संस्कृत-शब्दकोशः

प्रयियु प्रयुक्ति

प्रयुक्त

वाचस्पत्यम्

प्रयुक्त ||‍ त्रि० प्र + युज—क्त । १ प्रकर्षेण संयोगयुते २ प्रेरिते ३ प्र- योज्ये परम्परया कार्ये च । तस्य भावः प्रयुक्तत्व तद्भावे न० । स च स्वरूपसम्बन्धभेदः कारणाभावेन कार्य्याभाव इत्यादिप्रतीतिसिद्धः गौ० सू० । तदुक्तं गौ० सू० १ । १ । २ । वृत्तौ प्रयोज्यत्वं प्रयोजकत्वं वा पञ्चम्यर्थः दण्डाभावात् घटाभाव इतिवत् स्वरूपस- म्बन्धविशेष एव तत्” ।


शब्दकल्पद्रुमः

प्रयुक्तं || त्रि (प्र + युज् + क्तः ।)
प्रकर्षेण युक्तम् । यथा, —
“गुणप्रयुक्ताः परमर्म्मभेदिनः शरा इवावंशभवा भवन्ति हि । तथाविधा ये तु विशुद्धवंशजा व्रजन्ति चापा इव तेऽतिनम्रताम् ॥” इत्युद्भटः ॥ प्रकृष्टस्रमाधियुक्तम् । प्रकृष्टसंयोगविशिष्टम् । प्रकृष्टनिन्दायुक्तम् । प्रकृष्टसंयमविशिष्टम् । प्रपूर्ब्बयुगधात्वर्थदर्शनात् । हेतौ क्ली । यथा । न च समवायिनिमित्ताभावप्रयुक्तो नियमेन कार्य्याभावः किन्त्वसमवायिकारणाभावप्रयुक्तो- ऽपि । इति रक्षितः ॥



Correction: