संस्कृत-शब्दकोशः

प्राप्तव्य प्राप्तिसम

प्राप्ति

वाचस्पत्यम्

प्राप्ति ||‍ स्त्री प्र + आप—भावे क्तिन् । १ उदये २ धनादिवृद्धौ ३ लाभे च अमरः । ४ प्रापणे ५ संहतौ शब्दरत्ना० अणि- माद्यष्टविधैश्वर्य्यमध्ये ६ ऐश्वर्य्यभेदे ऐश्वर्य्यशब्दे दृश्यम् । बार्हद्रथजरासन्ध्यनृपसुताभेदे ७ कंसकलत्रभेदे भा० स० १३ अ० । हरिवं० ९१ अ० “अप्राप्तस्यैव या प्राप्तिः सैव संयोग उच्यते” भामा० उक्ते ८ संयोगस्वरूपे द्रव्यगुणमेदे च । सा० द० उक्ते ९ मुखाङ्गभेदे “युक्तिः प्राप्तिः समाधान- मिति” मुखाङ्गान्युद्दिश्य “संप्रधारणा चार्थानां युक्तिः, प्राप्तिः सुखागमः” लक्षिता । कामस्य भार्य्याभेदे भा० आ० ३६ अ० । नील० ता० उक्ते ८ सहमभेदे ।


शब्दकल्पद्रुमः

प्राप्तिः || स्त्री (प्र + आप् + क्तिन् ।)
उदयः । (यथा, महाभारते । १४ । ४८ । ३ । “गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥”)
धनादिवृद्धिः । अधिगमः । लाभः । इत्यमर- भरतौ ॥ प्रापणम् । (यथा, मनुः । ९ । १०३ । “एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥”)
संहतिः । इति शब्दरत्नावली ॥ अणिमाद्यष्टैश्व- र्य्यान्तर्गतैश्वर्य्यविशेषः । स च अभीप्सितप्राप- णम् । इति हेमचन्द्रो भरतश्च ॥



Correction: