संस्कृत-शब्दकोशः

शकृद्देश शक्कर

शक्

शक मर्षणे


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शक्यति–ते

अर्थ−
१. सहनु, सहन गर्नु ।

कृदन्तरूपमाला

  • 1“शक विभाषितो मर्षणे” 2 ‘-- क्षमायाम्’ इति कातन्त्रकाशकृत्स्नौ।
  • ‘-- शक्तौ’ इति वोपदेवः।
  • ‘शक्यते शक्यतीत्येवं शपि श्नौ श्यनि च क्रमात्।।’ 3 इति देवः।
  • शाककः-किका, शाककः-किका, 4 शिक्षकः-क्षिका, शाशककः-किका;
  • 5 शक्ता-त्री, शाकयिता-त्री, शिक्षिता-त्री, शाशकिता-त्री;
  • इत्येवमादीनि रूपाणि सर्वाण्यपि दैवादिकनश्यतिवत् 6 ज्ञेयानि।
  • 7 शक्यन्-शक्यमानः, 8 भोक्तुं शक्यते, 9 शक्तो घटः कर्तुम्-शकितो घटः कर्तुम्, 10 शक्तिः, शक्तिः, 11 शक्यम्, 12 शक्वा-शक्वरी, 13 कलप्रत्यये रूपमेवम्।
  • ‘भित्तं शकलम्’ 14;
  • सारोऽपि। शकलम्, 15 16 शक्रः, 17 शकुनः-शकुन्तः-शकुन्तिः-शकुनिः, 18 शकृत्, शकटः, इति विशेषरूपाणि।

प्रासङ्गिक्यः

  • (१६७०)
  • (४-दिवादिः-११८७। सक। अनिट्। उभ।)
  • (श्लो। ४३)
  • २। ‘सनि मीमाघुरभलभशक--’ (७-४-५४) इति अकारस्य इस्। ‘स्कोः--’ (८-२-२९) इति सकारलोपः। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। षत्वम्। इक्समीपात् हलः परस्य झलादेः सनः कित्त्वात् न गुणः इति बोध्यम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।
  • ३। धातोरनिट्त्वं सर्वसम्मतम्। तेनैवं तृजादिषु रूपम्। क्षीरस्वामी तु ‘विभाषितः’ इत्यस्य ‘इड् वा इति मतभेदः… शकिता शक्ता।’ इत्याह।
  • (६६७)
  • ४। ‘विभाषितः’ इत्यस्य तन्त्रान्तरप्रसिद्ध्या उभयपदित्वं क्षीरस्वामि- शाकटायनदेवप्रभृतिभिरुक्तम्। तत्पक्षे शता श्यन् च। एतत्पक्षखण्डकानां पुरुष- कारधातुवृत्तिकारादीनां मते तु शक्यन् इति एकमेव परस्मैपदं रूपम्।
  • ५। ‘शकधृष--’ (३-४-६५) इत्यनेन धातावस्मिन् उपपदभूते सति धात्वन्तरस्य तुमुन् भवति।
  • ६। ‘सौनागाः कर्मणि निष्ठायां शकेरनिटमिच्छन्ति विकल्पेन’ (काशिका ७-२-१७) इति वचनादत्रेड्विकल्पः। इति धातुवृत्तिः।
  • ७। स्त्रियां क्तिनि शक्तिः। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति क्तिचि शक्तिः = ऋषिविशेषस्य संज्ञा। पुंल्लिंगोऽयं शब्दः। शक्तिः = आयुधविशेषस्य संज्ञा।
  • ८। ‘शकिसहोश्च’ (३-१-९९) इति ण्यदपवादो यत्प्रत्ययः।
  • ९। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-१-९९) इति वनिप्प्रत्यये रूपमेवम्। स्त्रियां तु ‘वनो र च’ (४-१-७) इति ङीप्, तत्सन्नियोगेन रेफश्चान्तादेशः। तेन शक्वरी इति सिद्ध्यति। शक्वरी छन्दोविशेषः।
  • १०। औणादिके [द। उ। ८-११२]
  • (८-२-५९)
  • [पृष्ठम्१२८०+ २७]
  • १। औणादिके (द। उ। ८। ३१) रक्प्रत्यये रूपम्। शक्रः = इन्द्रः।
  • २। ‘शकेरुनोन्तोन्त्युनयः’ (द। उ। १०-५) इति उन-उन्त-उन्ति-उनिप्रत्ययाः। पक्षिनामान्येतानि।
  • ३। औणादिके (द। उ। ६-२६) ऋतिन्प्रत्यये रूपमेवम्। शकृत् = गोपुरीषम्।


शक्लृ शक्तौ


गणः- स्वादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- शक्नोति

अर्थ−
१. शक्तिमान् हुनु, समर्थशाली हुनु,सक्नु ।

कृदन्तरूपमाला

  • 1“शकॢ शक्तौ” 2 ‘शङ्कते शकि शङ्कायां शक्तौ शक्नोति मर्षणे।’ 3 इति देवः।
  • ‘शकॢञ्--’ इति काशकृत्स्नः।
  • ‘उभयपदी’ इति कातन्त्रशाकटायन- वोपदेवादयः।
  • शाककः-किका, शाककः-किका, शिशक्षकः-क्षिका, शाशककः-शिका;
  • शक्ता-त्री, शाकयिता-त्री, शिशक्षिता-त्री, शाशकिता-त्री;
  • शक्नुवन्-ती, शाकयन्-न्ती, शाकयमानः, 4 शिक्षमाणः, शाशक्यमानः;
  • शक्तम्-क्तः, शक्तवान्, शकितः, हरिः द्रष्टुं शकितः, शक्तो वा, शाकितः, शिक्षितः, शाशकितः-तवन्;
  • 5 इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकशक्यतिवत् 6 ज्ञेयानि।
  • शक्यम्, 7 शक्नुवानः, शक्तिः, 8 शका, 9 शेकिवान्, 10 शकः 11, शक्तिः, 12 शाकः, शकटम्, शकृत्, शक्वा-शक्वरी, शक्या, शक्रः, शकलम्, शक्लम्, शकुनः-शकुनिः-शकुन्तः-शकुन्तिः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • एतेषां रूपाणां निष्पत्तिप्रकारो दैवादिकधातावेव लिखितः।
  • तत्रैव द्रष्टव्यः।

प्रासङ्गिक्यः

  • (१६७२)
  • (५-स्वादिः-१२६१। अक। अनि। पर।)
  • (श्लो। ४३)
  • ६। ‘शिक्षेर्जिज्ञासायाम्’ (वा। ३-२-१) इति सन्नन्तात् जिज्ञासार्थे तङेव। ‘पूर्ववत् सनः’ (१-३-६२) इत्यस्यापवादः। अभ्यासलोपादिकं शकधातुवत् बोध्यम्।
  • [पृष्ठम्१२८१+ २७]
  • (१६७०)
  • १। शतरि स्वादित्वात् श्नुप्रत्ययः। उवङादेशः।
  • २। स्त्रियां भिदादिपाठात् (३-३-१०४) अङ्।
  • ३। लिटः क्वसुप्रत्यये, ‘अत एकहल्मध्ये--’ (६-४-१२०) इति एत्वाभ्यासलोपयोः, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमः। छान्दसोऽपि क्वसुः लोके बहुलं प्रयुज्यते इत्यसकृदधस्तात् प्रतिपादितमस्माभिः। काशिकायाम् (७-२-६७) उदाहृतोऽयं शब्दः।
  • ४। पचाद्यचि रूपमेवम्। शकः देशविशेषः। राजविशेषो वा।
  • [देशः]
  • ५। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। शाकः = वार्ताकादिः।



Correction: