वाचस्पत्यम्
ब्र(व्र)ह्मजीविन् || पु० ब्रह्म वेदस्तद्विहितेन श्रौतकर्मणां जी- वति जीव—णिनि । वृत्त्यर्थं परकीतश्रौतादिकर्मकारके
शब्दकल्पद्रुमः
ब्रह्मजीवी || [न्] पुं, (ब्रह्मणा वेदेन वेदोक्त- श्रौतादिकर्म्मणा इत्यर्थः जीवतीति । ब्रह्म + जीव् + णिनिः ।)
द्बिजकार्य्येषु मूल्येन परि- चारकः । यथा । अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोह- णवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्ति- र्ब्रह्मजीवी त्तिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्य- पशुविक्रेता चेति तानुद्धरेत् समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्व्वद्रव्यत्यागेन चतुर्थकाला- हाराः सम्बत्सरं त्रिसवनमुपस्पृशेयुस्तस्यान्ते देबपितृतर्पणं गवाह्निकञ्चेत्येवं व्यवहार्य्याः । इति मिताक्षरायां प्रायश्चित्ताध्याये प्रचेतसो वचनम् ॥