वाचस्पत्यम्
प्राय || पु० प्र + अय—इण्—वा घञ्—अच् वा । १ मृत्यौ २ अन- शनमृत्यौ ३ बाहुल्ये च मेदि० “प्रायेण सामग्र्यविधौ गुणानाम्” कुमारः । ततः प्रकृत्यादि० सर्वविभक्त्य- पवादस्तृतीया प्रायेण गार्ग्यः सि० कौ० ।
शब्दकल्पद्रुमः
प्रायः || पुं, (प्रकृष्टमयनमिति । प्र + अय + घञ् । यद्बा, प्र + इ + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।)
मरणम् । मरणार्थमनशनम् । (यथा, रामायणे । ४ । ५३ । १२ । “अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । इहैव प्रायमासिष्ये श्रेयो मरणमेव च ॥”)
तुल्यम् । बाहुल्यम् । इति मेदिनी । ये, ३६ ॥ (यथा, साहित्यदर्पणे । ३ । १११ । “तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा । लिङ्गिनश्छन्नकामाद्या आसां (वेश्यानाम्)
प्रायेण वल्लभाः ॥”)
वयः । इति हेमचन्द्रः ॥ (पापम् । तपः । इति स्मृतिः ॥ क्ली, प्रवेशः । युद्धम् । यथा, ऋग्वेदे । २ । १८ । ८ । “उप ज्येष्ठे वरूथे गभस्तौ प्राये प्राये जिगीवांसः स्याम ॥” “किञ्च प्राये प्राये सोमपानार्थमिन्द्रस्य यज्ञ- शालायां प्रवेशे प्रवेशे जिगीवांसः शत्रूणां जेतारो भवेम । यद्बा, प्राये प्राये प्रकर्षेण इयते गम्यते योद्धृभिरिति प्रायं युद्धम् । तस्मिन् युद्धे जिगीवांसः शत्रून् जितवन्तो भवेम ॥” इति तद्भाष्ये सायनः ॥ त्रि, गमकः । यथा, मनौ । ३ । २६४ । “प्रक्षाल्यहस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत् । ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥” “प्रक्षाल्येति । तदनुहस्तौ प्रक्षाल्याचम्य ज्ञाति- प्रायमन्नं कुर्य्यात् । ज्ञातीन् प्रैति गच्छतीति ज्ञातिप्रायं कर्म्मण्यण् । ज्ञातीन् भोजये- दित्यर्थः ॥” इति कुल्लूकभट्टः ॥)