संस्कृत-शब्दकोशः

शिष शिष्ट

शिष्

शिष असर्वोपयोगे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शेषयति–ते, शेषति

अर्थ−
१. शेष राख्नु, बचाउनु, पूरा खर्च नगर्नु ।
वि-
१. अधिक हुनु, धेरै हुनु ।

कृदन्तरूपमाला

  • 1“शिष असर्वोपयोगे” 2 ‘शिषोऽसर्वोपयोगे यौ शेषयेत् शेषतीत्युभे।
  • 3 लुङ्यभावादङोऽशेषीत् शिनष्टीति विशेषणे।।’ 4 इति देवः।
  • विपूर्वोऽयमतिशये वर्तते--यथा--विशेषः।
  • आधृषीयत्वेन णिजभावपक्षे अनिट्त्वमस्यापि धातोरिति माधवीये स्पष्टम्।
  • 5 शष्पम्।
  • सर्वाण्यपि रूपाणि यथासम्भवं चेतयतिवत् 6, पूर्वलिखितधातुवच्च स्वयमेवोह्यानि।
  • आधृषीय- त्वात् णिज्विकल्पः।

प्रासङ्गिक्यः

  • (१७१३)
  • (१०-चुरादिः-१८१८। अक। सेट्। उभ।)
  • [आधृषीयः। [पृष्ठम्१२९८+ २५]
  • (श्लो। १७८-९)
  • १। औणादिके (द। उ। ७-७) पप्रत्यये उपधाया अकारे च रूपमेवम्। शष्पम् = बालतृणम्।
  • (५२२)


शिष हिंसायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शिषति

अर्थ−
१. दुःख दिनु, हिर्काउनु, चुट्नु ।

कृदन्तरूपमाला

  • 1“शिष हिंसार्थः” 2 ‘शिषोऽसर्वोपयोगे यौ शेषयेत् शेषतीत्युभे।।
  • लुङ्यभावादङोऽशेषीत् शिनष्टीति विशेषणे।’ 3 इति देवः।
  • ‘शिषिं पिषिं श्लिष्यतिपुष्यती त्विषिम्’ इति व्याघ्रभूतिवचनात् 4 अनिट्त्वं धातोरस्य बोध्यम्।
  • शेषकः-षिका, शेषकः-षिका, शिशिक्षकः-क्षिका, शेशिषकः-षिका, 5 शिष्पः, 6 शेषः, इत्यादीनि समस्तान्यपि रूपाणि रौधादिकपिनष्टिवत् 7 बोध्यानि।
  • ‘शिष्यति’ ‘तल्लोकं शिंषति’ 8 इत्यादयः प्रयोगाः यथासम्भवं दिवादिषु तुदादिगणेऽवसाने मुचाद्यन्तर्गणे च छान्दसत्वेन पठित्वा साधुत्वसम्भावनार्हाः।
  • अतो न तदर्थं तुदादिपाठावश्यकतेति बोध्यम्।

प्रासङ्गिक्यः

  • (१७१२)
  • (१-भ्वादिः-६८७। सक। अनि। पर।)
  • (श्लो। १७८-९)
  • (काशिका ७-२-१०)
  • १। “‘खष्पशिष्प--’ (द। उ। ७-७) इति निपातनात् पप्रत्ययः। शिष्पः = कलायोगः” इति माधवः। (द। उ। वृत्तौ ७-७) उपधाया अत्वे शष्पम् = घासः इति दृश्यते।
  • २। शेषति = हिनस्तीति शेषः = नागः। कर्तरि बाहुलकात् घञ्।
  • (१००२)
  • (गोपथब्राह्मणम् ३-८२-२)


शिष्लृ विशेषणे


गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- शिनष्टि

अर्थ−
१. पृथक्-पृथक् गर्नु, अलग्ग्याउनु, छुट्याउनु,
२. गुण-दोष देखाउनु, भिन्नता देखाउनु, विशेषता बताउनु ।

कृदन्तरूपमाला

  • 1“शिषॢ विशेषणे” 2 ‘विशेषणम् = उपरञ्जनम्’ इति दुर्गादासः।
  • 3 विशेषः-वैशेषिकः, शेषः, 4 महाविशिष्टः।
  • यथासम्भवं सर्वाण्यपि रूपाणि रौधा- दिकपिनष्टिवत् 5 बोध्यानि।

प्रासङ्गिक्यः

  • (१७१४)
  • (७-रुधादिः-१४५१। अक। अनि। पर।)
  • २। विशिष्यते इति विशेषः--कणादसंमतः पदार्थविशेषः। विशेष एव वैशेषिकः विनयादित्वात् (५-४-३४) स्वार्थे ठक्। ठस्य इकादेशः।
  • ३। विपूर्वकात् निष्ठायां विशिष्टः इति सिद्धम्। महत्या विशिष्टः महाविशिष्टः। संज्ञाविशेषः। ‘महदात्वे घासकरविशिष्टेषूपसंख्यानम्’ (वा। ६-३-४६) इत्यात्वम्; पुंवद्भावश्च।
  • (१००२)



Correction: