वाचस्पत्यम्
प्रयोग || पु० प्र + युज—भावकर्मकरणेषु यथायथं घञ् कुत्वम् । १ अनुष्ठाने २ शब्दादीनामुच्चारणभेदे ३ वशीकरणाद्युषाये कामेणे कर्मणि । ४ घोटके च मेदि० । प्रयोगैर्निर्वृत्तः ठञ् । अनुशति० द्विपदवृद्धिः । प्रायौगिक प्रयोगसाध्ये त्रि० स्त्रियां ङीप् । तत्र वाक्योच्चारणं च अनुमाना- ङ्गपञ्चावयववाक्योच्चारणं यथा “अत्रायं प्रयोगः प्रर्वतो वह्निमान् धूमादित्यादि” यथायोगं समभिव्याहृतत्वेनो- च्चारणं प्रयोग इति शाब्दिकाः । यज्ञादिक्रियाकलापेति- कर्त्तव्यताबोधकानां समुच्चयप्रतिपादके पद्धत्यपरपर्य्याये ग्रन्धे इति याज्ञिकाः । भूतप्रेताद्युच्चाटनादिसाधने मन्त्रोच्चारणभेदे तान्त्रिकाः । ५ शस्त्रादिमोचने यो- द्धारः । ६ नायकयोर्मेलने क्रियाभेदे इत्यालङ्कारिकाः ।
शब्दकल्पद्रुमः
प्रयोगः || पुं, (प्र + युज् + भावकर्म्मादौ यथायथं घञ् ।)
कार्म्मणम् । वशीकरणम् । प्रयुक्तिः । (यथा, रघुः । २ । ४२ । “प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्ब्बभङ्गे वितथप्रयत्नः ॥”)
निदर्शनम् । इति मेदिनी । गे, ४४ ॥ (यथा, पञ्चदश्याम् । ६ । ४३ । “स्वयमात्मेति पर्य्यायस्तेन लोके तयोः सह । प्रयोगो नास्त्यतः स्वत्वमात्मत्वञ्चान्यवारकम् ॥”)
घोटकः । इति शब्दमाला ॥ (सामाद्युपा- यानुष्ठानम् । यथा, माघे । ११ । ६ । “क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा- नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ॥” अभिनयः । यथा, रघुः । १९ । ३६ । “स प्रयोगनिपुणः प्रयोक्तृभिः सञ्जषर्ष सह मित्रसन्निधौ ॥” वृद्ध्यै ऋणदानम् । स तु धनप्राप्त्युपायेषु अन्य- तमः । यथा, मनुः । १० । ११५ । “सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”)