संस्कृत-शब्दकोशः

शासु शास्ता

शास्

शासु अनुशिष्टौ


गणः- अदादिः
कर्मकः-द्विकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शास्ति

अर्थ−
१. आज्ञा गर्नु,
२. भन्नु, बोध गर्नु
३. अधिकार गर्नु, शासन गर्नु, शासक हुनु, प्रभु हुनु ।

कृदन्तरूपमाला

  • 1“शासु अनुशिष्टौ” 2 जक्षित्यादिः।
  • ‘अनुशिष्टिः = नियोगः’ इति क्षीरस्वामी।
  • विविच्य ज्ञापने प्रसिद्धः।
  • ‘-- इच्छायामाशास्ते, शास्ति शासने।’ 3 इति देवः।
  • 4 शिष्यः, 5 शास्यम्, 6 दुश्शासनः-दुश्शासः, 7 आशीः, 8 शिष्ट्वा--शासित्वा, 9 शिष्टः, 10 शिष्टिः-शास्तिः, 11 शास्ता प्रशास्ता, माणवकं धर्मं 12 13 शासत्, 14 मित्रशीः-आर्यशीः, इति विशेषरूपाणि।
  • सामान्यरूपाणि तु आदादिकचकास्तिवत् 15 बोध्यानि।

प्रासङ्गिक्यः

  • (१७०४)
  • (तःईई#}अदादिः-१०७५। द्विकर्म। सेट्। पर।)
  • (श्लो। १८४)
  • ३। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यप्। ‘शास इदङ्हलोः’ (६-४-३४) इत्युपधाया इकारः। ‘शासिवसि--’ (८-३-६०) इत्यादिना षत्वम्।
  • ४। शास्यम् इति तु ‘शसु हिंसायाम्’ इति भौवादिकधातोः ‘हन्त्यर्थाश्च’ (ग। सू। चुरादिः) इति वचनाण्णिचि, णिजन्ताद् यति ज्ञेयम्।
  • ५। ‘भाषायां शासि--’ (वा। ३-३-१३०) इत्यादिना खलपवादो युच्प्रत्ययः। तस्य वैकल्पिकत्वं प्रक्रियाकौमुद्यामुक्तम्; तेन दुश्शास इति खलपीति केचित्।
  • ६। भावे सम्पदादित्वात् (वा। ३-३-९४) क्विपि ‘आशासः क्वावुपधायाः--’ (वा। ६-४-३४) इति उपधाया इकारः।
  • ७। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे इत्वमुपधायाः, इट्पक्षे धात्वाकारस्य उपधात्वाभावाद् नेकार इति विशेषः। अत एव षत्वमपी- काराश्रयं न भवति।
  • ८। ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधात् एकमेव रूपं निष्ठायाम्।
  • ९। शिष्टिः इत्यत्र ‘तितुत्र--’ (७-२-९) इतीण्निषेधः। शास्तिः इति तु अस्मादेव धातोः क्तिच्प्रत्यये, यद्वा, धातुनिर्देशे श्तिप्प्रत्यये वा ज्ञेयम्। णिजन्तात् शासना इति भवति। णिजन्तादेव शास्तिः इत्यपि माधवः। तस्या- यमाशयः--बाहुलकात् युचा न बाधः, इति।
  • १०। ‘तृन्’ (३-२-१३५) इति ताच्छीलिकः तृन्प्रत्ययः। प्रशास्ता इत्यप्येवमेव। प्रशास्ता = ऋत्विग्विशेषः। ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां च अनिटौ’ (वा। ३-२-१३५) इत्यनिट्त्वम्। संज्ञाभिन्नस्थलेषु ‘प्रशासितारं सर्वेषाम्--’ (मनुः १२-१-२२) इत्यादिषु इड् भवत्येवेति विशेषः।
  • [पृष्ठम्१२९६+ २५]
  • १। शतरि रूपमेवम्। ‘जक्षित्यादयः षट्’ (६-१-६) इत्यभ्यस्तसंज्ञायाम्, ‘नाभ्य- स्ताच्छतुः (७-१-७८) इति नुम्रिषेधः।
  • २। मित्राणि शास्तीति मित्रशीः। आर्यान् शास्तीति आर्यशीः। कर्तरि ‘क्विप् च’ (३-२-७६) इति क्विप्। अत्राप्युपधाया इकार इति विशेषः।
  • (४८५)


शासु इच्छायाम्


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- आशास्ते (प्रायेण आङ्पूर्वः)

अर्थ−
१. आशीर्वाद दिनु, भलो चाहनु,
२. आशा गर्नु ।

कृदन्तरूपमाला

  • 12 शासु इच्छायाम्” 3 “आत्रेय-मैत्रेय-स्वामि-काश्यपाः अमुमुदितं पठन्ति।
  • वर्धमान-सम्मता- कारहरदत्तगर्गादयः अनुदितं पठन्ति” इति माधवः।
  • ‘-- इच्छायामाशास्ते, शास्ति शासने।’ 4 इति देवः।
  • ‘नमोवाकं प्रशास्महे।’ इति भवभूति 5 प्रयोगात् प्रायेणायम् आङ्पूर्वः।
  • 6 आशीः, 7 आशिषा, 8 अन्यदाशीः-अन्याशीः, 9 आशासा- आशास्तिः, 10 आशास्यम्, 11 आशासितः, 12 13 14 आशासनः, 15 आशासित्वा-आशास्त्वा, इति विशेषरूपाणि।
  • इतररूपाणि सर्वाण्यपि आदादिकासधातुवत् 16 बोध्यानि।

प्रासङ्गिक्यः

  • (१७०३)
  • [आङः]
  • (२-अदादिः-१०२२। सक। सेट्। आत्म।)
  • (श्लो। १८४)
  • (उत्तररामचरिते १-१)
  • १। ‘आङः शासः क्वौ’ (वा। ६-४-३४) इति आङ्पूर्वकादस्मात् क्विपि, उपधाया इत्वम्। ‘आशिषि लिङ्लोटौ’ (३-३-१३७), ‘क्षियाशीः--’ (८-२-१०४) इत्यादिनिर्देशाद्वा उपधाया इकारः। धातुसकारस्य ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घः। मित्रशीः आर्यशीः इत्यादि तु नास्माद्धातोः, किन्तु ‘शासु अनुशिष्टौ’ इत्यस्मादिति न्यासपदमञ्जर्यादिषु स्पष्टम्।
  • २। ‘आपं चैव हलन्तानाम्--’ इति वचनात् क्विबन्तात् टाप्। क्विबन्तात्, धातोः इत्वे, ‘शासिवसि--’ (८-३-६०) इत्यादिना षत्वे च एवं सम्पद्यते।
  • ३। अन्या आशीः अन्यदाशीः। ‘अषष्ठ्यतृतीयास्थस्यान्यस्य दुग् आशीराशा--’ (६-३-९९) इत्यादिना दुगागमः। षष्ठीतृतीयान्तत्वे तु अन्याशीः इत्येव।
  • ४। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्यये रूपमेवम्। एतच्च माधव- मतेनोक्तम्। क्षीरस्वामी तु “आशास्तिः। ‘गुरोश्च हलः’ (३-३-१०३) इति नास्ति; निष्ठायां सेटोऽकारवचनात् (द्रष्टव्यम् वा। ३-३-९४)।” इत्याह। अत्र प्रयोगः प्रमाणम्।
  • ५। ‘एतिस्तुशास्वृ--’ (३-१-१०९) इत्यत्र उदितो निर्देशात् न अस्मात् क्यपः प्रसङ्ग इति आशास्यम् इति ण्यदेव--इति माधवः। अयमाशयः-- ‘निरनुब- न्धकग्रहणे न सानुबन्धकस्य’ (परि-८२) इति वचनात् प्रकृतसूत्रे ‘शासु अनुशिष्टौ’ इत्यस्यैव ग्रहणम्, नास्येति। तेनात्र ण्यदेवेति। ‘शास इद् अङ्हलोः’ (६-४-३४) इत्यनेनात्र ण्यत्प्रत्यये इत्वं नाशङ्क्यम्; संयोगस्य ‘संयोगो विप्रयोगश्च साहचर्यं… विशेषस्मृतिहेतवः।।’ (वाक्यपदीयम् २-३१५) इति विशेषस्मृतिहेतुत्वात् अङ्सम्ब- न्धिन एव शासेः इकारविधौ ग्रहणात्, अस्य च अङभावात्।
  • ६। ‘आङः शास’ इति दुर्गसम्मतपाठे निष्ठायामिटि एवं रूपम्। उदित्पक्षपातिनौ आत्रेयमैत्रेयौ तु आशास्तः आशास्तवान् इति निष्ठायां रूपमाहतुरिति माधवीये स्पष्टम्। अयं भावः--उदित्पक्षे क्त्वायामिड्विकल्पनात् निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः, इति तेषां मतम्।
  • आ। ‘ईड्योऽयमीशः समुपास्तिशीलैराशासितः--।’ धा। का। २-४५।
  • [पृष्ठम्१२९५+ ३०]
  • १। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्प्रत्ययः।
  • २। “‘क्त्वाऽपि च्छन्दसि’ (७-१-३८) इति ल्यपोऽपवादे क्त्वादेशे आशास्त्वा आशासित्वा इतीड्विकल्पः” इति आत्रेयमैत्रेयावाहतुरिति माधवः। छन्दसि एवं सम्भवेऽपि लोके ‘समासेऽनञ्पूर्वे--’ (७-१-३७) इति क्त्वाप्रत्ययस्य ल्यबादेशे आशास्य इत्येव न्याय्यमिति बोध्यम्।
  • (६१)



Correction: