वाचस्पत्यम्
प्रस्ताव || पु० प्र + स्त—“प्रे द्रुस्तुस्मुवः” पा० भावकरणादौ घञ् । १ प्रकरषेण स्तवे २ अवसरे अमरः । ३ प्रकरणे भानु- दीक्षित ४ प्रकरणे काव्यप्र० । ५ सामावयवभेदे स च पस्तोतृनामकेन ऋत्विजा गेयः साम्नः प्रथमो भागः । प्रस्तोतर्य्या देवता प्रस्तावमन्यायत्ता” छा० उ० । तस्य देवता च ब्रह्मरूपः प्राणस्तत्रैबोक्तः ।
शब्दकल्पद्रुमः
प्रस्तावः || पुं, (प्र + स्तु + “प्रे द्रुस्तुस्रुवः ।” ३ । ३ । २७ । इति घञ् ।)
अवसरः । इत्यमरः । ३ । २ । २४ ॥ प्रसङ्गस्तुतिः । इति भरतः ॥ प्रसङ्गः । इति भानुदीक्षितः ॥ (यथा, मृच्छकटिके । ९ अङ्के । “प्रस्तावेनाधिकरणिकस्त्वां द्रष्टुमिच्छ- तीति ॥”)
प्रकरणम् । यथा, —
“प्रस्तावदेशकालादेर्वैशिष्टात् प्रतिभाजुषाम् ॥” इत्यस्यार्थे काव्यप्रकाशः ॥