वाचस्पत्यम्
प्रवेष्ट || पु० प्र + वेष्ट—अच् । १ बाहौ अमरः २ बाहुनीचभागे शब्दच० ३ हस्तिदन्तमांसे हारा० । ४ गजपृष्ठस्थाने त्रिका० स्वार्थे प्राशस्त्येक । प्रवेष्टक दक्षिणबाहौ “प्रविश्य प्रवेष्टकेन निमित्तं सूचयित्वा” श० कु० “प्रवेष्टकेन दक्षिण- बाहुना तत्स्पन्देन निमित्तं स्त्रीलाभरूपशुभसूचकं शकुनं सूचयित्वा “वामेतरभुजस्पन्दोवरस्त्रीसूचकः” शाकुनोक्तेः तत्कम्पस्य स्त्रीलाभसूचकत्वम् ।
शब्दकल्पद्रुमः
प्रवेष्टः || पुं, (प्रवेष्टते इति । वेष्ट् वेष्टने + अच् ।)
बाहुः । इत्यमरः । २ । ६ । ८० ॥ बाहुनीच- भागः । इति शब्दचन्द्रिका ॥ हस्तिदन्तमांसम् । इति हारावली । ३० ॥ गजपृष्ठतल्पनम् । इति त्रिकाण्डशेषः ॥