संस्कृत-शब्दकोशः

शैशुनाग शोक

शो

शो तनूकरणे


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- श्यति

अर्थ−
१. तिखार्नु, धार लगाउनु, सान लगाउनु, उध्याउनु, पाइन हाल्नु, धारिलो बनाउनु ।

कृदन्तरूपमाला

  • 1“शो तनूकरणे” 2 ‘-- तक्षणे’ इति हेमचन्द्रः।
  • ‘--निशाने’ इति वोपदेवः।
  • अन्ये सर्वेऽपि ‘-- तनूकरणे’ इत्येव पठन्ति।
  • शायकः-यिका, 3 शायकः-यिका, शिंशासकः-सिका, शाशायकः-यिका;
  • शाता-त्री, शाययिता-त्री, शिशासिता-त्री, शाशायिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकच्छेदनार्थकछ्यति 4 वत् ऊह्यानि।
  • शाययन्, निष्ठायाम् 5 निशितम् 6 -निशातम्- 7 तः, संशितो ब्राह्मणः, संशितव्रतः, निशा, क्तिनि-निशितिः-निशातिः, ल्यपि 8 -प्रशाय, क्त्वायाम्-शित्वा-शात्वा, 9 शिशुः, 10 शादः इत्यादीनि रूपाणि अस्य धातोः विशेषः।
  • शतरि-श्यन् 11 इति।

प्रासङ्गिक्यः

  • (१७५५)
  • (४-दिवादिः-११४५। सक। अनि। पर।)
  • १। ‘शाच्छासह्वा--’ (७-३-३७) इत्यादिना णिजन्ते युगागमः। आदन्तलक्षणपुको- ऽपवादः।
  • (५७७)
  • २। ‘शाच्छोः--’ (७-४-४१) इति प्रकृतेरिकारः। एष व्यवस्थितविभाषया व्रतार्थे नित्यः। तनूकरणार्थे न इति ‘मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।।’ (भाष्यम् ७-४-४१) इति वचनाज्ज्ञेयम्। ‘श्यतेरित्वं व्रते नित्यं’ (वा। ७-४-४१) इति चात्र ज्ञेयम्।
  • आ। ‘आरक्षमग्रमवतत्य सृणिं शिताग्रमेकः पलायत जवेन कृतार्तनादः।’ शि। व। ५-५।
  • B। ‘पुराणि दुर्गाणि निशातमायुथं बलानि शूराणि घनाश्च कञ्चुकाः।’ शि। व। १-४५।
  • ३। ‘अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते’ (परिभाषा-५५) इति न्यायेन ‘शाच्छोरन्यतरस्याम्’ (७-४-४१) इति इत्वं ल्यपि न प्रवर्तते।
  • ४। औणादिके (द। उ। १-१०५) उप्रत्यये रूपमेवम्। श्यति मातुः स्तनं पीत्वेति शिशुः = बालः।
  • ५। ‘शाशपिभ्यां ददनौ’ (द। उ। ६-४८) इति दप्रत्यये रूपमेवम्। शादः = मृदुः।
  • C। ‘… प्रीतिं श्यतोऽस्य स करेण शिरोधिमच्छात्।’ धा। का। २-५९।



Correction: