासङ्गिक्यः