शंसु
शस्त
शंस्
शसु हिंसायाम्
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शसति
अर्थ−
१. १. दुःख दिनु, सताउनु, हिर्काउनु ।
अवि-
१. बिन्ती गर्नु ।
कृदन्तरूपमाला
- 1“शसु हिंसायाम्” 2 ‘हिंसायां शसति--’ 3 इति देवः।
- ‘--वधे’ इति बोपदेवः।
- 4 क्वसौ-शशसिवान्, क्त्वायाम्- 5 शसित्वा-शस्त्वा, 6 विशस्तः-विशसितः, 7 शस्त्रम्- शस्त्री, 8 विशसिता-वैशस्त्रम्, 9 10 शस्यम्-शास्यम् इति विशेषः।
- इतराणि सर्वाण्यपि रूपाणि भौवादिककसतिवत् 11 बोध्यानि।
प्रासङ्गिक्यः
शसि इच्छायाम्
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- आशंसते(प्रायेण आङ्पूर्वः)
अर्थ−
१. चाहनु, इच्छा गर्नु ।
प्र- -
१. प्रशंसा गर्नु ।
कृदन्तरूपमाला
- 1“2 शसि इच्छायाम्” 3 ‘आशंसे स्यादिच्छायां शंसतीति स्तुतौ भवेत्।
- हिंसायां शसति--’ 4 इति देवः।
- “आङः शसि’ इति पाठात् अयमाङ्पूर्व एव प्रयोक्तव्यः।
- तथा च काश्यपः ‘अयमाङ्पूर्व एव प्रयोक्तव्यः’ इति।
- सम्मतायाम् ‘न च केवलो नाप्युपसर्गा- न्तरपूर्वः’ इति।।” इति माधवः।
- “दुर्गः ‘आङः शासु--’ इत्याह।… आशासित्वा-आशास्त्वा।” इति क्षीरस्वामी।
- एतेन क्त्वायां आङा सह समासेऽपि न ल्यप् दुर्गमते, इति सिद्ध्यति।
- माधवस्तु नैतदनुमेने;
- य एवमाह-- ‘आशस्य;
- क्त्वो ल्यप्’ इति।
- उदित्त्वेन क्त्वायामिड्विकल्पपक्षः परं दुर्गाणामधिकः।
- 5 आशंसुः।
- ‘शन्सु’ इति दुर्गपाठ इति मा।
- धा।
- वृत्ति- दर्शनाज्ज्ञायते।
- इदित्पक्षपाती माधवोऽपि ल्यपि आशस्य इति कथं रूपसिद्धि- मभिप्रैतीति विचार्यं वर्तते;
- यतः स एव निष्ठायां आशंसितम् इत्याह।
- ईदृशेषु स्थलेषु प्रयोगाः पाठाश्च अनियता दृश्यन्ते।
- सर्वाण्यपि रूपाणि चौरादिक- कुंशयतिवत् 6 बोध्यानि।
प्रासङ्गिक्यः
शंसु स्तुतौ
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शंसति
अर्थ−
१. प्रशंसा गर्नु, स्तुति गर्नु ।
अभि-
१. झुटो आरोप लाउनु ।
आ-
१. चाहनु,
२. बोल्नु ।
प्र-
१. प्रशंसा गर्नु, स्तुति गर्नु ।
कृदन्तरूपमाला
- 1“शंसु स्तुतौ” 2 ‘आशंसे स्यादिच्छायां शंसतीति स्तुतौ भवेत्।
- हिंसायां शसति--’ 3 इति देवः।
- ‘अयं हिंसायामपि’ इति दुर्गः।
- 4 शस्यम्-शंस्यम्, 5 शंसित्वा, शस्त्वा, 6 शस्तम्, 7 नृशंसः, 8 नराशंसः, 9 ब्राह्मणाच्छंसी, 10 प्रशस्तिं विन्दन्ति, 11 प्रशंसा, आशंसा, 12 आशंसुः, 13 14 अभिमतफलशंसी 15, इति विशेषरूपाणि।
- सामान्यरूपाणि तु ण्यन्तप्रकृतिकसन्नन्तं विना चौरादिककुंशयतिवत् 16 बोध्यानि।
प्रासङ्गिक्यः