वाचस्पत्यम्
बन्धु || पु० बन्धाति मनः स्नेहादिना बन्ध—उ । १ ज्ञातौ मातुल- पुत्रादौ अमरः । “२ बन्धुभ्यः पितृमातृतः” इति स्मृतिः बान्धवे ३ मित्रे ४ पितरि ५ नातरि ६ भ्रातरि ७ बन्धुजीववृक्षे च स्वार्थे अण् । बान्धव तत्रार्थे बन्धवश्च त्रिविधाः पारिभाषिका आत्मबन्धुशथ्दे षितृ- बन्धुशब्दे उक्ता मातृबन्धुशब्दे वक्ष्ममाणाश्च दृश्याः । अतएव “तत्सुतो गोत्रजो बन्धुरिति” बाज्ञ० तएव ग्राह्या इति मिता० । दायभागमते तु मातामहादयोऽपि बन्धवः अतएव “तत्सुतो गोत्रजो बन्धुरिति” याज्ञ० व्या० तेन बन्धुपदेन असगोत्राणां मातामहादीनां ग्रहण- मित्युक्तम् । अतो मतभेदेन धनग्रहणे व्यषस्थाभेदः ।
शब्दकल्पद्रुमः
बन्धुः || पुं, (बन्ध बन्धने + “शॄस्वृस्निहित्रपीति ।” उणा० १ । ११ । इति उः ।)
स्नेहेन मनो बध्नाति यः । तत्पर्य्यायः । सगोत्रः २ बान्धवः ३ ज्ञातिः ४ स्वः ५ स्वजनः ६ । इत्यमरः । २ । ६ । ३४ ॥ दायादः ७ गोत्रः ८ । इति शब्दरत्नावली ॥ बन्धवश्च त्रिविधा । आत्मबन्धवः पितृबन्धवो मातृबन्धवश्चति । यथोक्तम् । “आत्मपितृष्वसुः पुत्त्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्त्राश्च विज्ञेया ह्यात्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्त्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्त्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुःपितृष्वसुः पुत्त्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्त्राश्च विज्ञेया मातृबान्धवाः ॥” तत्रचान्तरङ्गत्वात् प्रथममात्मबन्धवो धनभाज- स्तदभावे पितृबन्धवस्तदभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्य्यः । इति मिताक्षरा ॥ * ॥
(यथा, मनुः । २ । १३६ । “वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥” “बन्धुः पितृव्यादिः ।” इति तट्टीकायां कुल्लूक- भट्टः ॥)
बन्धूकः । (यथा, अशोकवधे । २९ । “अभ्यर्च्य बन्धुपुष्पमालयेति ॥”)
मित्रम् । (यथा, मेघदूते । ३४ । “बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ॥”)
भ्राता । इति मेदिनी ॥ (यथा, रघुः । १२ । १२ । “अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥”)