वाचस्पत्यम्
बोधन || ब० बुध—णिच्—ल्युट् । १ विज्ञापने कालवशात् गन्धा- देर्न्यूनतायां २ तद्गद्दीपने ३ जागरणे च । “शयनं बोधनं हरेः” इति पुराणम् । “सावाह्ने बोधनं कुर्य्यात्” इति स्मृतिः । देवीबोधनकालादिः ति० त० प्रदर्शितो यथा लिङ्गपुराणम् “कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा । भवम्यां बोधयेद्देवीं महाविभवविस्तरैः” “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः । श्रीवृक्षे दोषयामि त्वां यातव पूजां करोत्यहम् । ऐं राबणस्य बधार्थाय रामस्यानुग्रहाय च । अकाले ब्रह्मणा बोधौ देव्यास्त्वयि कृतः पुरा” इति मन्त्रलिङ्गञ्च । अकाल इति तु रात्रित्वेन दक्षिणायनस्य तथा च श्रुतिः “तपस्तपस्यौ शिशिरावृतुः । मधुश्च माघवश्च वास- न्तिकावृतुः । शुक्रश्च शुचिश्च ग्रैष्मावृतुः । अथैतदुत्त- रायणं देवानां दिनं, नमाश्च नमस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्च शारदावृतुः । सहाश्च सहस्यश्च हैमन्तिका- वृतुः । अथैतद्दक्षिणायनं दैवानां रात्रिः” इति एवञ्च “रात्रावेव महामाया ब्रह्मणा बोधिता पुरा । तथैव च नराः कुर्य्युः प्रतिसंवत्सरं नृप!” इति अस्याप्येतद्वि- षयत्वम् । अतएव लिङ्गपुराणे दिवेत्युक्तम् । एवञ्च कालि- कापुराणेऽपि बोधने रात्राविति पदं देवतारात्रिपरम् । ततश्च पूर्वाह्णे नवम्यामार्द्रानक्षत्रयुक्तायां बोधनं पूर्वा- ह्णेतरकाले आर्द्रालाभे नवम्यामार्द्रभे दिवेत्यत्र दिवा- पदात् तत्रापि बोधनम्, अन्यया दिवापदं व्यर्थं स्यादिति । ज्योतिपार्णये व्यक्तमुक्तं वराहेण “कन्या- दिमीनपर्थ्यन्तं यत्र संप्राप्यते शिवः । तत्र बोधः प्रक- र्त्तिव्यो देव्या राज्ञा शुभप्रदः” । शिव आर्द्रा । एवच्चोम्भ्य दिने पूर्वाह्णे नवमिलामे परत्रार्द्रालाभे परत्र बोधनं न युग्मात् पूर्वत्र, युम्मबाधकपूर्वाह्णस्य बाधकबशत्रा- नुरोधात् दिवानक्षत्रालाभे तु पूर्वाहु एव नवम्याम् उभयत्र पूर्वाह्णलाभे तु पूर्वदिन एव युस्मात् । अत्र केवलनवम्यां बोधनविधेर्नक्षत्रस्यापि गुणफलत्वाच्च । “माघे वा फाल्गुने वापि भवेद् वै माथसप्तमी । माक- रीति च यत् प्रोक्तं तत् प्रायो वृत्तिदर्शनात्” इति सौ- रागमान्माकरीतिवत् आर्द्रायोगतः इत्यस्य प्रायिक- त्वेनाभिधानं प्रतीयते । ततश्चार्द्रारहितबोधने मन्त्रा- न्तरानुपदेशात् तद्युक्तमन्त्रः प्रणवयुक्तत्वेन प्रयुज्यते । “यन्न्यूनञ्चातिरिक्तञ्च यच्छ्रिद्रं यदयज्ञियम् । यद- मेध्यमशुद्धञ्च यातयामञ्च यद् भवेत् । तदोङ्कारप्रयुक्तेन सर्वञ्चाविकलं भवेत्” इति योगियाश्यवचनात् । षर्ष्ठ कोधनेऽप्येवं नवभ्यां बोधनासामर्थ्ये तु षष्ठ्यां साय बोधनं यथाह भविष्ये “षष्ठ्यां बिल्वतरौ बोधं सायं सन्ध्यासु कारयेत्” । सन्ध्योक्ता वराहमिहिरेण “अ- र्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत्” । षष्ठ्यां बोधने तु प्रागुक्तः “ओं रावणस्य बवार्थाय” इति “अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयाम्यतः” इति च पठेत् । अव बोधनामन्त्रणयोः पृथक्म्बं तत्- प्रकाशकमन्त्रभेदात् अत्र बोघनमन्त्राबुक्तावेव आम- न्त्रणमन्त्रौ तु “मेरुमन्दरकैलासहिमवच्छिखरे गिरौ” । इत्यादी प्रागुक्तदेवीपुराणे नवमीषष्ठ्योर्बोधनामन्त्रणयोः पृथक्त्वाभिधानाच्च । ततश्च षष्ठ्यामुभयकरणेऽपि पत्री- प्रवेशपूर्वदिने सायंषष्ठीलाभे एकदैवोभयकरणम् । यदा तु पूर्वदिने सायंषष्ठीलाभः न परदिने सायंषष्ठी- लाभः तदा पूर्वेद्युर्बोधनं परदिने सायमामन्त्रणम् । यदा तूभयदिने सायंषष्ठ्यलाभस्तदा परदिने पूर्वाह्णे षष्ठ्यां बोधनं “बोधयेद् बिल्वशाखायां षष्ठ्यां देवीं फ- लेषु च । सप्तम्यां बिल्वशास्वां तामाहृत्य प्रतिपूज्ययेत्” ।
शब्दकल्पद्रुमः
बोधनं || क्ली (बुध् + णिच् + ल्युट् ।)
गन्धदी- पनम् । इति मेदिनी । ने, ९९ ॥ वेदनम् । विज्ञापनम् । इति बुधधात्वर्थदर्शनात् ॥ (उद्दी- पनम् । यथा माघे । ९ । ३४ । “समयेन तेन चिरसुप्तमनो- भवबोधनं समबोधिषत ॥” “मनोभवस्य कामस्य बोधनं उद्दीपनं यस्मिन् ।” इति तट्टिकायां मल्लिनाथः । ज्ञानम् । यथा, रघौ । ९ । ४९ । “परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितवोधनम् ॥” “तेषां चललक्ष्याणां इङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति ।” इति तट्टीकायां मल्लिनाथः ॥)
दुर्गाया बोधनं यथा । देवीपुराणे । “इषे मास्यसिते पक्षे कन्याराशिगते रवौ । नवम्यां बोधयेद्देवीं क्रीडाकौतुकमङ्गलैः ॥” अत्र कृष्णादित्वादिषे इत्यपि गौणाश्विनपरम् । अतएव कालकौमुद्यादिधृतम् । यथा, —
“कर्किण्यर्के हरौ सुप्ते शक्रध्वजक्रियाश्विने । तुलायां बोधयेद्देवीं वृश्चिके तु जनार्द्दनम् ॥” इति ॥ बोधयेदिति शेषः । तत्रापि नवमीबोधनं कन्यायामेव तथैव सम्भवात् तेन सिंहार्के तुलार्केऽप्याश्विनत्वेन वाक्यरचनां । एवं प्रति- वर्षं कर्त्तव्यत्वादार्द्रादिनक्षत्रालाभेऽपि बोध- नादिकार्य्यम् । नक्षत्रयोगस्तु फलातिशयाय । तथा च लिङ्गपुराणम् । “मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत् । तथा तिथ्यन्तरेष्वेवमृक्षेषु च फलोच्चयः ॥” यथाह देवलः । “तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् । योगाभावे तिथिर्ग्राह्या देव्याः पूजनकर्म्मणि ॥” कृष्णनवम्यामार्द्रायोगो विधौ मन्त्रे च श्रूयते । तथा च लिङ्गपुराणम् । “कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा । नवम्यां बोधयेद्देवीं महाविभवविस्तरैः ॥” चतुर्थपादे गीतवादित्रनिः स्वनैरिति कालिका- पुराणे पाठः । “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः । श्रीवृक्षे बोधयामि त्वां यावत् पूजां करोम्यहम् ॥ ऐं रावणस्य वधार्थाय रामस्यानुग्रहाय च । अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा ॥” इति मन्त्रलिङ्गम् ॥ अकाल इति तु रात्रित्वेन दक्षिणायनस्य । तथाच श्रुतिः । तपस्तपस्यौ शैशिरावृतुः मधुश्च माधवश्च वासन्तिकावृतुः शुक्रश्च शुचिश्च ग्रैप्मावृतुः । अथैतदुत्तरायणं देवानां दिनं नभाश्च नभस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्च शारदावृतुः सहाश्च सहस्यश्च हैमन्तिकावृतुः । अथैतद्दक्षिणायनं देवानां रात्रिरिति । एवञ्च । रात्रावेव महामाया ब्रह्मणा बोधिता पुरा । तथैव च नराः कुर्य्युः प्रतिसम्बत्सरं नृपेत्येत- द्बिषयम् ॥ अतएव लिङ्गपुराणकालिकापुरा- णयोर्द्दिवेत्युक्तम् । एवञ्च कालिकापुराणे बोधने रात्रावितिपदं देवतारात्रिपरम् । ततश्च पूर्ब्बाह्णे नवम्यामार्द्रायुक्तायां बोधनं पूर्ब्बाह्णेतरकाल एव आर्द्रालाभे दिवेत्यत्र दिवापदात्तत्रापि बोधनं अन्यथा दिवापदं व्यर्थं स्यात् । ज्योतिषा- र्णवे व्यक्तमुक्तं वराहेण । “कन्यादिमीनपर्य्यन्तं यत्र संप्राप्यते शिवः । तत्र बोधः प्रकर्त्तव्यो देव्या राज्ञां शुभप्रदः ॥” शिव आर्द्रा । एवञ्चोभयदिने पूर्ब्बाह्णे नवमी- लाभे परत्रार्द्रालाभे परत्र बोधनं न तु युग्मात् पूर्ब्बत्र । युग्मबाधकपूर्ब्बाह्णस्य बाधकनक्षत्रानु- रोधात् दिवा नक्षत्रालाभे तु पूर्ब्बाह्ण एव नवम्यां उभयत्र पूर्ब्बाह्णलाभे पूर्ब्बदिन एव युग्मात् । अत्र केवलनवम्यां बोधनविधेर्नक्षत्र- स्यापि गुणफलत्वाच्च । “माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी । माकरीति च यत्प्रोक्तं तत्प्रायोवृत्तिदर्शनात् ॥” इति ॥ सौरागमात् माकर्य्यादिवत् आर्द्रायोग इत्यस्य प्रायिकत्वेनाभिधानं प्रतीयते । ततश्चार्द्रारहित- बोधने मन्त्रान्तरानुपदेशात् तन्मन्त्रः प्रणव- युक्तत्वेन प्रयुज्यते । “यन्नयूनञ्चातिरिक्तञ्च यच्छिद्रं यदयज्ञियम् । यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् । तदोङ्कारप्रयुक्तेन सर्व्वञ्चाविफलं भवेत् ॥” इति योगियाज्ञवल्क्यात् षष्ठ्यां बोधनेऽप्येवम् ॥ नवमीबोधनासामर्थ्ये तु षष्ठ्यां सायं बोधनम् । तथा भविष्ये । “षष्ठ्यां विल्वतरौ बाधं सायंसन्ध्यासु कारयेत् ॥” सन्ध्योक्ता वराहेण । “अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् ॥” षष्ठ्यां बोधने तु प्रागुक्त ऐं रावणस्य वधार्था- येति अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयाम्यत इति पठेत् । यदा तु पूर्ब्बदिने सायं षष्ठीलाभः परदिने सायं विना षष्ठीलाभः तदा पूर्ब्बेद्यु- र्बोधनं परदिने सायमामन्त्रणम् । यदा तूभय- दिने सायं षष्ठ्यलाभस्तदा परेऽहनि पूर्ब्बाह्णे षष्ठ्यां बोधनम् । “बोधयेद्विल्वशाखायां षष्ठ्यां देवीं फलेषु च । षष्ठ्यां बोधने तु न क्षत्रानुपदेशान्न तदादरः ॥” इति तिथ्यादितत्त्वम् ॥