संस्कृत-शब्दकोशः

प्रस्यन्द प्रस्राव

प्रस्रवण

वाचस्पत्यम्

प्रस्रवण ||‍ न० प्र + स्रु—भावे ल्युट् । १ अविच्छेदेन जलादिस्रवणे २ स्वेदे च । आधारे ल्युट् । यत्र स्थाने स्रवज्जलं निपत्य बहुलीभवति तादृशे ३ स्थाने उत्से क्षीरस्वामी । अप् । प्रस्रव तत्रार्थे हेमच० । माल्यवति पर्वते पु० हेमच० ।


शब्दकल्पद्रुमः

प्रस्रवणं || क्ली (प्रस्रवति जलमस्मादस्मिन्नितिवा । प्र + स्रु + अपादाने अधिकरणे वा ल्युट् ।)
यत्र स्थाने स्रुत्वा जलं गलति तत् । इति भरतः ॥ अविच्छेदेन स्रवज्जलं यत्र स्थाने पतति यत्र निपत्य च बहुलीभवति तत् । इति स्वाम्या- दयः ॥ गिरेरुपरि निर्झरादिप्रभवजलसंघातः । इवि साञ्जः ॥ (यथा, हरिवंशे । ९ । ५४ । ११ । “पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः । प्रभावञ्च सरस्वत्याः प्लक्षप्रस्रवणं बलः ॥”)
अजस्रं मन्दवेगेन स्रवज्जलम् । इति कोक्कटः ॥ तत्पर्य्यायः । उत्सः २ । इत्यमरः । २ । ३ । ५ ॥ जलप्रस्रावः ३ । (यथा, मनुः । ४ । २०३ । “स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥”)
अस्य गुणाः । प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनञ्च दीपनकृत् ॥ इति राजनिर्घण्टः ॥ (प्र + स्रु + भावे ल्युट् ।)
प्रकर्षेण क्षरणम् ॥


शब्दकल्पद्रुमः

प्रस्रवणः || पुं, (प्रस्रवति जलमस्मादिति । प्र + स्रु + अपादाने ल्युट् ।)
माल्यवत्पर्व्वतः । इति हेम- चन्द्रः । ४ । ९५ ॥ स्वेदः । इति त्रिकाण्डशेषः ॥



Correction: