वाचस्पत्यम्
प्रस्थ || त्रि० प्र + स्था—क । १ प्रकर्षेण स्थितियुते २ गन्तरि च प्रपूर्व- कतिष्ठतेर्गत्यर्थत्वात् । ३ आढकचतुर्थांशरूपे परिमाणभेदे पु० आढकशब्दे ६५५ पृ० दृश्यम् । ४ द्विशरावपरिमाणे वैद्यकम् । आधारे धञर्थे क । ५ पर्वतसमभूभागे स्थितियोग्यस्थाने सानौ पु० न० । ६ उन्मितवस्तुनि मेदिनिः ७ विस्तारे च “दीर्घप्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः” ब्रह्मवै० पु० ज० ख० १०३ अ० । प्रस्थं पचति पच—ख सुम् । प्रस्थम्पच प्रस्थमितपाचके त्रि० ।
शब्दकल्पद्रुमः
प्रस्थः || पुं, (प्रकर्षेण तिष्ठतीति । प्र + स्था + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः । यद्बा, प्रतिष्ठतेऽस्मिन्ननेन वेति घञर्थे कः ।)
परिमाणविशेषः । स तु चतुःकुडवरूपः । इत्य- मरभरतौ ॥ आढकचतुर्थांशः । इति लीला- वती ॥ द्बिशरावपरिमाणम् । इति वैद्यक परिभाषा ॥ (यथा, सुश्रुते शारीरस्थाने । ८ । अध्याये । “बलिनो बहुदोषश्च वयःस्थस्य शरीरिणः । परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥”)
शब्दकल्पद्रुमः
प्रस्थः || पुं, क्ली, (प्र + स्था + कः ।)
अद्रेः सम- भूभागः । अद्रेरेकदेशः । इति भरतः ॥ तत्- पर्य्यायः । स्नुः २ सानुः ३ । इत्यमरः । २ । ३ । ५ ॥ (यथा, कुमारे । १ । ५४ । “प्रस्थं हिमाद्रेर्मृगणाभिगन्धि किञ्चित् क्वणत्किन्नरमध्युवास ॥”)
उन्मितवस्तु । इति मेदिनी ॥ विस्तारः । यथा, “दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डे १०३ अध्यायः ॥ प्रकृष्टस्थितिविशिष्टे, त्रि ॥