संस्कृत-शब्दकोशः

भक्तसिक्थ भक्तिमत्

भक्ति

वाचस्पत्यम्

भक्ति ||‍ स्त्री भज—क्तिन् । १ सेवायाम् आराधनायां, २ तदेकताने चित्तवृत्तिभेदे ३ विभागे ४ गौण्यां वृत्तौ ५ उपचारे ६ अव- यवे ७ भङ्ग्याम् ८ श्रद्धायाम् ९ रचनायाञ्च “भवति विरन्त- भक्तिः” रघुः । भक्तिलक्षणमुक्तं शाण्डित्यसूत्रटीकयो यथा “सा परानुरक्तिरीश्वरे” सू० “अत्र सा परेति लक्ष्यनि- र्देशः । शेषं लक्षणम् । परेति गौणीं व्यावर्त्तयति । ईथर इति प्रकृताभिप्रायम् । आराध्यविषयकरागत्यमेव भक्ति- त्वम् । इह तु परमेश्वरविषयकान्तःकरणवृत्तिविशेष एव भक्तिस्तद्वैशेष्यं च लौकिकानुरागादौ सुग्रहम् । यथोक्तं परभक्तिमता प्रह्लादेन । (विष्णापु० । अंशे १ । अ० २० । श्लो० १७) । “या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु” । अत्र प्रीति- पदेन सुखनियती राग एव लक्षितः । अन्यथा प्रीतेः सुखरूपाया निर्विषयत्वेन विषयसप्तमा न स्यात् तस्याः सुखज्ञानरूपत्वेऽपि तज्ज्ञानस्य सुखविषयत्वाद्विषयविषय- त्वासम्भवात् । तस्मादनुरक्तिरेव सविषयिणी लक्षिता । न च विषयजन्यप्रीतिरर्थः जनकसप्तम्या अननुशासनात् । किञ्च “अच्युतास्तु सदा त्वयि” इत्यत्र भक्तेरीश्वरविषय- तासिद्धौ प्रीतिपदेनापि तदेकवाक्यतया सैवोच्यते । पूर्वं प्रतिजन्म भक्तिप्रार्थनमिह तु विषयरागदृष्टान्तेन तस्या एव सर्वथान्यपरिहार्यत्वप्रार्थनमिति विशेषः । विषयजन्यप्रीतिरपि रागं विना न सम्भवतीति रागा- वश्यकत्वम् । तथा च पातञ्जलसूत्रम् । (पा० २ । सू० ७ पृ० ७९) “सुखानुशयी रागः” इति । तस्यैव वक्ष्यमाण- लिङ्गषु व्यापनाल्लाघवाच्च भक्तित्वम् । न तु क्वचित् स्वरणस्य, क्वचिच्च कीर्तनादेः अननुगमात् । न च तज्- ज्ञानस्य तत्त्वं द्वेषादिमत्स्वपि तत्प्रसङ्गात् । नाप्या- राध्यत्वेन ज्ञानं स पूजानमस्काराद्याराधनास्वननु- गमात् । अपि च बलाद्भयाद् वा नमस्कार्यत्वादिज्ञान- वत्यपि भक्तोऽयमनुरक्तोऽयमिति व्यवहारापत्तेः । अनु- रागादिसहिताराध्यत्वज्ञानमिति चेत् अनुराग एवास्तु अतएव गी० । अ० १० । श्लो० ९) । “मच्चित्तामद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च । तेषां सततयुक्तानां भजतां प्रीतिपूर्व- कम् । ददामि बुद्धियोगं तं येन मासुपयान्ति ते” इत्यादौ तद्गतचित्तप्राणादीनां भजनमुक्तं नाराध्य- त्व न ज्ञानवताम् । अतएव च कृष्णस्य कमनीयाकृति- दर्शनेनानुरक्तानां गोपतरुणीनामपि भक्तिफलं मुक्तिः स्मर्य्यते । अनुस्तु न लक्षणान्तर्गतः किन्तु भगवन्महि- मादिज्ञानादनुपश्चाज्जायमानत्वादनुरक्तिरित्युक्तम् । ननु पित्रादिगोचरानुरागस्यापि प्रकृतभक्तित्वं प्रसज्येत जगत एव परमेश्वरात्मकत्वात् । अथ विकारावि- शिष्ट एव तथात्वं वाच्यं तथापि गोपीप्रभृतीनां प्रादुर्भा- वावच्छिन्नेश्वरभक्तावव्यापकम् । उच्यते जीवीपाध्यनव- च्छिन्नचेतनविषयिणी अनुरक्तिरेव सेति । एवञ्च प्रादुर्भा- वावच्छिन्ने परिपूर्णे च भक्तिः संगृहीता भवति” टीका । “तत्संस्थस्यामृतत्वोपदेशात्” ३ सू० “तस्मिन्नीश्वरे संस्था भ- क्तिर्यस्य स तथोक्तः । तस्यामृतत्वं फलमुपदिश्यते (छा० । पृ० १३७) “ब्रह्मसंस्थोऽमृतत्वमेतीति” । तस्मान्निष्फलत्वगौण- फलत्वनिवन्धना तदजिज्ञासा परिहृता भवतीति” टी० । “ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः” ४ सू० “ननुब्रह्मसस्थाशब्देन ब्रह्मज्ञानमेवोच्यते न तु तद्भक्तिः । तथाचामृतत्वफलं तस्यैवेति चेद्ब्रूषे । नैष दोषः । संस्था भक्तिरेव न ज्ञानं द्विषतस्तज्ज्ञानवतोऽपि तत्- संस्थत्वव्यवहाराभावात् । राजाद्यनुरक्ताः खल्वमात्य- मित्रादयस्तत्संस्था इति व्यपदिश्यन्ते न पुनः प्रतिपक्ष- भपालाः । शब्दार्थनिर्णयो हि लोकवदेव वेदेऽपीति । अतएव चिरकालिकोपाख्याने “बिमृश्यते न कालेन पत्नीसंस्था व्यतीक्रमः । सोऽब्रवीच्च भृशं तप्तो दुःखे- नाश्रूणि वर्त्तयन्” । (महाभा० शा० अ० २६७ श्ला० ९५२६) इत्यनेन पतिभक्त्यतिक्रम उक्तः । तस्मात् संस्था भक्तिरिति एवञ्च (ब्रह्मसू० । अ० १ । पृ० ७) “तन्निष्ठस्य मोक्षो पदेशादिति” वादरायणीयसूत्रस्याप्ययमेवार्थोऽध्यवसेयः” टी० “तयोपक्षयाच्च” ५ सू० । “तया भक्त्या मुक्तिं प्रति ज्ञानसुप- क्षीणं यस्माच्चकार उक्तयुक्तिसमुच्चयार्थः (गी० । अ० ७ । श्लो० १३) । “यदा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तदा त्वं मत्प्रसादेन निर्वाणमपि यास्यसि” इति स्थि- तम् । ननु (श्वे० । पृ० । ७३) “तमेव विदित्वातिमृत्युमेति नाव्यः पन्था विद्यतेऽयनाय” इत्यत्र वेदनफलं मुक्तिः श्रुता तद्विरोधेन स्मृतीनामन्यार्थत्वं स्यादिति चेन्न अत्रापि तयैवीषक्षयात् । तथा हि अतिमृत्युपदं न मुक्तौ रूपं किन्तु यस्यां सत्यां मृत्योरतिक्रम इति व्युत्पत्त्या तद- पेक्षया यतो भक्तेर्मृत्य्वतिक्रम इति व्युत्पाद्य भक्ति- मेवातिमृत्युपदेनाभिधत्ताम् उपपदविभक्त्यर्थापेक्षया का- रकविभक्त्यर्थस्य बलवत्त्वात् । (गी० । अ० १२ पृ० ७) । “तेषामहं समुद्धता मृत्युसंसारसागरात् । भवामि न चिरात् पार्थ! मय्यावेशितचेतसाम्” । इत्यादिना भक्तितो मृत्योरतिक्रमोक्तेः । मन्त्रश्च भवति (तैत्तिरीय- मन्त्रभागे) “त्र्यग्वकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव वन्धनान्मृत्योर्मुक्षीय मामृतादिति” । अत्र यजनं भक्तिः तथैव तत्कल्पव्याख्यानात् नचास्यां श्रुतौ भक्तेरसन्निधानं मुक्तावपि तुल्यत्वात् । तस्मादनयापि श्रुत्या ज्ञानस्योपक्षय एव प्रतीयत इति । नन् तथापि भक्तेरागरूपत्वे किं कारणमित्यपेक्षायामाह” टी० । “द्वेष- प्रतिपक्षभावाद्रसशब्दाच्च रागः” सू० । “भक्तिः खलु राग एव भवितुमर्हति कुतः द्वेषविंरोधित्वात् । लोके हि द्वेष्टायं भक्तोऽयमिति मिथोविरुद्धधर्मवति व्यव- ह्रियते तत्र द्वेषविरोधी च राग एव प्रसिद्धो न ज्ञा- नादिः । एवञ्च भगवति शिशुपालस्य द्वेषानु- बन्धमभिधाय विष्णुपु० अ० ४ १५ गद्येन १० अयं हि भगवान् कीर्त्तितः संस्मृतश्च द्वेषानुबन्धेनापि अखि- लसुरासुरदुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमताम्” इत्युक्तम् । तथा चात्रिस्मृतौ “विद्वेषादपि गोपिन्दं दमघीषात्मजः स्मरन् । शिशुपालो गतः स्वर्गं किं पुनस्तत्परायणः” इति अत्रापि द्वेषविरोधित्वेन भक्ते- रभिधानात् । तथा च गीतासु (गी० अ०१६ । श्लो० १८) । “ममात्मपरदेहेषु प्रद्विपन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रम- शुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूद्वा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय! ततो यान्त्व- धमां गतिम् । इति । तद्विरोधिनी च भक्तिरीश्वर- विषयैवानुरक्तिरिति युज्यते । किञ्च (तैत्ति० । पृ० १००) “रसं ह्येवायं लब्ध्वानन्दीभवतीतिशब्दाद् ब्रह्मानन्दा- विर्भावमुक्तेर्ब्रह्मगोचरस्य रसस्य हेतुतावगम्यते । रसश्च रागः (गी० । अ० २ । श्लो० ५९) । “रसवर्जं रसो- ऽप्यस्य परं दृष्ट्वा निवर्त्तते” इत्यादौ प्रसिद्धः । अत्र रसो विषयरागः । अत एव च (विष्णपु० अ० ४ । अ० ४ गद्यम्) रामलक्ष्मणादीनां स्वर्लोकारोहण- मुक्त्वा “येऽपि तेषु भगवदंशेष्वनुरागिणः कोशलनगर- जानपदास्तेऽपि तन्मनसस्तत्सलोकतामापुरिति” साक्षा- देव भक्तावनुरागशब्दः प्रयुक्त इति । तस्यादपि न ज्ञानं किन्त्वनुरागरूपैव भक्तिर्निःश्रेयसफलेति । ननु द्वेषविरोधित्वं न रागत्वे लिङ्गम् उदासीनत्वेनानैका- न्त्यादिति चेत् उच्यते द्वेषकार्य्यं हि निवृत्तिस्तद्विरो- धिनी प्रवृत्तिरिति । भवति च भक्तानां भजनीयानु- वर्त्तनादौ प्रवृत्तिस्तद्विरोधिनां तदनुवर्त्तनादौ निवृत्तिः । एवञ्च कार्य्यमुखेन विरोधमभिप्रेत्य द्वेषप्रतिपक्षेत्युक्तम् । तथा च प्रयोक्तव्यं भक्तिर्भजनीयगोचररागरूपा तदनु- वर्त्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वाद् य- न्नैवं तन्नैवं यथा द्वेषः । रागोत्कर्षेण तदनुवर्त्त- नाद्युत्कर्षस्य दृष्टत्वाच्च । किञ्च यो यस्मिन् भक्तस्तत्र तस्यौदासीन्याभावेऽवगते भक्तिस्तादृशानुवर्त्तनाद्यनुकूल- द्वेषविरोधिगुणरूपा अनुवर्त्तनहेत्वात्मविशेषगुणत्वाद्धित- साधनताधीवदिति हितसाधनताधीत्वबाधसहकारेण परिशेषाद्रागत्वसिद्धिः । किमुत भक्तिमतामिमित्येतत्- कैमुतिकन्यायी विरोधिन्येव द्रष्टव्यः । (गी० । अ० ९ । श्लो० ३२) । “मां हि पार्थ! व्यपाश्रित्य येऽपि स्युः पापयोनयः” । “किं पुनर्ब्राह्मणाः पुण्याः” इत्यादौ च । एवं (गी० । अ० १६ । श्लो० १८) “मामात्मपरदेहेष्वित्य- नेन द्वेषस्य संहारहेतुत्वात् तद्विरोधिगुणो जीवोपा- धिपरिहारेण परात्मगोचरो राग एव भक्तिरूपः संसा- रनाशहेतुः । एतदेवोक्तं मामप्राप्यैवेति । चकारात् पुलकादिरागलिङ्गेनापि रागत्वम् । प्रसिद्धं हि “पुल- काञ्चितेन कथयति मथ्यनुरागं कोपोल” इत्यादौ । भक्ते- र्गुणान्तरत्वे तु पृथग्लिङ्गताकल्पने गौरवात् । स च रागः केषाञ्चिदिष्टसाधनताज्ञानजन्योऽपि यागादिवदि- च्छारूप एव । अस्माकं तु प्रीणाम्यनुरज्यामि नेच्छा- मीत्यादिप्रतीतेरागः पृथगेव द्वेषवत् । इच्छाया असि- द्धमात्रविययत्वाद्रागस्य सिद्धासिद्धविषयत्वाच्च । प्रत्युत तस्येच्छात्वादिव्याप्यत्वकल्पनागौरवाच्चेति दिक् । तस्मान्न तल्लक्षणासिद्धिरिति । ननु भक्तिः क्रियात्मिका सा च निःश्रेयसाय न क्षमते (तत्ति । आरण्य० । खिलप्रश्ने ऋक् २१) “न कर्मणा न प्रजया धनेन त्यागे- नैकेऽमृतत्वमानशः” इत्यादिश्रुतिभ्य इत्याशङ्कां परिहर- न्नाह टी० । “न क्रिया कृत्यनपेक्षणाज्ज्ञानवत्” ७ सू० । सा भक्तिर्न क्रियात्मिका भवितुमर्हति प्रयत्नानुवधानाभा- वात् । यन्न प्रयत्नानुषिधायि तन्न क्रियात्मकं यथा ज्ञानम् । तद्धि प्रमाणसम्पत्त्यधीनं न पुरुषेण स्वेच्छया कर्तुमकर्तुमन्यथा कर्तुं शक्यते । तथा भक्तिरपि न हि रागिण्णां प्रमदापुत्रादिविषयिणी पुंव्यापारेणं तथा भवति भक्तिः किन्तु पूर्वसुकृतगौणभक्त्यादिसाधनाधी- नेति” टी० । “अतएव फलानन्त्यम्” ८ सू० । “यतः सा न क्रियात्मिका अतएव तत्फलस्य निःश्रेयसस्यानन्तत्र- मुपपद्यते । अन्यथा (छा० । पृ० ५३८) “तद्यथेह कर्म- जितो लोकः क्षोयते एवमेवामुत्र पुण्यजिती लोकः क्षीयते” इत्यनेनामृतत्वस्यापि क्षयित्वं प्रसज्येतेति” टी० । “तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत्” ९ सू० । “भवति हि भगवद्वाक्यं (गी० । अ० ७ । श्लो० १९) “बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः” इति । ज्ञानवतः प्रपत्ति- रुक्ता भक्तेर्ज्ञानहेतुत्वे नेदमुपपद्यते इतरप्रपत्तिवदिति । यथा तदनन्तरं (गी० । अ० ७ । श्लो० २०) । “कामै- स्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः” । इत्यनेन देवता- न्तरप्रपत्तिनिन्दामुखेनैव प्रपत्तिः स्तूयते । तत्र देवता- भक्तेरेव प्रपत्तिशब्देन कथनं न तज्ज्ञानस्य । तस्या एव प्रपत्तेरुभयत्र प्रत्यभिज्ञानात् इति । चकाराज्० ज्ञानानन्तर्य्यश्रवणमपि ज्ञानत्वाभावे निदानम् । यथा (गी० । अ० १५ । श्लो० १६) । “यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत! इति । तथा (गी० । अ० ९ । श्लो० १३) । “भजन्त्यनन्य- मनसो ज्ञात्वा भूतादिमव्ययम् । इति मत्वा भजन्ते मां बुधा भावसमन्विताः” । इति च । तस्मान्न ज्ञाना- त्मिका । यद्यपि रागत्वेनैव ज्ञानभेदः सिद्धस्तथापि भक्तिशब्दो ब्रह्मज्ञागे गौण इति शङ्कानिरासार्थमेतत् । इदन्तु चिन्त्यते भगवद्वीतावाक्यानि न शब्दविधया वेदवत् प्रमाणम् । किन्तु भारतस्मृतित्वेन तथा च कथं शब्दादिति निर्देशः । अत्रैकेऽनुमितशब्दादिति व्याचक्षते । अत्रोच्यते अदृष्टार्थकभगवद्वाक्यत्वमेव वेदत्वं तच्च गीतास्वप्यविशिष्टम् । अतएव भगवद्गीतासूपनि- पत्स्विति दृश्यते, केवलं त एव श्लोका व्यासेन निवद्धाः तथा च पुराणान्तरम् “गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य मुखपद्मात् द्विनिःसृता” । न च शूद्राणामश्रवणप्रसङ्गः भारतश्रवणा- भ्यनुज्ञानेनैव तदुपपत्तेः प्रणवादिस्तुत्यादिवत् । तद्वि- हायेति चेन्न लक्षणाऽपरिपूर्त्तेः । तथाचीक्तमाचार्य्यैः । “तानेव वैदिकान् मन्त्रान् भारतादिनिवेदितान् । खाध्यायनियमं हित्वा लोकबुद्ध्या प्रयुञ्जते” टी० । १ आ० । “एवममृतत्वं प्रत्यनन्यथासिद्धायां भक्तौ लक्षितायां ज्ञान- योगभक्तीनामङ्गप्रघानभावविवेकाय द्वितीयाह्निकस्यारम्भः । “सा मुख्येतरापेक्षितत्वात्” १० सू० आह्निकसमाप्तायुक्तस्य पुनः खरणाय सेति निर्देशः । सा परा भक्तिर्मुख्या प्रधा- नम् इतरैरात्मज्ञानयोगादिभिः स्वोपकार्य्यतयापेक्षित- त्वादित्यर्थः । छान्दोग्ये (पृ० ६१६) “यो भूमा तत्सुखम्” इत्याद्युपक्रम्य म्नायते “आत्मैवेदं सर्वमिति स य एष एवं पश्यन्नेवं मन्यान एवं विजानन्नात्मरतिरा- त्मकीड आत्ममिथुन आत्मानन्दः स स्वराड् भवतीति” तत्रात्मरतिरूपायाः परभक्तेः पश्यन्निति दर्शनमप्रिय- त्वादिभ्रमनिरासमुस्येनाङ्गं भवति । यथा “दण्डी प्रैष- मन्याह प्राचीनावोती दोहयति अभिजानन् जुहोति घनवान् सुखवानित्यादौ दण्डाद्यङ्गं तथा “दर्शनमपि रतेरङ्गं मननविज्ञानयोरुक्तप्रियदर्शनार्थतया न्याय- प्राप्तयोरनुवादः । एवमात्मक्रीडादेरतिनैयत्यादर्थप्राप्तो- ऽनुवाद एव । अन्यथा रत्युद्देशेन दर्शनादिविधौ दर्शनाद्युद्देशेन वा रत्यादिविधौ वाक्यानि भिद्येरन् । तस्मात् (पूर्वमीसांसायाम् । अ० ३ । पा० १ । सू० २) “शेषः परार्थत्वादिति” न्यायाद्दर्शनमङ्गमिति । अतएव भगवान् मनुरपि । (महाभार० । शान्ति० । अ० १९४ । श्लो० ७१११ । ७११२) । “यस्त्यक्त्वा प्राकृतं कर्म नित्यमात्मरतिर्मुनिः । सर्वभूतात्मभूतात्मा स्याच्चेत् पर- तमा गतिः” । इत्यनेनात्मरतेः प्राधान्यमाहेति” टी० । “प्रसुरणाच्च” ११ सू० । “प्रकरणं रतेरेव फलवत्त्वात् तस्यास्त- तप्रकरणस्यं दर्शनमङ्गं भवितुमर्हतीति” टी० । “दर्शनफल- मिति चेन्न तेन व्यवधानात्” १२ सू० । “अथ दर्शनस्यैव फलं स्वाराज्यलक्षणममृतत्वं तथा च तस्यैव प्रकरणमिति वैप- रीत्यमिति चेन्न तेन तच्छब्देन व्यवधानात् (छां० । पृ० ५१६१७) स स्यराड् भवतीत्यत्र तच्छब्देन सन्निकृष्टा- त्मरतिमानेवोपस्थाप्यते न विप्रकृष्टः पश्यन्निति व्यव हितोपस्थितौ कारणाभावात् । प्रकरणमेव कारणमिति चेन्न अन्योन्यान्नयात्” टी० “दृष्टत्वाच्च” १३ सू० “दृष्टं हि लोके सौन्दर्यादिज्ञाबस्म तरुण्यास्तरुणे रतिहेतुत्वं न तु रतेर्ज्ञानहेतुत्वमिति दृष्टोपकारत्वादप्यङ्गत्वमवसीयते । दृष्टं च प्राकृतनिष्करुणत्वाल्पमहिमत्वाप्रियत्वादिज्ञानं मनोमालिम्यकारणं भूतेषु करुणाबहुलाव्याहतैश्वर्याति- शयितरूपाश्रय आत्मेति ज्ञानन्मालिन्यनिवृत्तिस्ततः परा भक्तिरिति । अतएव गीयते (गी० । अ० ५ । श्लो० १७) । “तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपु- नरावृत्तिं ज्ञाननिर्द्धूतकल्मषाः । इति । तथा आयु- र्वेदेऽपि (अष्टाङ्गहृदये । अ० १ श्लो० २३) । धी- र्धैर्यात्मादिविज्ञानं मनोदीषौषधं परम्” टी० । “अत- एव तदभाबाद्वल्लवीनाम्” १४ सू० । “यतो ज्ञानं दृष्टोपकार- कमङ्गमत एव दृष्टोपकारं निरस्य मनोमालिन्यादिवाधात् प्रधानभगवदनुरागमात्रेण वल्लवीनां मुक्तिः स्पर्य्यते । (विष्णुपुराणे । अंशे ५ । अ० १३ । श्ला० १४ । १५ । “तच्चिन्ताविपुलानन्दक्षीणपुण्यचया सती । तदप्राप्ति- महादुःखविलीनाशेषपातका । चिन्तयन्ती जगत्सूति” परब्रह्मस्वरूपिणम् । निरुच्छासतया मुक्तिं गतान्याः गोपकन्यका” इति । अत्र सुखदुःखलिङ्गेनानुरागोऽनु- मीयते न मुक्तिरिति वाक्यार्थः । द्वारबाघादनवहत- कृष्णलेनापि कर्मणा फलसिद्धिरिव तासां रागान्मुक्ति- स्तदप्यवगम्यते ज्ञानमङ्गमेव प्रधानत्वे तु तदभावे फलं न स्यात् चिन्ता च न ब्रह्मात्मैक्यज्ञानं तत्कारण- श्रवणमननाद्यसम्भवात् । किन्त्वनुरागनियतानुस्मृति- रेव । नचायमर्थवादः अपूर्वार्थत्वाभावात् सन्निधौ विध्य- भावाच्चेति” टी० । “भक्त्या जानावीति चेन्नाभिज्ञप्त्या साहाय्यात्” १५ सू० “इदानीं श्रुतिविरोधेन प्रकरणस्थान- लिङ्गबाधमाक्षिप्य समाधीयते । यथा श्रुतं (गी० । अ० १८ । श्लो० ५५ । “भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्” । इति । तत्र (तैत्तिरीयसं० । अ० १ । प्र०५ । अनुवाक०८) “ऐन्द्र्या गार्हपत्यमुपतिष्ठने” इति- वत् कारकश्रुत्या बलीयस्या भक्तेर्ज्ञानहेतुत्वसासीयते । यद्यपि दृष्टत्वादित्यनेन दृष्टोपकारे पत्यक्षगम्ये न श्रुते, रवकाशः तथापि ब्रह्मविषयिण्या रतेर्ब्रह्मविषयज्ञानोप- कार्य्यत्वं न प्रत्यक्षगम्यम् । किन्तु तरुण्यादे रतौ तथा दर्शनेन ब्रह्मगोचरायामप्यनुमातव्यम् । तथाच लिङ्गत्वे पर्यवसानादिति चेन्न दोषः । तथाहि यदि केवलं जानातीति वदेन्न त्वेवम् । किन्त्वभिजानातीति । अभिज्ञा पूर्वज्ञातज्ञानमुच्यते । तथा च भक्त्युपकारिपूर्व- ज्ञानं तत्फलरूपभक्तिप्रवर्त्तकम् । अनन्तरं यावत् तद्दार्द्यं भक्त्यैवाभिज्ञप्तिभावेनापेक्ष्यते व्रीह्यवहननेनाव- घातवदिति । कार्य्यसाहाय्यार्थमुक्तं ततो ज्ञानदार्द्येन भक्तिदार्द्ये सति विशत इति । तस्मान्नेयं श्रुतिः किन्तु न्यायप्राप्तानुवाद इति । एतमेवार्थं स्फुटीकरोति” टी० । “प्रागुक्तं च” १६ सू० । “भक्त्या मामित्यस्य पूर्वं व्रह्मभूयाय कल्पत इत्यभिधाय (गी० । अ० १८ । श्लो० ५४) । “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लमते पराम्” इत्युक्तम् । तस्य तु ज्ञातब्रह्मणो ज्ञानप्रयोजनाभावाद्युक्तमनुवादत्वमिति” टी० “एतेन विकल्पोऽपि प्रत्युक्तः” १७ सू० “एतेन ज्ञानस्याङ्गत्व- निर्णयेन ज्ञानभक्त्योरत्र विकल्पपक्षोऽपि प्रत्युक्तः निराकृत इति मन्तव्यम् । नह्यङ्गाङ्गिनोरेकत्र विकल्पो भवतीति । अपिशब्दात् समुच्चयोऽपीति” टी० । “देवभक्तिरितरस्मिन् साहचर्य्यात्” १८ सू० । “क्वचिदेवं श्रूयते (श्वेताश्व० पृ०११७) “यस्य । देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः” इति । अत्र देवभक्तिरो- श्वरेतरस्मिन् देवे मन्तव्या कुतः गुरुभक्तिसाहचर्य्यात् । साहचर्य्यं हि नामृतफलायां भक्तौ घटते । इन्द्रादि देवतास्त्वाराधिताः शुभवज्ज्ञानफलाय भवन्तीति साह- चर्य्यमपि निर्णायकम् । साहचर्य्यादुलूकशब्दवदुपयुक्ते- रुपष्टम्भकमेतत्” ११ टी० “योगस्तूभयार्थमपेक्षणात् प्रयाज- वत्” १९ सू० । “योगः पुनर्ज्ञानार्थं भक्त्यर्थं च भवति । समाहितमनस्कताया उभाभ्यामपेक्षणात् । ननु (पूर्वमी- मांसायाम् । अ०३ । पा० १ । सू० २१) “गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यादिति” न्यायात् प्रधा- नाङ्गं योगः कथमङ्गाङ्गमित्यत आह प्रयाजवदिति यथा प्रयाजो वाजपेयाद्यङ्गं तदोयदीक्षणीयादेरप्यङ्गं तद्वत् । तदङ्गताबोधकप्रमाणाविशेषात् । केवलं ज्ञानार्थं योगानुष्ठानप्रसङ्गेन भक्तिमुपकरोतीति । एवं विषय- वैराग्यमपि उभयार्थं मन्तव्यम् । ननु योगे पात- ञ्जलदर्शने २३ पृ०) “ईश्वरप्रणिधामादिति” पतञ्जलि- स्वरणं दुरपह्नवं तत्र प्रणिधानाभिधेयस्य भगव- द्भजनस्य समाधिसिद्ध्यर्थत्वमिति कथं भक्तेः प्राधान्य- मित्यत आह” टी० । “गौण्या तु समाधिसिद्धिः” २० सू० । तत्र प्रणिधानं गौणभक्तिरेव न प्रधानं तया समाधि- सिद्धिरिति न स्मृतिविरोधोऽपीति । भवति च वाक्य- शेषस्तत्रैव (पा० द० ४० । ४१ पृ०) “तस्य वाचकः प्रणवः” “तज्जपस्तदर्थभावनमिति” टी० । “हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत्” २१ सू० । योगशास्त्रप्रस्तावादिदं सूत्रम् । योगशास्त्रोक्तरागत्वाविशेषाद्भक्तिरपि मुमुक्षुणा हेयैव । तथा च सूत्रं पा० द० ७२ पृ०) “हेयाः राग- द्वेषाभिनिवेशाः क्लेशाः” इति । एवञ्चेदुच्यते । नैवं वाच्यम् उत्तमास्पदत्वाद्भक्तेः परमेश्वरविषयत्वादिति यावत् । न हि रागत्वमात्रेण हेयत्वं किन्तु संसारानु- बन्धिरागत्वेनैव । यथा सङ्गत्वमात्रेण न त्याज्यता किन्तु असत्सङ्गत्वेन तद्वत् । तथा चेश्वरभक्तिर्हेया रागत्वादित्यत्र संसारान्रबन्धित्वं मोक्षाननुगुणत्वं चो- पाधिः । नच सात्त्विकी सा (गी० । अ० १७ । श्लो० ४) “यजन्ते सात्त्विका देवान्” इत्यादिना सात्त्विकत्वकीर्त्तना- दिति” टी० । “तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात्” २२ सू० “तदेव भजनं मुख्यं तस्या भक्तेर्वामुख्यत्वम् । एतत् सर्वथैव निश्चितं यस्मादेवं शब्द्यते (गी० । अ० ६ । श्लो० ४६ । ४७) । “तपस्विभ्योऽधिको योगी ज्ञानि- भ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुनः । योगिनामपि सर्वेषां मद्गतेनान्तरा- त्मना । श्रद्धावान् भजते यो भां स मे युक्ततमो मतः” इति । अत्र विशेषणानां तपादीनामाधिक्यनिबन्धनं विशेष्याणामाधिक्यं क्रमादिति मन्तव्यम् । न खल्वङ्गस्य मुख्यादाधिक्यमुपपद्यते । तस्माद्भक्तिः प्रधानमिति । श्रुत्यर्थेनापि तदुत्पत्तिपरिहार्थं पठति” टी० । “प्रश्ननि- रूपणाभ्यामाधिक्यसिद्धेः” २३ सू० । अत्र कृत्स्रोऽपि द्वादशाध्याय उदाहरणम् (गी० । अ० १२ । भक्तियोग- शब्दे स च अध्यायो दृश्यः । तल्लिङ्गानि च तत्रैवोक्तानि यथा “तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः” ४३ सू० । “यद्यपि जानामीच्छामीत्यादिवदहं भजे अनुरज्ये इत्येवं मानादिना प्रत्यक्षगम्यैव भक्तिस्तथापि तस्या दृढत- रसंस्कारवैशिष्ट्यलक्षणा परिशुद्धिर्न प्रत्यक्षतो निर्णेतुं शक्यते ज्ञानप्रामाण्यवत् । तस्मात् तन्निर्णयो लोक- वज्ज्ञातलिङ्गेभ्य एव । यथा लोकेऽनुरागतारतम्यं तत्कथादाबश्रुपुलकादिविकारैरनुमीयते तद्वदिति । न केवलं लोकवल्लिङ्गानि भवन्ति महर्षीणां स्मृतिभ्यो- ऽपि तानि लिङ्गानि बाहुल्येन लक्ष्यन्त इत्याह” टीका । “सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्या- तितदर्थप्राणस्थानतदीयतासर्वतद्भावाप्रातिकूल्यादीनि च स्युरन्येभ्यो बाहुल्यात्” ४४ सू० । “यथार्जुनस्य सम्मानः । “प्रत्युत्थान तु कृष्णस्य सर्वावस्थो धनञ्जयः । न लङ्घयति धर्मात्मा भक्त्या प्रेमणा च सर्वदा” । बहुमानःयथा इ- क्ष्वाकोः (नृसिंहपु० अ० २५ श्लो० २२) “पक्षपातेन तन्नाम्नि मृगे पद्मे च तादृशि । बभार मेघे तद्वर्णे बहुमानमतिं नृपः” । प्रीतिर्यथा विदुरस्य । (महाभारते । उद्यो० अ० ८८ श्लो० ३११४) । “याप्रीतिः पुण्डरीकाक्ष! तवागमनकार- णात् । सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम्” । विरहो यथा गोपीनाम् (विष्णुपु० । अंशे ५ । अ० १८ । श्लो० १७) “गुरूणामग्रतो वक्तुं किं ब्रवीमि न नः क्षमम् । गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना” । इतर- विचिकित्सा यथा श्वेतद्वीपनिवासिनाम् । नारददर्शने- ऽपि विघ्नबुद्धिः यथाचोपमन्योः (महाभरते । अनुशा- अ० १४ । श्ला० ७० ७७) । “अपि कीटपतङ्गो वा भवेयं शङ्कराज्ञया । न तु शक्र! त्वया दत्तं त्रैलोक्यमपि कामये” । महिमख्यातौ यथा यमस्य । (नृसिंहपुरा० अ० ८ श्लीक० १) “नरके पच्यमानस्तु यमेन परिभा- षितः । किं त्वया नार्चितोदेवः केशवः खेदनाशनः” । (विष्णुपु० । अंशे ३ । अ७ । श्लो०१०) । “स्वपुरुषमभिवीक्ष्य पाशहस्तम् । वदति यमः किल तस्य कर्णमूले । परि- हर मघुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्” तदर्थप्राणस्थितिर्यथा हनूमतः । तेनैवोक्तम् (वाल्मी- कीये उत्तरकाण्डे । स० १०७ श्लो० ३१३१) । “यावत् तव कथा कोके विचरिष्यति पावनी । तावत् स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन्” । अथ वा कृतकृत्यानामपि नारदादीनां तदेकाराधनार्थं प्राणधारणम् । अतएव श्रुतिः । (नृसिंहतापिनी । खं० ६) “यं सर्बेदेवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्चेति” । तदीयताभावस्तु वसोरुप- रिचरस्य (महाभारते । शा० । अ० ३२७ । श्ला० १२७१८) “आत्मराज्य धनं चैव कलत्रं वाहनं तथा । एतद्भागतवतं सर्वमिति तत् प्रथते सदा” इति । सर्व भूतेषु तद्वावो यथा प्रह्लदस्य प्रसिद्धः । उक्तञ्च तेनैव । (विष्णुपु० । अंशे १ । अ० १९ । श्लो० ५) “एवं स- र्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम्” । तस्मिन्नप्रातिकूल्यं यथा हन्तु० मागतेऽपि भगवति भीष्मस्य । तेनैवोक्तम् । (महा- भारते भौष्मप० । अ० ५८ श्लो० २६४) “एह्येहि देवेश! जगन्निबाल! नमोऽस्तु ते शार्ङ्गगदासिपाणे! । प्रसह्य मां पातय लोकनाथ । रथादुदग्राद्भुतशौर्य्य सख्ये” । आदिशब्दादुद्धवाक्रूरादिचेष्टितान्यपि द्रष्टव्यानि । यद्यपि द्वेषविपक्षभावादित्यत्रेदमुक्तं तथापि तत्र राग- लिङ्गत्वेनात्र च बहुभक्तिपरिशुद्धिलिङ्गतयेति विशेष इति । ननु स्वामिन्यनुरागिणां तदनुग्रहतारतम्यवत्सु द्वेषेर्ष्यादयो भवन्ति तेऽपि किं लिङ्गानि नेत्याहं टी० । “द्वेषादयस्तु नैवम्” ४५ सू० । “तदसम्भादेव । यथोक्तं भग- वता द्वैपायनेन महाभारते अनुशा० । अ० १४९ पृ० १४६ । श्लो० ७६९) “न क्रोधो न च मात्सर्य्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे” इति । शिशुपालस्य तु द्वेषात् स्मरणं ततः परा भक्तिस्ततो मुक्तिरित्येव क्रमः इति” टी० । अत्रेदमवधेयम् शाण्डिल्यसूत्रादौ “भक्तेर्ज्ञानाङ्गकत्वं यदुक्तं तद् भक्तेः प्रशंसार्थं तत्त्वज्ञानेनाज्ञाननिवृत्तौ अज्ञानकार्य्यानुरागविशेषान्तःकरणवृत्तिरूपाया भक्तेः कुत- स्तरां सम्भवोऽतो ज्ञानस्यैव भक्तिरङ्गम् । अतएव पात० सू० ईश्वरप्रणिधानात् योगसिद्धिरुक्ता “तपास्वाध्यायेश्वरप्रणि- धानानि क्रियायोगाः” क्रियायोगरूस्येवरप्रणिधानस्य योगाङ्गत्वमुक्तम् अतएव भक्तिर्ज्ञानाय कल्पते इति मुक्ता- फलकर्त्ता वोपदेव उदाजहार । इयांस्तु भक्तौ रसास्वाद- मुक्तौ सुखस्वरूपतेति । तेन च मुक्ताफलग्रन्थे भक्तिलक्षणं तद्भेदाश्चान्यथोक्तं यथा “तत्र विष्णुभक्तिर्लक्षणं भेदाश्च । “तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत्” मू० “यस्मात् कृष्ण एव कैवल्य- प्रदः यद्वा तस्मात् उपायविशेषस्याविवक्षितत्वात् । के- नापि विहितेन अविहितेन वा उपायेन साध्यसिद्ध्याव- धृतसामर्थ्येन, न तून्मादादिना कृष्णे सत्त्वोपाधौ ब्रह्मणि निवेशयेत् स्थिरीकुर्य्यात् लिङ्निर्देशस्याविवक्षितत्वात् उ- पायपूर्वं भगवति मनःस्थिरीकरणं भक्तिरिति लक्षणार्थः । न तावदस्यासम्भवः प्रह्रादादौ सुपसिद्धत्वात् । न च कर्मक्षयार्थविधिसिद्ध्यर्थयोः भक्त्योरव्याप्तिः तयोरप्य- तःकरणशुद्धिहेतुत्वेन मनोनिवेशहेतुत्वात् । नाप्यु- न्मादादावभक्तिभूतेऽतिव्याप्तिः तस्यानुपायत्वेन निरस्त- त्वात् । तापि शुद्धायां भक्तौ उपायानिर्देशादुपायेनेति लक्षणेऽनन्तर्भूतमिति शङ्क्यम् । श्रौताभावेऽप्यानुमानि- कस्य सम्भवात् । सा द्वेधा विहिता अविहिता च । तत्र विहिता “देवानां गुणलिङ्गानामानुश्रविककर्म- णाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु य । अनिमित्ता भागवती भक्तिः सिद्धेर्मरीयसी जरय- त्याशु या कोशं निगीर्णमनलो यथा” । सा द्वेधा मिश्रा शुद्धा च । मिश्रा त्रेधा । कर्ममिश्रा कर्मज्ञानमिश्रा ज्ञान- मिश्रा च । कर्ममिश्रापि त्रेधा । तामसी राजसी सात्त्विकी च तामसी च त्रेधा । हिंसार्था दम्भार्था मात्स्यर्य्यार्था च । “अभिसन्धाय यद्धिंसां दम्भं मात्सर्य्यमेव वा । सरम्भी भिन्नदृग्भावमपि कुर्य्यात् स तामसः । राजसी त्रेधा । विषयार्था यशोऽर्था ऐश्वर्य्यार्था च । “विषयानभिसन्धाय यश एश्वर्य्यमेव वा । अर्चायामर्चयेद् यो मां पृथग्भावः स राजसः । सात्त्विकी त्रेधा कर्मक्षयार्था विष्णुप्री- त्यर्था विधिसिद्ध्यर्था च । “कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् । यजेत् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः” । कर्मज्ञानमिश्रा त्रेधा उत्तमा मध्यमाऽधमा च सत्त्वतारतस्यात् । तत्रोत्तमा “सर्वभूतेषु यः पश्ये- द्भगवद्भावमात्मनः । भूतानि भगवत्यात्मत्येध भागवतोत्तमः । मध्यमा “ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेम- मैत्रीकृपोपेक्षा यः करोति स मध्यमः” । अधमा “अर्चा- यामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः” । ज्ञानमिश्रा “मद्गुणश्रुति- मात्रेण मयि सर्वगुहाशये । मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ । लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्तिः पुरुषो- त्तमे! सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः । येनातिवृज्य त्रि- गुणान् मद्भावायोपपद्यते” । अविहिता चतुर्द्धा, काम- जा द्वेषजा भयजा स्नेहजा च । “कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः । आवेश्य तदथं हित्वा बहवस्तद्गतिं गताः” । भक्तिष्वधिकारिणश्च तत्रोक्ता यथा “गोप्यः कामाद्भयात् कंसो द्वेषाच्चैद्यादयो नृपाः । सम्ब- न्धाद् वृष्णयः स्नेहात् यूयं भक्त्या वयं विभोः” । सम्ब न्धात् स्नेहाद्वृष्णयो यूयं चेत्येकम् । भक्त्या विहितया वयमित्यत्र विभागः । “निर्विणानां ज्ञानयोगो न्यासिना- मिह कर्मसु । तेष्वनिर्विन्नचित्तानां कर्मंयोगस्तु कर्मि- णाम् । यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः । य एतान् मे पथो हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान् कामान् चलैः प्राणैर्जुपन्ते संसरन्ति ते । स्वे स्वेऽधिकारे या निष्ठा सगुणः स प्रकीर्त्तितः” । एवं सति कर्ममिश्रा नव गृहस्थानाम् । कर्मज्ञानमिश्रास्तिस्रो वन- स्थानाम् । ज्ञानमिश्रैका भिक्षूणाम् । शुद्धैका सर्वेषां उत्पन्नेऽनुरागे । उत्पाद्ये तु यथा संमिश्रा । अवि- हिताश्चतस्रो गोप्यादीनाम् एवमष्टादश भेदाः । “यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत् । नैष्कर्म्यमप्यच्युतभाववर्जितम् न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्” । विष्णुभक्त्यङ्गवर्गलक्षणं भेदाश्च तत्रोक्ता यथा “कायेन वाचा मनसेन्द्रि- यैर्वा बुद्ध्यात्मना वानुसृतः स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत्तत्” इत्युपक्रमे स एकोनविंशतिधा । षडत्रिंशद्वर्गः १ । त्रिंशद्व


शब्दकल्पद्रुमः

भक्तिः || स्त्री (भज्यते इति । भज + क्तिन् ।)
विभागः । सेवा । इति मेदिनी । ते, ३९ ॥ गौणवृत्तिः । भङ्गी । (अनुरागविशेषः । पूज्ये- ष्वनुरागो भक्तिरित्युपदेशः ॥ ईश्वरे परानुरक्तिः । “अथातो भक्तिजिज्ञासा सा परानुरक्ति- रीश्वरे ।” इति शाण्डिल्यसूत्रम् ॥ उपासना ॥ परमेश्वरविषये परमप्रेम । उपास्याकारा- कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या- सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥ “नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि- पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥ यथा, विष्णुपुराणे । १ । २० । १८-१९ । “नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥” “हे अच्युत ! त्वयि मे अच्युता ऐकान्तिकी भक्तिरस्तु । एकान्तभक्तिः परमप्रीत्यधीनेति तां प्रीतिं प्रार्थयते येति यादृशी प्रीतिर्विषयेषु आसक्तानां सा तादृशी प्रीतिर्मे हृदयात मापसर्पतु मापयातु हृदये सदा तिष्ठत्वित्यर्थः ॥” इति तट्टीकायां श्रीधरस्वामी ॥ चन्दनादिभि- स्तिलकादिरचना । यथा, रघौ । १३ । ५५ । क्वचित् खगानां प्रियमानसानां कादम्बसंसर्गषतीव पंक्तिः । अन्यत्रकालागुरुदत्तपत्रा भक्तिर्भवश्चन्दनकल्पितेव ॥”)
श्रद्धा । इति हेमचन्द्रः ॥ (भक्तिविवरणं यथा, —
“भज इत्येष वै धातुः सेवायां परिकीर्त्तितः । तस्मात् सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी ॥ इति गारुडे २३१ अध्यायः ॥ * ॥
अथ श्रीमद्भक्तिलक्षणं तृतीये श्रीकापिलेये । “देवानां गुणलिङ्गानामानुश्रविककर्म्मणाम् । सत्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ अनिमित्ता भागवती भक्तिः सिद्धेर्गरीवसी ॥ अथ विशेषलक्षणानि । श्रीगौतमीयतन्त्रे । “देवतायाञ्च मन्त्रे च तथा मन्त्रप्रदे गुरौ । भक्तिरष्टविधा यस्य तस्य कृष्णः प्रसीदति ॥ तद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् । सुमना अर्च्चयेन्नित्यं तदर्थे दम्भवर्जनम् ॥ तत्कथाश्रवणे रागस्तदर्थे चाङ्गविक्रिया । तदनुस्मरणं नित्यं यस्तन्नाम्नोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते । स मुनिः सत्यवादी च कीर्त्तिमान स भवेन्नरः ॥” सप्तमस्कन्धे श्रीप्रह्लादोक्तौ । “श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् । अर्च्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियते भगवत्यध्वा तन्मन्येऽधीतमुत्तमम् ॥” तत्रैव श्रीनारदयुधिष्ठिरसंवादे । “श्रवणं कीर्त्तनञ्चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्मनिवेदनम् ॥” पाद्मे कार्त्तिकमाहात्म्ये श्रीयमधूम्रकेशसंवादे । “श्रवणं कीर्त्तनं पूजा सर्व्वकर्म्मार्पणं स्मृतिः । परिचर्य्या नमस्कारः प्रेम स्वात्मार्पणं हरौ ॥” तत्रैवोत्तरखण्डे शिवपार्व्वतीसंवादे । “आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः । धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥ अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा । कीर्त्तनं श्रवणञ्चैव बन्दनं पादसेवनम् । तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥ तदीयानाञ्च संसेवा द्वादशीव्रतनिष्ठता । तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥ भक्तिः षोडशधा प्रोक्ता भववन्धविमुक्तये ॥” इति च । किञ्च । “दर्शनं भगवन्मूर्त्तेः स्पर्शनं क्षेत्रसेवनम् । आघ्राणं धूपशेषादेर्निर्माल्यस्य च धारणम् ॥ नृत्यं भगवदग्रे च तथा वीणादिवादनम् । कृष्णलीलाद्यभिनयः श्रीभागवतसेवनम् ॥ पद्माक्षमालादिधृतिरेकादश्यादिजागरः । प्रासादरचनाद्यन्यज्ज्ञेयं शास्त्रानुसारतः ॥ लिखिता भगवद्धर्म्मा भक्तानां लक्षणानि च । तानि ज्ञेयानि सर्व्वाणि भक्तेर्वै लक्षणानि च ॥ तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः । बहिरङ्गान्तरङ्गाणि प्रेमसिद्धौ च तानि यत् ॥ भेदास्तु विविधा भक्तेर्भक्तभावादिभेदतः । मुक्ताफलादिग्रन्थेभ्यो ज्ञेयास्तल्लिखनैरलम् ॥ प्रेमभक्तौ च सिद्धायां सर्व्वेऽर्थाः सेवकाः स्वयम् ॥ भगवांश्चातिवश्यः स्याल्लिख्यतेऽस्याः सुल- क्षणम् ॥” अथ प्रेमभक्तिलक्षणम् । नारदपञ्चरात्रे । “अनन्यममता विष्णौ ममता प्रेमसङ्गता । भक्तिरित्युच्यते भीष्म ! प्रह्नादोद्धवनारदैः ॥ प्रेमभक्तेश्च माहात्म्यं भक्तेर्माहात्म्यतः परम् । सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥ चिह्नानि प्रेमसम्पत्तेर्बाह्यान्याभ्यन्तराणि च । कियन्त्युल्लिखितान्यस्या महिमैव विलिख्यते ॥” अथ प्रेमसम्पत्तिचिह्नानि सप्तमस्कन्धे श्रीप्रह्रा- दस्य बालानुशासने । “निशम्य कर्म्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुभिः कृतानि । यद्वातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति नृत्यते च ॥ यदा ग्रहग्रस्त इव क्वचिद्धसत्या- क्रन्दति ध्यायति बन्दते जनम् । मुहुः श्वसन् वक्ति हरे ! जगत्पते ! नारायणेत्यात्ममतिर्गतत्रपः ॥ तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधीक्षजम् ॥” एकादशे च श्रीकवियोगेश्वरोत्तरे । शृण्वन् सुभद्राणि रथाङ्गपाणे- र्जन्मानि कर्म्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ एवंव्रतः स्वप्रियनामकीर्त्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवन्नृत्यति लोकबाह्यः ॥” तत्रैव श्रीप्रबुद्धयोगेश्वरोत्तरे । “स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हारम् । भक्त्या संजातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ क्वचिद्रुदन्त्यच्युतचिन्तया क्वचि- द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तष्णीं परमेत्य निर्वृताः ॥ श्रीभगवदुद्धवसंवादे च । “कथं विना रोमहर्षं द्रवता चेतसा विना । विनानन्दाश्रुकलया शुद्धेद्भक्त्या विनाशयः ॥ वाग्गद्गदा द्रवते यस्य चित्तं रोदित्यभीक्षणं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ यथोक्तभक्त्यशक्तौ तु भगवच्चरणाम्बुजम् । शरणागतभावेन कृत्स्नभीतिघ्नमाश्रयेत् ॥” इति हरिभक्तिविलासे ११ विलासः ॥ अपि च । उत्तमभक्तेर्लक्षणं यथा, —
“अन्याभिलासिताशून्यं ज्ञानकर्म्माद्यनावृतम् । आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥ तथा नारदपञ्चरात्रे । “सर्व्वोपाधिविनिर्भुक्तं तत्परत्वेन निर्म्मलम् । हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥” श्रीभागवतस्य तृतीयस्कन्धे च । “अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे । सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ॥ दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आन्त्यन्तिक उदाहृतः ॥” इति ॥ सा उत्तमा भक्तिः षड्विधा यथा, —
“क्लेशघ्नी शुभदा मोक्षलघुताकृत् सुदुर्लभा । सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षणी च सा ॥” तत्रास्याः क्लेशघ्नत्वम् । “क्लेशास्तु पापं तद्बीजमविद्या चेति ते त्रिधा ॥” शुभदत्वं यथा, —
“शुभानि प्रीणनं सर्व्वजगतामनुरक्तता । सद्गुणाः सुखमित्यादीन्याख्यातानि मनी- षिभिः ॥” मोक्षलघुताकृद्यथा, —
“मनागेव प्ररूढायां हृदये भगवद्रतौ । पुरुषार्थास्तु चत्वारस्तृणायन्ते समन्ततः ॥” सुदुर्लभा यथा, —
“साधनौघैरनासङ्गैरलभ्या सुचिरादपि । हरिणाचाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥” सान्द्रानन्दविशेषात्मा यथा, —
“ब्रह्मानन्दो भवेदेष चेत् परार्द्धगुणीकृतः । नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि ॥” श्रीकृष्णाकर्षणी यथा । “कृत्वा हरिम्प्रेमभाजम्प्रियवर्गसमन्वितम् । भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षणी च सा ॥” सा उत्तमा भक्तिस्त्रिधा यथा, —
“सा भक्तिः साधनं भावः प्रेमा चेति त्रिधो- दिता ॥” साधनभक्तिर्यथा, —
“कृतिसाध्या भवेत् साध्यभावा सा साधनाभिधा । नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥” भावभक्तिर्यथा, —
“शुद्धसत्त्वविशेषात्मा प्रेमसूर्य्यांशुसाम्यभाक् । रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥” प्रेमभक्तिर्यथा, —
“सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥



Correction: