संस्कृत-शब्दकोशः

शंसु शस्त

शस्

शसु हिंसायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शसति

अर्थ−
१. १. दुःख दिनु, सताउनु, हिर्काउनु ।
अवि-
१. बिन्ती गर्नु ।

कृदन्तरूपमाला

  • 1“शसु हिंसायाम्” 2 ‘हिंसायां शसति--’ 3 इति देवः।
  • ‘--वधे’ इति बोपदेवः।
  • 4 क्वसौ-शशसिवान्, क्त्वायाम्- 5 शसित्वा-शस्त्वा, 6 विशस्तः-विशसितः, 7 शस्त्रम्- शस्त्री, 8 विशसिता-वैशस्त्रम्, 9 10 शस्यम्-शास्यम् इति विशेषः।
  • इतराणि सर्वाण्यपि रूपाणि भौवादिककसतिवत् 11 बोध्यानि।

प्रासङ्गिक्यः

  • (१६९८)
  • (१-भ्वादिः-७२७। सक। सेट्। पर।)
  • (श्लो। १८४)
  • २। लिटः क्वसौ, ‘न शस--’ (६-४-१२६) इत्यादिना एत्वाभ्यासलोपनिषेधः।
  • ३। उदित्त्वेन क्त्वायामिड्विकल्पः; तेन रूपद्वयम्।
  • ४। ‘धृषिशसी वैयात्ये’ (७-२-१९) इति वैयात्ये (= अविनीते) अर्थे एव ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः; इति नियमात् ‘शस्तो वृषलः’ इत्यविनी- तार्थ एवेण्निषेधः। ‘विशसितः पशुः’ इत्यत्र न।
  • ५। ‘दाम्नीशस--’ (३-२-१८२) इत्यादिना करणे ष्ट्रन्प्रत्ययः। षित्त्वात् स्त्रियां ङीष्।
  • ६। ताच्छीलिकः ‘तृन्’ (३-२-१३५) इति तृन्प्रत्ययः। विशसितुर्धर्म्यं इत्यर्थे ‘विशसितुरिड्लोपश्च’ (वा। ४-४-४९) इतीड्लोपसंयोगशिष्टोऽञ्प्रत्ययः। आदि- वृद्धिः।
  • [पृष्ठम्१२९२+ ३१]
  • १। ‘तकिशसि--’ (वा। ३-१-९७) इति ण्यदपवादो यत्प्रत्ययः। शास्यम् इति तु ‘हन्त्यर्थाश्च’ (ग। सू। चुरादौ) इति वचनात् स्वार्थे णौ, णिजन्ताद्यति बोध्यम्।
  • (१८०)


शसि इच्छायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- आशंसते(प्रायेण आङ्पूर्वः)

अर्थ−
१. चाहनु, इच्छा गर्नु ।
प्र- -
१. प्रशंसा गर्नु ।

कृदन्तरूपमाला

  • 12 शसि इच्छायाम्” 3 ‘आशंसे स्यादिच्छायां शंसतीति स्तुतौ भवेत्।
  • हिंसायां शसति--’ 4 इति देवः।
  • “आङः शसि’ इति पाठात् अयमाङ्पूर्व एव प्रयोक्तव्यः।
  • तथा च काश्यपः ‘अयमाङ्पूर्व एव प्रयोक्तव्यः’ इति।
  • सम्मतायाम् ‘न च केवलो नाप्युपसर्गा- न्तरपूर्वः’ इति।।” इति माधवः।
  • “दुर्गः ‘आङः शासु--’ इत्याह।… आशासित्वा-आशास्त्वा।” इति क्षीरस्वामी।
  • एतेन क्त्वायां आङा सह समासेऽपि न ल्यप् दुर्गमते, इति सिद्ध्यति।
  • माधवस्तु नैतदनुमेने;
  • य एवमाह-- ‘आशस्य;
  • क्त्वो ल्यप्’ इति।
  • उदित्त्वेन क्त्वायामिड्विकल्पपक्षः परं दुर्गाणामधिकः।
  • 5 आशंसुः।
  • ‘शन्सु’ इति दुर्गपाठ इति मा।
  • धा।
  • वृत्ति- दर्शनाज्ज्ञायते।
  • इदित्पक्षपाती माधवोऽपि ल्यपि आशस्य इति कथं रूपसिद्धि- मभिप्रैतीति विचार्यं वर्तते;
  • यतः स एव निष्ठायां आशंसितम् इत्याह।
  • ईदृशेषु स्थलेषु प्रयोगाः पाठाश्च अनियता दृश्यन्ते।
  • सर्वाण्यपि रूपाणि चौरादिक- कुंशयतिवत् 6 बोध्यानि।

प्रासङ्गिक्यः

  • (१६९७)
  • [आङः]
  • (१-भ्वादिः-६२९। सक। सेट्। आत्म।)
  • (श्लो। १८३, १८४)
  • १। ‘सनाशंसभिक्ष उः’ (३-२-१६८) इति कर्तरि उप्रत्ययस्ताच्छीलिकः।
  • (२३२)


शंसु स्तुतौ


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शंसति

अर्थ−
१. प्रशंसा गर्नु, स्तुति गर्नु ।
अभि-
१. झुटो आरोप लाउनु ।
आ-
१. चाहनु,
२. बोल्नु ।
प्र-
१. प्रशंसा गर्नु, स्तुति गर्नु ।

कृदन्तरूपमाला

  • 1“शंसु स्तुतौ” 2 ‘आशंसे स्यादिच्छायां शंसतीति स्तुतौ भवेत्।
  • हिंसायां शसति--’ 3 इति देवः।
  • ‘अयं हिंसायामपि’ इति दुर्गः।
  • 4 शस्यम्-शंस्यम्, 5 शंसित्वा, शस्त्वा, 6 शस्तम्, 7 नृशंसः, 8 नराशंसः, 9 ब्राह्मणाच्छंसी, 10 प्रशस्तिं विन्दन्ति, 11 प्रशंसा, आशंसा, 12 आशंसुः, 13 14 अभिमतफलशंसी 15, इति विशेषरूपाणि।
  • सामान्यरूपाणि तु ण्यन्तप्रकृतिकसन्नन्तं विना चौरादिककुंशयतिवत् 16 बोध्यानि।

प्रासङ्गिक्यः

  • (१६९९)
  • (१-भ्वादिः-७२८। सक। अनि। पर।)
  • (श्लो। १८३, ४)
  • २। ‘शसिदुहिगुहिभ्यो वा’ (काशिका ३-१-१०९) इति वचनात् क्यब्विकल्पः। क्यप्पक्षे प्रत्ययस्य कित्त्वेनोपधानकारलोपः। अनुस्वारोपधत्वेऽपि, उपदेशे ‘नकारजा- वनुस्वारपञ्चमौ झलि धातुषु’ इत्यभियुक्तवचनात् नोपधः। क्यबभावपक्षे ण्यति शंस्यम् इति भवति। ‘प्रशस्यस्य श्रः’ (५-३-६०) इति निर्देशबलात् क्यब्वि- कल्पपक्षः सिद्ध इति बोध्यम्।
  • ३। उदित्त्वेन क्त्वायामिड्विकल्पः। इडभावपक्षे उपधानकारलोपः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति नियमात् न कित्त्वम्; तेन नोपधानकारलोपः।
  • ४। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधः।
  • ५। नॄन् शंसतीति नृशंसः = क्रूरः। ‘कर्मण्यण्’ (३-२-१) इत्यण्। अत्र दुर्गोक्तरीत्या हिंसैव धात्वर्थः।
  • ६। नरा एनं शंसन्ति इति, नराः अस्मिन् आसीनाः शंसन्ति इति वा नराशंसः = अग्निः, देशविशेषो वा। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। अत्र पूर्वपदस्य वनस्पत्यादिषु (६-२-१४०) पाठाद् दीर्घ इति माधवः। काशिकायां तु (६-२-१४०) ‘अन्येषामपि--’ (६-३-१३७) इति दीर्घ उक्तः।
  • ७। अत्र ब्राह्मणादादाय शंसति इति वृत्तिपक्षे ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः। माधवस्तु ‘सुप्यजातौ--’ (३-२-७८)इति णिनिमाह। तत्तु रूढिशब्देष्वसङ्गतमिति बोध्यम्। ‘ब्राह्मणाच्छंसिन उपसंख्यानम्’ (वा। ६-३-२) इति पञ्चम्या अलुक्। यदा तु ब्राह्मणानि शंसति इति वृत्तिः, तदा ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिः। द्वितीयायाः पञ्चमी निपातनादेव। पञ्चम्या अलुक् तु ‘तत्पुरुषे कृति--’ (६-३-१४) इति। उभयथाऽपि ब्राह्मणाच्छंसी कश्चन ऋत्विग्विशेषः।
  • ८। स्त्रियां क्तिनि नलोपे रूपमेवम्।
  • ९। ‘प्रशंसावचनैश्च’ (२-१-६६) इति निर्देशात् क्तिनं पक्षे बाधित्वा अकारप्रत्ययोऽपि भवतीति बोध्यम्। तेन प्रशस्तिः, प्रशंसा इत्युभयमपि साधु।
  • १०। ‘सनाशंसभिक्ष उः’ (३-२-१६८) इति तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु उप्रत्ययः।
  • [पृष्ठम्१२९३+ २८]
  • १। अत्र ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।
  • आ। ‘अभिमतफलशंसी चारु पुस्फोर बाहुः…।।’ भ। का। १-२७।
  • (२३२)



Correction: