शकृद्देश
शक्कर
शक्
शक मर्षणे
गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शक्यति–ते
अर्थ−
१. सहनु, सहन गर्नु ।
कृदन्तरूपमाला
- 1“शक विभाषितो मर्षणे” 2 ‘-- क्षमायाम्’ इति कातन्त्रकाशकृत्स्नौ।
- ‘-- शक्तौ’ इति वोपदेवः।
- ‘शक्यते शक्यतीत्येवं शपि श्नौ श्यनि च क्रमात्।।’ 3 इति देवः।
- शाककः-किका, शाककः-किका, 4 शिक्षकः-क्षिका, शाशककः-किका;
- 5 शक्ता-त्री, शाकयिता-त्री, शिक्षिता-त्री, शाशकिता-त्री;
- इत्येवमादीनि रूपाणि सर्वाण्यपि दैवादिकनश्यतिवत् 6 ज्ञेयानि।
- 7 शक्यन्-शक्यमानः, 8 भोक्तुं शक्यते, 9 शक्तो घटः कर्तुम्-शकितो घटः कर्तुम्, 10 शक्तिः, शक्तिः, 11 शक्यम्, 12 शक्वा-शक्वरी, 13 कलप्रत्यये रूपमेवम्।
- ‘भित्तं शकलम्’ 14;
- सारोऽपि। शकलम्, 15 16 शक्रः, 17 शकुनः-शकुन्तः-शकुन्तिः-शकुनिः, 18 शकृत्, शकटः, इति विशेषरूपाणि।
प्रासङ्गिक्यः
शक्लृ शक्तौ
गणः- स्वादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- शक्नोति
अर्थ−
१. शक्तिमान् हुनु, समर्थशाली हुनु,सक्नु ।
कृदन्तरूपमाला
- 1“शकॢ शक्तौ” 2 ‘शङ्कते शकि शङ्कायां शक्तौ शक्नोति मर्षणे।’ 3 इति देवः।
- ‘शकॢञ्--’ इति काशकृत्स्नः।
- ‘उभयपदी’ इति कातन्त्रशाकटायन- वोपदेवादयः।
- शाककः-किका, शाककः-किका, शिशक्षकः-क्षिका, शाशककः-शिका;
- शक्ता-त्री, शाकयिता-त्री, शिशक्षिता-त्री, शाशकिता-त्री;
- शक्नुवन्-ती, शाकयन्-न्ती, शाकयमानः, 4 शिक्षमाणः, शाशक्यमानः;
- शक्तम्-क्तः, शक्तवान्, शकितः, हरिः द्रष्टुं शकितः, शक्तो वा, शाकितः, शिक्षितः, शाशकितः-तवन्;
- 5 इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकशक्यतिवत् 6 ज्ञेयानि।
- शक्यम्, 7 शक्नुवानः, शक्तिः, 8 शका, 9 शेकिवान्, 10 शकः 11, शक्तिः, 12 शाकः, शकटम्, शकृत्, शक्वा-शक्वरी, शक्या, शक्रः, शकलम्, शक्लम्, शकुनः-शकुनिः-शकुन्तः-शकुन्तिः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
- एतेषां रूपाणां निष्पत्तिप्रकारो दैवादिकधातावेव लिखितः।
- तत्रैव द्रष्टव्यः।
प्रासङ्गिक्यः