संस्कृत-शब्दकोशः

भगल भगवत्

भगवती

शब्दकल्पद्रुमः

भगवती || स्त्री (भगः ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” इत्युक्तलक्षणम् षडैश्वर्य्यमस्त्य- स्येति । भग + “तदस्यास्त्यस्मिन्निति मतुप् ।” ५ । २ । ९४ । इति मतुप् । मस्य वः । “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥” इति काशिकोक्तेर्नित्ययोगेऽत्र मतुप्प्रत्ययः । ततः स्त्रियां ङीप् ।)
पूज्या । गौरी । इति मेदिनी । ते, २१४ ॥ (सा च प्रकृतिरूपिणी महामाया देवी । यथा, मार्कण्डेये । ८१ । ४२ । “ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥”)
सरस्वती । यथाह पौराणिकाः । “सा मां पातु सरस्वती भगवती निःशेष- जाड्यापहा ॥” गङ्गा । यथा, शङ्कराचार्य्यकृतगङ्गास्तोत्रे । “भगवति ! भवलीलामौलिमाले तवाम्भः- कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ॥” तस्याः स्वरूपं यथा, —
“यथा नित्यो हि भगवान् नित्या भगवती तथा । स्वमायया तिरोभूता तत्रेशे प्राकृते लये ॥ आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं मिथ्यैव कृत्रिमम् । दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान् यथा ॥ सिद्ध्यैश्वर्य्यादिकं सर्व्वं यस्यामस्ति युगे युगे । सिद्ध्यादिके भगो ज्ञेयस्तेन भगवती स्मृता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ अपि च । “सेव्यते या सुरैः सर्व्वैस्ताञ्चैव भजते यतः । धातुर्भजेति सेवायां भगवत्येव सा स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ तस्याः प्रतिमाविशेषस्य पूजने फलविशेषो यथा, ब्रह्मोवाच । “शृणु तस्याः सुराध्यक्ष ! आराधनविधिं परम् । यथा सा तोषिता पूर्ब्बं शङ्कराद्यैः फलेप्सुभिः ॥ कर्म्मयज्ञेन देवेश ! तथा त्वमपि पूजय । शम्भुः पूजयते देवीं मन्त्रशक्तिमयीं शुभाम् ॥ अक्षमालाकरो नित्यं तेनासौ विबुधांवरः । अहं शैलमयीं देवीं यजामि सुरसत्तम ! ॥ तेन ब्रह्मत्वमेवेदं मया प्राप्तं सुदुर्लभम् । इन्द्रनीलमयीं देवीं विष्णुरर्च्चयते तदा ॥ विष्णुत्वं प्राप्तवांस्तेन अद्भुतैकं सनातनम् । देवीं हेममयीं कान्तां धनदोऽर्च्चयते सदा ॥ तेनासौ धनदो देवो धनेशत्वमवाप्तवान् । विश्वेदेवा महात्मानो रौप्यां देवीं मनोहराम् । यजन्ति विधिवद्भक्त्या तेन विश्वत्वमाप्नुयुः ॥ वायुः पूजयते भक्त्या देवीं पित्तलसम्भवाम् । वायुत्वं तेन तत् प्राप्तमनौपम्यं गुणावहम् ॥ वसवः कांसिकां देवीं पूजयन्ते विधानतः । प्राप्नुवन्तो महात्मानो वसुत्वं सुमहोदयम् ॥ अश्विनौ पार्थिवां देवीं पूजयन्तौ विधानतः । तेन तावश्विनौ देवौ दिव्यदेहं गतायुभौ ॥ स्फाटिकां शोभनां देवीं वरुणोऽर्च्चयते सदा । वरुणत्वं हि संप्राप्तं तेन ऋद्ध्या समन्वितम् ॥ देवीमन्नमयीं पुण्यामग्निर्यजति भावितः । अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् ॥ ताम्रां देवीं सदाकालं भक्त्या देवो दिवाकरः । अर्च्चते तत्र संप्राप्तं तेन सूर्य्यत्वमुत्तमम् ॥ मुक्ताशैलमयीं देवीं सोमः पूजयते सदा । तेन सोमोऽपि संप्राप्तः सोमत्वं सततोज्ज्वलम् ॥ प्रबालकमयीं देवीं यजन्ते पन्नगोत्तमाः । तेन नागास्तु भोगाढ्याः प्रयान्त्येते परं पदम् ॥ कृष्णायसमयीं देवीं पूजयन्त्यसुरोत्तमाः । राक्षसाश्च महात्मानस्तेन वेऽमितविक्रमाः ॥ त्रपुसीसमयीं देवीं पिशाचाः पूजयन्ति ताम् । तेन ऋद्धिबलोपेताः प्रयान्ति परमं पदम् ॥ त्रैलोहिकां सदा देवीं यजन्ते गुह्यकादयः । तेन भोगबलोपेताः प्रयान्तीश्वरमन्दिरम् ॥ वज्रलौहमयीं देवीं यजन्ते मातरः सदा । मातृत्वं प्राप्य ताः सर्व्वाः प्रयान्ति परमं पदम् ॥ एवं देवाः सगन्धर्व्वाः पिशाचोरगराक्षसाः । पूजयन्ते सदाकालं चर्च्चिकां सुरनायिकाम् ॥ तथा त्वमपि देवेन्द्र ! यदीच्छसि परां गतिम् । शिवां मणिमयीं पूज्य लभसे मनसेप्सितान् ॥ कामान् सुरवराध्यक्ष ! कामिकैः पूजितैः सदा । ददाति सर्व्वलोकानां चिन्तामणिर्यथा शिवा ॥” इत्याद्ये देव्यवतारे द्रव्यविधिपूजामाहात्म्ये ३८ अध्यायः ॥ तस्यै गृहदानस्य फलं यथा, — ईश्वर उवाच । “देव्या गृहन्तु यः शुक्रकरार्पयति शोभनम् । सर्व्वोपकरणैर्युक्तं सकपाटार्गलान्वितम् ॥ तस्मिन् घण्टा ध्वजं छत्रं वितानं दर्पणानि च । दत्त्वा मुरजवंशादि नित्यं सङ्गीतकानि च ॥ देवीशास्त्रार्थवेत्तारं पूजनं भवने शुभम् । एवं प्रवर्त्तते यस्तु तस्य पुण्यफलं शृणु ॥ दशपूर्ब्बापरांस्तात ! आत्मनश्चैकविंशतिम् । उद्धृत्य च कुलं पापाद्ब्रह्मलोके महीयते ॥ गच्छते भगवती यत्र परा परमपूजिता । तत्र कल्पान्तरं यावद्भुक्त्वा भोगान् मनो- रमान् ॥ पुनः कालादिहायातः पृथिव्यामेकराड्भवेत् । सभृत्यवाहनोपेतः शान्तः पुरपरिच्छदः ॥ पुनर्देव्या द्विजातीनां तद्भक्तानां प्रियो भवेत् ॥ कन्यासम्पूजको नित्यं देवीशास्त्रार्थपारगः । लभते परसद्भावं तदन्ते शिवतां व्रजेत् ॥ देव्या गृहन्तु यः शुक्र ! सम्मार्ज्जयति नित्यशः । स भवेद्बलवान् सौख्यसर्व्वसम्पत्तिसंयुतः ॥ तदागच्छेच्छिवालोकं सर्व्वकालफलप्रदम् । देव्या गृहन्तु यः शुक्र ! गोमयेनानुलेपयेत् ॥ स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्त- रम् । स लभेदीप्सितान् कामान् देव्या लोकञ्च गच्छति ॥” इत्याद्ये देव्यवतारे ४२ अध्यायः ॥



Correction: