वाचस्पत्यम्
प्रावृत || न० प्र + आ + वृ—कर्मणि क्त । १ प्रकर्षेण आवृते वस्त्रे प्रकर्षेण २ आवृतमात्रे त्रि० ।
शब्दकल्पद्रुमः
प्रावृतं || त्रि (प्राव्रियते स्मेति । प्र + आ + वृ + क्तः ।)
प्रकृष्टावरणम् । ओडितवस्त्रम् । इति भरतः ॥ तत्पर्य्यायः । निवीतम् २ । इत्यमरः ॥ निवृतम् ३ । इति तट्टीकायां स्वामी ॥