शुभोदर्क
शुभ्र
शुभ्
शुभ दीप्तौ
गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शोभते
अर्थ−
१. चम्कनु, प्रकाशित हुनु, देदीप्यमान हुनु,
२. शोभा पाउनु ।
कृदन्तरूपमाला
- 1“शुभ दीप्तौ” 2 ‘शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम्।’ 3 इति देवः।
- ‘-- हिंसने च’ इति वीपदेवः।
- अर्थभेदात् पुनः पाठः।
- शोभकः-भिका, शोभकः-भिका, शुशुभिषकः-शुशोभिषकः-षिका, शोशुभकः- भिका;
- इत्यादिकानि रूपाणि सर्वाण्यपि कुप्यतिवत् 4 ज्ञेयानि।
- शुभम्, शोभनः, शोभनम्, शोभा 5, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
शुभ भाषणे हिंसायां च
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शोभति
अर्थ−
१. भाषण गर्नु, बोल्नु,
२. मार्नु, सताउनु ।
कृदन्तरूपमाला
- 1“शुभ भाषणे” 2 क्षीरस्वामि-चन्द्र-जैन-कातन्त्र-हेमचन्द्रादयः न पठन्ति।
- ‘हिंसाभाषणयोः शोभेत्, शोभार्थे शुभतीति शे।।’ 3 इति देवः।
- शोभकः-भिका, शोभकः-भिका, शुशुभिषकः-शुशोभिषकः-षिका, शोशुभकः-भिका;
- शोभिता-त्री, शोभयिता-त्री, शुशुभिषिता-शुशोभिषिता-त्री, शोशुभिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 4 ऊह्यानि।
- णिनिप्रत्यये शोभी 5 इति।
- शोभनः-शब्दार्थत्वप्रयुक्तयुच्प्रत्ययः।
- 6
प्रासङ्गिक्यः
शुभ शोभार्थे
गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शुभति
अर्थ−
१. सुन्दर हुनु, शोभायमान हुनु, राम्रो हुनु ।
कृदन्तरूपमाला
- 1“शुभ शोभार्थे” 2 ‘हिंसाभाषणयोः शोभेत् शोभार्थे शुभतीति शे।।’ 3 इति देवः।
- सर्वाण्यपि रूपाणि दैवादिककुप्यतिवत् 4 ऊह्यानि।
- ‘शोभा 5 इति साधुः’ इति स्वामी।
- औणादिके 6 रक्प्रत्यये शुभ्रमिति रूपम्।
- 7 शोभनः 8।
प्रासङ्गिक्यः