संस्कृत-शब्दकोशः

बदरीशैल बद्धगुद

बद्ध

वाचस्पत्यम्

बद्ध ||‍ त्रि० बन्ध—कर्मणि क्त । बन्धनकर्मणि अमरः ।


शब्दकल्पद्रुमः

बद्धं || त्रि (बध्यते स्म इति । बन्ध + कर्म्मणि क्तः ।)
बन्धनयुक्तम् । बाँधा इति भाषा । तत्पर्य्यायः । सन्दानितम् २ मूर्णम् ३ उद्धितम् ४ सन्दितम् ५ सितम् ६ । इत्यमरः । ३ । १ । ९५ ॥ निग- डितम् ७ नद्धम् ८ कीलितम् ९ यन्त्रितम् १० संयतम् ११ । इति हेमचन्द्रः ॥ (यथा, मनुः । ९ । ३०८ । “वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयात् व्रतमेतद्धि वारुणम् ॥” तथा च मेघदूते । ७९ । “तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टि- र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ॥” तथा च शाकुन्तले २ अङ्के । “छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥”)



Correction: