संस्कृत-शब्दकोशः

शिह्लक शीक

शी

शी (स्त्रीलिङ्ग)


निष्पत्ति− शीङ् (स्वप्ने) - "क्विप्" (३-२-१७८)
विस्तार− "शीश्च शयनमित्याहुः" - मेदि०

अर्थ−
१. निद्रा,
२. शान्ति,
३. सुत्नु,
४. भक्ति ।


शीङ् शये/स्वप्ने


गणः- अदादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शेते

अर्थ−
१. सुत्नु, शयन गर्नु ।
अति-
१. अतिशय हुनु, अधिक हुनु ।
अधि-
१. निवास गर्नु, बस्नु ।
सम्- , वि-
१. शङ्का गर्नु, सन्देह गर्नु ।

कृदन्तरूपमाला

  • 1“शीङ् स्वप्ने” 2 शायकः-यिका, शायकः-यिका, 3 शिशयिषकः-षिका, 4 शाशय्यकः-य्यिका;
  • 5 शयिता-त्री, शाययिता-त्री, शिशयिषिता-त्री, शाशय्यिता-त्री;
  • -- शाययन्-न्ती, -- शाययिष्यन्-न्ती-ती;
  • -- 6 शयानः, 7 8 शाययमानः, शिशयिषमाणः, शाशय्यमानः;
  • शयिष्यमाणः, शाययिष्यमाणः, शिशयिषिष्यमाणः, शाशय्यिष्यमाणः;
  • 9 सुखशीः-सुखश्यौ-सुखश्यः;
  • -- -- -- 10 शयितम्-तः 11 -तवान्, शायितः, शिशयिषितः, शाशयितः-तवान्;
  • 12 शयः, 13 इति ग्रह्यादिपाठात् विपूर्वकात् णिनिप्रत्ययः।
  • निपातनात् देशविशेषवाचकत्वे वृद्ध्यभावः।
  • अन्यत्र विशायी इत्येव। विशयी, 14 15 खेशयः-खशयः, 16 बिलेशयः, 17 पूर्वाह्णशयः, 18 पार्श्वशयः, उरश्शयः, उदरशयः, पृष्ठशयः, हस्तशयः, ऊर्ध्वशयः, 19 उत्तानशयः, 20 अवमूर्धशयः, 21 दिग्धसहशयः, 22 गिरिशः, 23 24 शयालुः, 25 26 शयितः, 27 अतिशयितो गुरुं शिष्यः-अतिशयितो गुरुः शिष्येण, 28 ग्रामम् 29 अधिशयानः, 30 स्थण्डिलशायी 31 तरुस्थलशयी, 32 शेषशायी-अब्धिशायी, 33 रङ्गशायी, 34 शयानो भुङ्क्ते यवनः, शायः, शिशयिषुः-शिशाययिषुः, शाशयः;
  • शयितव्यम्, शाययितव्यम्, शिशयिषितव्यम्, शाशय्यितव्यम्;
  • 35 शयनीयम् 36 , शायनीयम्, शिशयिषणीयम्, शाशय्यनीयम्;
  • शेयम्, शाय्यम्, शिशयिष्यम्, शाशय्यम्;
  • ईषच्छयः-दुश्शयः-सुशयः;
  • -- -- 37 शय्यमानः, शाय्यमानः, शिशयिष्यमाणः, शाशय्यमानः;
  • 38 शयः, तव 39 उपशायः 40 -विशायः, उपशयः, विशयः, 41 संशयः-सांशयिकः, 42 43 अतिशयः-आतिशायिकः-आतिशयिकः, शायः, शिशयिषः, शाशय्यः;
  • शयितुम्, शाययितुम्, शिशयिषितुम्, शाशय्यितुम्;
  • 44 संशीतिः 45 शय्या 46 , 47 सुखशायिका, 48 सुशयिका, शायना, शिशयिषा-शिशाययिषा, शाशय्या;
  • शयनम्, 49 सुखशयनम्-सौखशायनिकः, श्मशानम् 50 , 51 अतिशायनम्-अतिशय- नम्-आतिशायनिकम्, शायनम्, शिशयिषणम्, शाशय्यनम्;
  • 52 शयित्वा, 53 शाययित्वा, शिशयिषित्वा, शाशय्यित्वा;
  • 54 उपशय्य, विशाय्य, प्रशिशयिष्य, प्रशाशय्य;
  • शायम् २ शयित्वा २ शायम् शाययित्वा २ शिशयिषम् २ शिशयिषित्वा २ शाशय्यम् २;
  • शाशय्यित्वा २;
  • 55 उप्रत्ययः। शयुः, 56 शयानकः, 57 शीधुः-शीलम्-शैवालम्-शेवलः, 58 शेवः, शेपः, 59 शिखा, 60 शिनिः, 61 निशीथः।

प्रासङ्गिक्यः

  • (१७१७)
  • (२-अदादिः-१०३२। अक। सेट्। आत्म।)
  • २। सन्नन्तात् द्विर्वचनादिकेषु कृतेषु सर्वत्र रूपमेवं बोध्यम्।
  • ३। यङन्ते प्रत्ययस्य ङित्त्वात् ‘अयङ् यि क्ङिति’ (७-४-२२) इत्ययङ् सर्वत्र बोध्यः।
  • ४। ‘इवर्णेष्वथ शीङ्श्रिञावपि’ (व्याघ्रभूतिकारिका; काशिका ७-२-१०) इति वचनाद् धातोः इड् भवतीति बोध्यम्।
  • ५। शानच्प्रत्ययस्य ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावेन यद्यपि ‘क्ङिति च’ (१-१-५) इति गुणनिषेधोऽत्र प्राप्तः; तथापि ‘शीङः सार्वधातुके गुणः’ (७-४-२१) इति विशेषविधानाद् गुणो भवतीति बोध्यम्। ‘शयाना भुञ्जते यवनाः’ इत्यत्र ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति शानच् इति ज्ञेयम्।
  • आ। ‘शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्।।’ भ। का। ९-८४।
  • ६। अचित्तवत्कर्तृकत्वे एवं शानजपि ण्यन्तात् भवतीति माधवः। चित्तवत्कर्तृकत्वे तु ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति नित्यं परस्मैपदमेव।
  • ७। सुखं शेते इति सुखशीः। द्विवचनादौ ‘एरनेकाचोऽसंयोगपूर्वस्य’ (६-४-८२) इति यणि सुखश्यौ सुखश्यः इत्यादीनि बोध्यानि।
  • ८। ‘निष्ठा शीङ्--’ (१-२-१९) इति वचनात् धातोरत्र निष्ठाया अकित्त्वम्। तेन गुणः।
  • B। ‘मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम्।।’ भ। का। ७-१०३।
  • ९। पचादिपाठादच्प्रत्ययः। गुणायादेशौ।
  • १०। ‘विशयी देशे’ [ग। सू। ३-१-१३४]
  • [पृष्ठम्१३००+ २९]
  • १। खे शेते इति खेशयः--खशयः। ‘अधिकरणे शेतेः’ (३-२-१५) इति अच्प्र- त्ययः। ‘शयवासवासिष्वकालात्’ (६-३-१८) इति पाक्षिकः सप्तम्या अलुक्। एवं रङ्गेशयः अद्रिशयः बिलेशयः कुशेशयम् इत्यादयो बोध्याः।
  • आ। ‘अब्भ्रेण खे सञ्चरमाण आरात् बिलेशयद्वेषिसमानजूतिः। वा। वि। २-२३।
  • २। पूर्वाह्णे शेते इति पूर्वाह्णशयः। अत्र कालार्थकत्वात् न सप्तम्याः पाक्षिकोऽप्यलुक्-- ‘-- अकालात्’ (६-३-१८) इत्युक्तेः।
  • ३। पार्श्वाभ्यां शेते पार्श्वशयः। उरसा शेते उरश्शयः। एवं उदरशयः पृष्ठशयः इत्यादयो ज्ञेयाः। अत्र सर्वत्र ‘पार्श्वादिषूपसंख्यानम्’ (वा। ३-२-१५) इति अच्प्रत्ययः।
  • ४। उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः। अत्र ‘उत्तानादिषु कर्तृषु’ (वा। ३-२-१५) इति अच्प्रत्ययः।
  • B। ‘शौरिर्यशोदाशयने न्यधात्ताम् आदत्त चोत्तानशयां कुमारीम्।’ वा। वि। ३-४०।
  • ५। दिग्धेन सह शेते इति दिग्धसहशयः। ‘दिग्धसहपूर्वाच्च’ (वा। ३-२-१५) इति अच्प्रत्ययः। ‘दिग्धसह’ इत्यत्र, मयूरव्यंसकादित्वात् (२-१-७२), अस्मादेव निर्देशाद्वा तत्पुरुषसमासः। तत उपपदसमासः।
  • ६। ‘गिरौ डश्छन्दसि’ (वा। ३-२-१५) इति गिरावुपपदे शेतेर्डप्रत्ययः। प्रत्ययस्य डित्त्वेन टेर्लोपः। गिरिरस्यास्तीत्यर्थे लोमादित्वात् (५-२-१००) शप्रत्ययेन प्रसाध्य भाष्ये वार्त्तिकमिदं प्रत्याख्यातम्। निमित्तावधिसंकरत उभयमपि प्रमाणमद्यत्वे इति सिद्धान्तः।
  • C। ‘आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम्।।’ कु। सं। १-३७।
  • ७। ‘आलुचि शीङो ग्रहणम्’ (वा। ३-२-१५८) इत्यालुच् ताच्छीलिकः। शयनशीलः शयालुः।
  • ड्। ‘हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान्।।’ शि। व। २-८०।
  • ८। ‘मतिबुद्धि--’ (३-२-१८८) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् अस्मादपि धातोः वर्तमाने क्तप्रत्ययः।
  • ९। ‘गत्यर्थाकर्मकश्लिषशीङ्--’ (३-४-७२) इत्यादिनाऽत्र कर्तृकर्मणोर्यथासम्भवं क्तप्रत्ययो ज्ञेयः। उपसर्गवशादत्र धातुस्सकर्मक इत्यवधेयम्।
  • [पृष्ठम्१३०१+ ३०]
  • १। अत्र ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इत्याधारस्य कर्मत्वम्।
  • २। ‘व्रते’ (३-२-८०) इति णिनिः। स्थण्डिल एव शेते स्थण्डिलशायी। यस्स्थण्डिल एव व्रतविशेषानुपालनार्थं शेते स एवमुच्यते। यस्तु कदाचित् कटाद्यभावात् स्थण्डिले शेते सः स्थण्डिलशय इत्युच्यते इति बोध्यम्।
  • आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३-४१
  • ३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।
  • B। ‘पृक्ताग्रजः पृञ्जितगोपसूनुर्दृष्टोऽब्धिशायी स जनैर्युवद्भिः।।’ धा। का। २-४६
  • ४। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति लक्षणार्थे शानच्। शयानानामेव सतां भोजनकरणं यवनलक्षणमिति समुदितार्थः।
  • ५। अधिकरणेऽप्यनीयर्प्रत्ययो भवति, बाहुलकात्। शेरतेऽस्मिन् इति शयनीयम्।
  • C। ‘गतमाभरणप्रयोजनं शयनीयं परिशून्यमद्य मे।।’ रघु। ८-६५
  • ६। यकि, ‘अयङ् यि क्ङिति’ (७-४-२२) इति अयङ् आदेशः। आदेशस्य अनेकाल्त्वेऽपि ‘ङिच्च’ (१-१-५३) इत्यन्त्यस्येकारस्यादेशः।
  • ७। ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्ययः।
  • ८। पर्यायार्थे गम्यमाने, वि, उप इत्युपसर्गाभ्यां परस्यास्य ‘व्युपयोः शेतेः पर्याये’ (३-३-३९) इति घञ् प्रत्ययः, इवर्णान्तत्वलक्षणाच्प्रत्ययस्यापवादः। तव विशायः। मम राजोपशायः, राजानमुपशयितुं पर्याय इत्यर्थः। पर्यायभिन्नार्थे तु उपशयः, विशयः इत्यजेव।
  • ड्। ‘निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः।।’ भ। का। ७-४१
  • ९। संशय्यते इति संशयः = सन्देहः। संशयं आपन्नोऽर्थः सांशयिकः। ‘संशयमाप- न्नः’ (५-१-७३) इति ठञ्। सांशयिकः स्थाणुः। स्थाणुः संशयं = पुरुष इति सन्देहमापन्न इत्यर्थः। अमरसिंहस्तु ‘सांशयिकः संशयापन्नमानसः’ (३-१-५) इति संशयकर्तर्यपि प्रयोगमनुमेने; द्वितीयान्तप्रकरणे पुनः ‘संशयं--’ (५-१-७३) इति द्वितीयान्तत्वेनैव पाठात् कर्भण्येव प्रत्ययो न तु कर्तरि इति न्यासपद- मञ्जर्यादिषु स्पष्टम्।
  • [पृष्ठम्१३०२+ २९]
  • १। अतिशेते इत्यतिशयः। उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः। अतिशये भवः आतिशायिकः, अध्यात्मादित्वात् (५-४-४४) ठञ्। अनुशतिकादित्वात् (७-३-२०) उभयपदवृद्धिः। ‘व्याप्तमातिशयिकेन रसेन’ (माघः १०-२३) इत्यत्र तु विन- यादित्वात् (५-४-३४) ठक्।
  • २। भावे क्तिन्। संशीतिः = संशयः। ‘तितुत्र--’ (७-२-९) इतीण्न्{??}एइषेधः।
  • ३। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति संज्ञायां गम्यमानायां स्त्रियां भावादौ क्यप्प्रत्ययः। शेरतेऽस्यामिति शय्या। कित्त्वादयङ्।
  • आ। ‘शय्योत्थायं मृगान् विघ्यन्नातिथेयो विचक्रमे।।’ भ। का। ४-८
  • ४। सुखशयनम् सुखशायिका। धात्वर्थनिर्देशे स्त्रियां ण्वुल्।
  • ५। शोभनः शयोऽस्याः सुशयिका। ‘प्रत्ययस्थात् कात्--’ (७-३-४४) इतीकारः।
  • ६। सुखेन शयनम्--सुखशयनम्। सुखशयनं पृच्छतीति सौखशायनिकः। ‘पृच्छतौ सुस्नातादिभ्यः’ (वा। ४-४-१) इति ठक्। ‘भृग्वादीन् अनुगृह्णन्तं सौखशायनिकान् ऋषीन्।।’ (रघुवंशः १०-१४)
  • ७। शवानां शयनम् = श्मशानम्। पृषोदरादित्वात् (६-३-१०९) शवशब्दस्य श्मादेशः, शयनशब्दस्य ‘शान’ इत्यादेशः। काशिका (६-३-९) द्रष्टव्या।
  • ८। अतिशयनम् एव अतिशायनम्। ‘अतिशायने तमबिष्ठनौ’ (५-३-५५) ‘नित्ययोगेऽतिशायने।’ (वा। ५-२-९४) इति सूत्रवार्त्तिकादिनिर्देशात् ल्युडन्ते दीर्घः पाक्षिकः; तेन अतिशयनम् अतिशायनम् इत्युभयमपि साधु। न च वाच्यम्-- ‘बाधकान्येव निपातनानि’ (परिभाषा। ११९) इति वचनात् अतिश- यनम् इत्यसाव्वेवेति; यतः ‘अबाधकान्यपि निपातनानि’ (परि १२०) इति वचनात् उभयमपि साच्वेवेति माधवः। वस्तुतः ‘अज्विधौ भयादीनामुपसंख्यानम्-- नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति वचनात् अस्य धातोः अतिपूर्वस्य ल्युटि रूपस्यानभिधानमेव; अत एव च निर्देशात् अतिशायनम् इत्येकमेव रूपं साधु इति प्रतीमः।
  • ९। ‘न क्त्वा सेट्’ (१-२-१८) इति सेटः क्त्वायाः कित्त्वनिषेधात् गुणोऽत्र।
  • B। ‘… शयित्वा रजनीं सपौरः।’ भ। का। ३-१६।
  • [पृष्ठम्१३०३+ २९]
  • १। अत्यर्थं शेरते इति शयुः = अजगरः। औणादिकः [द। उ। १-९२]
  • २। औणादिके (द। उ। २६) आकप्रत्यये शयानकः इति भवति।
  • ३। ‘शीङो धुक्लग्वलन्वालनः’ (द। उ। १०-९) इति क्रमेण धुगादिप्रत्ययेषु रूपाणीमानि सिद्धानि। शीधुः = मदिरा। केचित् शीथुः इति पठन्ति। शीलम् = स्वभावः। शेवल-शैवालौ जललताविशेषवाचकौ।
  • ४। औणादिके (द। उ। ८-१२६) वन्प्रत्यये रूपम्। शेवः सर्पः। शेवा इति केचित्। औणादिके (द। उ। ६-६९) इति क्वनिप्प्रत्यये तु शीवा इति भवति।
  • ५। औणादिके (द। उ। ३-५५) खप्रत्यये शिखा केशबन्धः।
  • ६। औणादिके निप्रत्यये धातोर्ह्रस्वे च रूपम्। शिनिः क्षत्रियविशेष इति माधवः।
  • ७। नितरां शेरतेऽस्मिन् प्राणिन इति निशीथः = अर्धरात्रम्। औणादिकस्थक्प्रत्ययोऽत्र।



Correction: