संस्कृत-शब्दकोशः

प्रबोध प्रबोधनी

प्रबोधन

वाचस्पत्यम्

प्रबोधन ||‍ न० प्र + बुध—भावे ल्युट् । १ यथार्षज्ञाने २ निद्धा- पगमे । प्र + बुध—णिच्—भावे ल्युट् । ३ प्रकृष्टवोधने ४ उद्दीपने ५ पूर्वगन्धस्य न्यूनतायां पुनः सौगन्ध्योत्पादनाय व्यापारभेदे अमरः ।


शब्दकल्पद्रुमः

प्रबोधनं || क्ली (प्र + बुध् + ल्युट् ।)
न्यूनपूर्ब्ब- गन्धस्य चन्दनादेः प्रयत्नविशेषेण पुनः पूर्ब्ब- सौगन्ध्योत्पादनम् । तत्पर्य्यायः । अनुबोधः २ । इत्यमरभरतौ । बोधजननञ्च ॥ (जागरणम् । यथा, हरिवंशे । १७७ । ७१ । “ततस्तूर्य्यनिनादैश्च शङ्खानाञ्च महास्वनैः । प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥” विकाशः । यथा, पञ्चतन्त्रे कथामुखे । “तदेतेषां बुद्धिप्रबोधनं यथा भवति तथा केनाप्युपायेनानुष्ठीयतामिति ॥” तथा च ऋतु- संहार । ५ । १० । “सुगन्धिनिःश्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधनम् ॥”)



Correction: