संस्कृत-शब्दकोशः

प्ररोचन प्रलपन

प्ररोह

वाचस्पत्यम्

प्ररोह ||‍ पु० प्र + रुह—अच १ अङ्कुरे “प्लक्षप्ररोह इव सौध- तलं विभेद” इति रघुः । २ आरोह च हेमच० । भावे घञ । ३ उत्पत्तौ पु० । भावे ल्युट् । प्ररीहण ष्टत्पत्तौ न०


शब्दकल्पद्रुमः

प्ररोहः || पुं, (प्ररोहतीति । प्र + रुह् + अच् ।)
अङ्कुरः । इति हेमचन्द्रः । ४ । १८५ ॥ (यथा, कुमारे । ५ । ६० । “द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥” नन्दीवृक्षः । तत्पर्य्यायो यथा, —
“नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः । स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)



Correction: