संस्कृत-शब्दकोशः

प्रहरिन् प्रहर्षणी

प्रहर्षण

वाचस्पत्यम्

प्रहर्षण ||‍ त्रि० प्रहर्षयति प्र + हृष—णिच्—ल्यु । १ प्रकर्षेण हर्षकारके २ बुधग्रहे पु० त्रिका० करणे ल्युट् । ३ प्रहर्षसाधने त्रि० । स्त्रियां ङीप् । सा च ४ हरिद्रायां हारा० “म्नौ ज्रौ गस्त्रिदश ३ । १० यतिः प्रहर्षणीयम्” वृ० र० उक्ते त्रयदशाक्षरपादके छन्दोभेदे च ।


शब्दकल्पद्रुमः

प्रहर्षणः || पुं, (प्रहर्षयतीति । प्र + हृष् + णिच् + ल्युः ।)
बुधग्रहः । इति त्रिकाण्डशेषः ॥ हर्ष- विशिष्टे, हर्षकारके च, त्रि ॥ (यथा, महा- भारते । १ । २७ । ९ । “नानापक्षिरुतं रम्यं कद्रुपुत्त्रप्रहर्षणम् ॥” प्र + हृष + भावे ल्युट् । आनन्दे, क्ली । यथा, महाभारते । १२ । ३३६ । २५ । “अथ व्रतस्यावभृते वागुवाचाशरीरिणी । स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ! ॥”)



Correction: