वाचस्पत्यम्
प्रेङ्खण || न० प्र + इखि—ल्युट् णत्वम् । १ प्रकर्षेण चलने अष्टा- दशरूपकान्तर्गते २ रूपकभेदे तल्लक्षणं सा० द० उक्तं यथा ||“गर्भावमर्षरहितं प्रेङ्क्षणं हीननायकम् । असूत्र- धारमेकाङ्कमविष्कम्भ प्रवेशकम् । नियुद्धसम्फोटयुतं सर्व- वृत्तिसमाश्रितम् । नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना” ।