संस्कृत-शब्दकोशः

बन्दीकार बन्धक

बन्ध

वाचस्पत्यम्

बन्ध ||‍ पु० बन्ध—घञ् । १ संयमने त्रिगडादिना गतिरोधने २ गृ- हादिवेष्टनसूत्रे च । गृहशब्दे २६३५ प्र्० दृश्यम् । करणे कर्मणि वा घञ् । ३ देहे ४ ऋणशोधनविश्वासाय स्थापिते द्रव्ये आधौ च । आधिशब्दे ७११ पृ० दृश्यम् । करणे घञ् । ५ ग- तिरोधसाधने शब्दर० । रतिबन्धभेदाश्च रतिमञ्जर्य्युक्ता यथा “पद्मासनो नागपदो लतावेष्टोऽर्द्धसंपृटः कुलिशं सुन्दरश्चैव तथा केसर एव च । हिल्लीलो नरसिंहोऽपि विपरीतस्तधाऽपरः । क्षुब्धो बै धेनुकश्चैव समुत्कण्ठ स्ततः परम् । सिंहासनो रतिनागो बिद्याधरस्तु षोडशः” तत्तच्छब्दे तेषां लक्षणानि दृश्यानि । स्मरदीपिकोक्ता अन्येऽपि बन्धाः सन्ति यथा “कामप्रदो विपरीतो नागरो रतिपाशकः । केयूरः प्रिय- तोषश्च ततः समपदस्तथा । ततश्चैकपदो ज्ञेयः सम्पुट- श्चार्द्धसम्पुटः । ततः स्तनहरश्चैव ततोऽनुरतिसुन्दरः । ऊरुपीडामरुचक्रौ ततश्चोरुक्रमः स्मृतः । वेष्टको हसकी- लस्तु ततो लीलासनस्तथा । अष्टादश क्रमाद्बन्धाः स्त्रीणां- बहूत्सवप्रदाः । पुंसां मुखकराश्चैव कथितास्तु क्रमा- त्ततः” । प्रवाहरूपेण सततं देहाद्देहान्तरगतिरूपे ६ ससारे च ।


वाचस्पत्यम्

बन्ध ||‍ बन्धने क्य्रा० पर० सक० अनिट् । बध्नाति अभान्त् सीत् बबन्ध बध्यते । उद् + उत्तोल्य बन्धने “उद्वन्धनभृता ये च” स्मृतिः । अनु + नियतपूर्ववर्त्तित्वे अनुगमने च । “तेषु किं भवतः स्नेहमनुबध्नाति मानसम्” देवीमा० । नि + नियमेन बन्धने निबन्धशब्दे दृश्यम् । निर् + आग्रहे निर्बन्धशब्दे दृश्यम् । प्र + ग्रन्यने काल्पनिककथने च प्रबन्धशब्दे दृश्यम् । प्रति + निरोधे “प्रतिबध्नाति हि श्रेयः” रघुः । व्याप्तौ च प्रति- बन्धशब्दे दृश्यम् । सम् + सम्यक्बन्धे संसर्गे च ।


वाचस्पत्यम्

बन्ध ||‍ संयमगे चुराः० उभ० सक० सेट् । बन्धयति ते अबबन्धत् त


शब्दकल्पद्रुमः

बन्ध || औ ग बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०- पर०-सक०-अनिट् ।)
औ, अबानत्सीत् । ग, बध्नाति । वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त्त निर्ब्बन्धसे । इत्यपपाठः । निर्व्वध्यते इति पाठ्यमिति रमानाथः । वस्तुतस्तु अस्य गण- कृतानित्यतया ञेरभावे आत्मनेपदे च सिद्धम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

बन्ध || क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०- सक०-सेट् ।)
क, बन्धयति । इति दुर्गादासः ॥ (यथा, रामायणे । २ । ८४ । ४ । “बन्धयिष्यति वा पाशैरथवास्मान् वधिष्यति ॥”


शब्दकल्पद्रुमः

बन्धः || पुं, (बन्ध + हलश्चेति घञ् ।)
आधिः । बन्धनम् । इति मेदिनी । धे, ९ ॥ शरीरम् । इति हेमचन्द्रः ॥ (कर्म्मजनितादृष्टवशात् देहा द्देहान्तरोत्पत्तेः शरीरस्य तथात्वम् ।)
गृहादि वेष्टनम् । इति शब्दरत्नावली ॥ तद्विवरणं यथा “रूपाष्टकैर्विनिहतो भवनस्य बन्धः कर्त्तुः स्वमृक्षमिह युग्मशरैकनिघ्नम् । एकीकृतं रसनिशाकरयुग्मभुक्त- शेषं ततो भवति पिण्डपदं गृहस्य ॥ गृहभूमिसमाहृतपिण्डपदं वसुलोचनरन्ध्रगजैर्गुणितम् । रविभूधरत्रिंशद्योगहृत- मायव्ययस्थितिऋक्षपदम् ॥” रूपाष्टकैरेकाशीत्या विनिहतः पूरितो भव- नस्य बन्धः दीर्घप्रस्तारमिलितहस्ताः स्वमृक्षं तत्संख्यानं युग्मशरैकनिघ्नं द्बिपञ्चाशदुत्तर- शतपूरितम् एकीकृतं पूर्ब्बाङ्केन मिलितं रस- निशाकरयुग्मभुक्तशेषं षोडशाधिकद्विशतहृता- षशिष्टं तत्संख्यानं पिण्डपदसंज्ञं गृहस्य भवति तद्गृहभूमिसमाहृतपिण्डपदं वसुलोचनरन्ध्र- गजैः । अष्टद्विनवाष्टभिर्यथाक्रमं गुणितं पूरितं यथाक्रमं रविभूधरत्रिंशद्योगहृतं द्वादशसप्त- त्रिंशत्सप्तविंशतिभिर्हृतं गृहस्य यथाक्रममाय- व्ययस्थितिऋक्षपदं भवतीत्यर्थः । “रुद्रहस्तमिते बन्धे भरण्या योगतो यथा । आयादयो भवन्त्यत्र वसुषट्तिथियुङ्मिताः ॥ अत्र नक्षत्रं दीयते पश्चात्तदेवायाति । प्रत्यक्दक्षिणयोर्भं द्रविणाद्यं विदिक्षु दहनादि । पूर्ब्बोत्तरयोर्गृहयोरश्विन्यादिभानि स्युः । यत्र तु शेषो नास्ति तत्र हारकाङ्कः शेषः ॥ शेषाङ्केन फले बोध्ये शेषाभावे तु हारकात् । अङ्कादेव फलं बोध्यमिति तन्त्रविदाम्मतम् ॥ इत्युक्तत्वात् ॥ व्ययाधिकं न कर्त्तव्यं गृहमायाधिकं शुभम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
षोडशप्रकारा रतिबन्धा यथा, रतिमञ्जर्य्याम् । ४० — ४१ । “पद्मासनो नागपदो लतावेष्टोऽर्द्धसम्पुटः । कुलिशं सुन्दरश्चैव तथा केशर एव च ॥ हिल्लोलो नरसिंहोऽपि विपरीतस्तथापरः । क्षुब्धो वै धेनुकश्चैव समुत्कण्ठस्ततः परः । सिंहासनो रतिनागो विद्याधरस्तु षोडश ॥” (एतेषां लक्षणानि तत्रैव । ४२-५७ । उक्तानि । यथा, —
“हस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि । रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः ॥ पादौ स्कन्धयुगे हस्तौ क्षिपेल्लिङ्गं भगे लघु । प्ररमेत् कामुको नारीं बन्धो नागपदो मतः ॥ बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा रमेत् स्त्रियम् । लघु लिङ्गं ताडयेद् योनौ लतावेष्टोऽयमुच्यते ॥ स्त्रीपादावन्तरीक्षे तु किञ्चिद्भूमौ च जानुनि । स्तनयोर्मर्द्दनं पीडा बन्धोऽयं मर्द्दसंपुटः ॥ स्त्रीपादद्बयमास्फाल्य हठाल्लिङ्गस्य ताडनम् । योनिमापीडयेत् कामी बन्धः कुलिशसंज्ञकः ॥ नारीपादद्वयं कामी धारयेदूर्द्ध्वदेशतः । कुचौ धृत्वा पीबेद्बक्त्रं बन्धोऽयं रतिसुन्दरः ॥ स्त्रियो जङ्घे समापीड्य दोर्भ्यां गात्रस्य मर्द्दनम् । पुनः प्रपीडयेद् योनिं बन्धः केशरसंज्ञकः ॥ हृदि कृत्वा स्त्रियः पादौ कराभ्यां धारयेत् करौ । यथेष्टं ताडयेत् योनिं बन्धो हिल्लोलसंज्ञकः ॥ पादौ संपीड्य योनौ च हठाल्लिङ्गप्रवेशनम् । हस्तयोर्वेष्टनं गाढं बन्धो नृसिंहसंज्ञकः ॥ पादमेकमुरौ कृत्वा द्बितीयं कटिसंस्थितम् । नारीञ्च सुरमेत् कामी विपरीतस्तु बन्धकः ॥ पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताडयेत् । बाहुभ्यां ताडयेद्गाढं क्षुब्धको बन्ध एव सः ॥ सुप्तां स्त्रियं समालिङ्ग्य स्वयं सुप्तो रमेत् पुनः । यल्लिङ्गं चालयेत् योनौ बन्धोऽयं धेनुकः स्मृतः ॥ नारीपादौ च हस्तेन धारयेत् गलके पुनः । स्तनार्पितकरो कामी बन्धश्चोत्कण्ठसंज्ञकः ॥ स्वयं जङ्घाद्वयं बाहौ कृत्वा योषित्पदद्बयम् ॥ स्तनौ धृत्वा रमेत् कामी बन्धः सिंहासनो मतः ॥ पीडयेदुरुयुग्मेन कामुकः कामिनीं यदि । रतिर्नागः समाख्यातः कामिनीनां मनोहरः ॥ नार्य्याश्चोरुयुगं धृत्वा कराभ्यां ताडयेत् पुनः । रमयेन्निर्भरं कामी बन्धो विद्याधरो मतः ॥” इति ॥)
संज्ञाप्रभेदेन अन्योऽपि बन्धोऽस्ति । यथा, —
“कामप्रदी विपरीतो नागरो रतिपाशकः । केयूरः प्रियतोषश्च ततः समपदस्तथा ॥ ततश्चैकपदो ज्ञेयः सम्पुटश्चोर्द्ध्वसम्पुटः । ततः स्तनभवश्चैव ततो नु रतिसुन्दरः ॥ ऊरुपीडस्मरचक्रौ ततश्चोरुक्रमः स्मृतः । वेष्टको हंसकीलस्तु ततो लीलासनस्तथा ॥ अष्टादशक्रमाद्बन्धाः स्त्रीणां बहुसुखप्रदाः । पुंसां सुखकराश्चैव कथितास्तु क्रमात्ततः ॥” इति स्मरदीपिका ॥ * ॥
अनभिसन्धितकर्म्मकर्त्तुर्बन्धाभावो यथा, —
“पञ्चर्णदानैरशुभं नुद्यतेऽनभिसन्धितैः । फलैस्तथोपभोगैश्च पूर्ब्बकर्म्मशुभाशुभैः ॥ एवं न बन्धो भवति कुर्व्वतः कारणं विना । न च बन्धाय तत् कर्म्म भवत्यनभिसन्धितम् ॥” इति मार्कण्डेयपुराणम् ॥ (हठयोगप्रदीपोक्ता योगसाधकबन्धा यथा, तत्रैव । ३ । ५५ — ५७ । अथोड्डीयानबन्धः । “बद्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः । तस्मादुड्डीयनाख्योऽपं योगिभिः समुदाहृतः ॥ उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात् तत्र बन्धोऽभिधीयते ॥ उदरे पश्चिमं तानं नाभेरूर्द्ध्वञ्च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेशरी ॥” अथ मूलबन्धः । तल्लक्षणादिकमुक्तं तत्रैव ३ । ६१ — ६२ । “पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्द्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ अधोगतिमपानं वा ऊर्द्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः ॥” अथ जालन्धरबन्धः । अस्य लक्षणादिकमुक्तं तत्रैव । ३ । ७० — ७१ । “कण्ठमाकुञ्च्य हृदये स्थापयेच्चियुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥ बध्नाति हि शिराजालमधोगामि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥”)



Correction: