संस्कृत-शब्दकोशः

प्रबुद्ध प्रबोधन

प्रबोध

वाचस्पत्यम्

प्रबोध ||‍ पु० प्र + बुध—भावाधारादौ घञ् । १ निदूपगमे तसा प्रकृष्टज्ञानाधारत्वात् तथात्वम् । २ यथार्थज्ञाने च ।


शब्दकल्पद्रुमः

प्रबोधः || पुं, (प्र + बुध्यौ ङ अपगमे + भावे घञ् ।)
विनिद्रत्वम् । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ८१ । ६७ । “प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥”)
प्रकृष्टज्ञानञ्च । यथा, —
“तावत् सत्यं जगद्भाति प्रबोधे सत्यसद्भवेत् ॥” इत्यात्मबोधग्रन्थः ॥ (यथा च रघुः । ५ । ६५ । “सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”)



Correction: