वाचस्पत्यम्
भगवत् || षु० भगम् “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनेत्युक्तम् अस्त्यस्य मतुप् मस्य वः । १ ऐश्वर्य्यादियुक्ते परमेश्वरे २ बुद्धे अमरः तस्य षडभिज्ञत्वात् भगरूपैश्चर्य्यादियोगाच्च तथा- त्वम् । अस्य संबोधने भगो इत्येव अजादौ तस्य विस- र्गस्य लोपः । ३ दुर्गायां स्त्री ङीप् । “सेव्यते या सुरैः सर्वैस्ताञ्चैव भुजते यतः । धातुर्भजेति सेवायां भगवत्येव सा स्मृता” देवीपु० ४५ अ० ।
शब्दकल्पद्रुमः
भगवान् || [त्] (भगः “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” इत्युक्तलक्षणं षडैश्वर्य्यमस्त्यस्येति । भग + नित्ययोगे मतुप् मस्य वः ।)
पुं बुद्धः । इत्यमरः । १ । १ । १३ ॥ श्रीकृष्णः । यथा, —
“भगवानपि ता रात्रीः शारदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥” इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥ पूज्ये त्रि । इति मेदिनी ॥ भगवत्स्वरूपं यथा, “मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! । तदेतत् श्रूयतामत्र संबन्धे गदतो मम ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ द्वे विद्ये वेदितव्ये वै इति चाथर्व्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥ विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् । व्याप्यव्याप्तं यतः सर्व्वं तं वै पश्यन्ति सूरयः ॥ तद्ब्रह्म तत् परं धाम तद्ध्येयं मोक्षकाङ्क्षिणा । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् । तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ॥ वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः । एवं निगदितार्थस्य स तत्त्वं तस्य तत्त्वतः ॥ ज्ञायते येन तज्ज्ञाने परमन्यत्त्रयीमयम् ॥ अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज ! । पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः । शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते । मैत्रेय ! भगवच्छब्दः सर्व्वकारणकारणे ॥ संभर्त्तेति तथा भर्त्ता भकारोऽर्थद्वयान्वितः । तेनागमयिता स्रष्टा गकारार्थस्तथा मुने ! ॥ ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य थशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥ वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ एवमेव महाबाहो ! भगवानिति सत्तम ! । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण अन्यत्र ह्युपचारतः ॥ उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥ ज्ञानशक्तिबलैश्वर्य्यवीर्य्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥” इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥ अपि च । “परमात्मा च भगवान् विष्वक्सेनो जनार्द्दनः । तद्भक्तिमान् भागवतो नाल्पपुण्यैर्हि जायते ॥ भगवच्छासनालम्बी भगवच्छासनप्रियः । भगवद्भक्तिमास्थाय वत्स ! भागवतो भव ॥ भगवान् भूतभव्येशो भूतादिप्रभवोऽव्ययः । भावेन तं भजस्वेशं भवभङ्गकरं हरिम् ॥ भजस्व भावेन विभुं भगवन्तं भवेश्वरम् । ततो भागवतो भूत्वा भवबन्धात् प्रमोक्ष्यसि ॥” इत्याद्ये वह्रिपुराणे वैष्णवक्रियायोगे यमानु- शासनो नामाध्यायः ॥ अन्यच्च । “महतां क्षुद्रजन्तूनां सर्व्वेषां जीविनां सदा । स्रष्टा पाता च शास्ता च भगवान् करुणानिधिः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥ षडैश्वर्य्यान्वितः । स च परमेश्वरः । तन्नाम- विशेषस्य सेवनं यथा, —
“अथ श्रीभगवन्नाम सदा सेवेत सर्व्वतः । तन्माहात्म्यञ्च विख्यातं सङ्क्षेपेणात्र लिख्यते ॥ अथ श्रीभगवन्नामविशेषस्य च सेवनम् । ऋषिभिः कृपयादिष्टं तत्तत्कामहतात्मनाम् ॥” अथकामविशेषेण श्रीभगवन्नामविशेषसेवामाहा- त्म्यम् । तत्र पापक्षयार्थं कौर्म्मे । यथा, —
“श्रीशब्दपूर्व्वं जयशब्दपूर्ब्बं जयद्वयादुत्तरतस्तथा हि । त्रिः सप्तकृत्वो नरसिंहनाम जप्तं निहन्यादपि विप्रहत्याम् ॥” महाभयनिवारणार्थं तत्रैव । “श्रीपूर्ब्बो नरसिंहो द्विर्ज्जयादुत्तरतस्तु सः । त्रिःसप्तकृत्वो जप्तस्तु महाभयनिवारणः ॥” कालविशेषे तु मङ्गलार्थं बिष्णुधर्म्मोत्तरे श्रीमार्कण्डेयवज्रसंवादे । “पुरुषं वामदेवञ्च तथा सङ्कर्षणं विभुम् । प्रद्युम्नमनिरुद्धञ्च क्रमादब्देषु कीर्त्तयेत् ॥” अब्दषु संवत्सरादिषु पञ्चसु ॥ “वलभद्रं तथा कृष्णं कीर्त्तयेदयनद्बये । माधवं पुण्डरीकाक्षं तथा वै भोगशायिनम् ॥ पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् । क्रमेण राजशार्द्दूल ! वसन्तादिषु कीर्त्तयेत् ॥ विष्णुञ्च मधुहन्तारं तथा देवं त्रिविक्रमम् । वामनं श्रीधरञ्चैव हृषीकेशं तथैव च ॥ दामोदरं पद्मनाभं केशवञ्च यदूत्तमम् । नारायणं माधवञ्च गोविन्दञ्च तथा क्रमात् ॥ चेत्रादिषु च मासेषु देवदेवमनुस्मरेत् । प्रद्युम्नमनिरुद्धञ्च पक्षयोः कृष्णशुक्लयोः ॥ सर्व्वः शर्व्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । आदित्यादिषु वारेषु क्रमादेवमनुस्मरेत् ॥ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतभृद् भूतकृद् भावो भूतात्मा भूतभावनः ॥ अव्यक्तः पुण्डरीकाक्षो विश्वकर्म्मा शुचिश्रवाः । सम्भवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः ॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । अग्राह्यः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत् ॥ देवदेवस्य नामानि कृत्तिकादिषु यादव ! । ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् ॥ दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् । भूधरं गदिनं देवं शङ्खिनं पट्मिनं तथा ॥ चक्रिणञ्च महाराज ! प्रथमादिषु संस्मरेत् ॥” प्रथमादिषु प्रतिपदादिषु । “सर्व्वं वा सर्व्वदा नाम देवदेवस्य यादव ! ॥ नामानि सर्व्वाणि जनार्द्दनस्य कालश्च सर्व्वः पुरुषप्रवीरः । तस्मात् सदा सर्व्वगतस्य नाम ग्राह्यं यथेष्टं वरदस्य राजन् ! ॥” विविधकामसिद्धये च पुलस्त्योक्तौ । “कामः कामप्रदः कान्तः कामपालस्तथा हरिः । आनन्दो माधवश्चैव कामसंसिद्धये जपेत् ॥ रामः परशुरामश्च नृसिंहो विष्णुरेव च । विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥ विद्यामभ्यस्यता नित्यं जप्तव्यः पुरुषोत्तमः । दामोदरं बन्धगतो नित्यमेव जपेन्नरः ॥ केशवं पुण्डरीकाक्षमनिशं हि तथा जपेत् । तेत्रबाधासु सर्ष्वासु हृषीकेशं भयेषु च ॥ अप्युतञ्चामृतञ्चैव जपेदौषधकर्म्मणि । संग्रामाभिमुखो गच्छन् संस्मरेद पराजितम् ॥ चक्रिणं गदिनञ्चैव शार्ङ्गिणं खड्गिनं तथा । क्षेमार्थी प्रवसन्नित्यं दिक्षु प्राच्यादिषु स्मरेत् ॥ अजितञ्चाधिपञ्चैव सर्व्वं सर्व्वेश्वरं तथा । संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्व्वदा । नारायणं सर्व्वकालं क्षुतप्रस्खलनादिषु । ग्रहनक्षत्रपीडासु देववाधासु सर्व्वतः ॥ दस्युवैरिनिषेधेषु व्याघ्रसिंहादिसङ्कटे । अन्धकारे तमस्तीव्रे नरसिंहमनुस्मरेत् ॥ अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् । गरुडध्वजानुस्मरणाद्विषवीर्य्यं व्यपोहति ॥ स्नाने देवार्च्चने होमे प्रणिपाते प्रदक्षिणे । कीर्त्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥ स्थापने वित्तधान्यादेरपध्याने च दुष्टजे । कुर्व्वीत तन्मना भूत्वा अनन्ताच्युतकीर्त्तनम् ॥ नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम् । वामनं खड्गिनञ्चैव दुष्टस्वप्ने सदा स्मरेत् ॥ महार्णवादौ पर्य्यङ्कशायिनञ्च नरः स्मरेत् । बलभद्रं समृद्ध्यर्थं सर्व्वकर्म्मणि संस्मरेत् ॥ जगत्पतिमपत्यार्थं स्तुवन् भक्त्या न सीदति । श्रीशं सर्व्वाभ्युदयिके कर्म्मण्याशु प्रकीर्त्तयेत् ॥ अरिष्टेषु ह्यशेषेषु विशोकञ्च सदा जपेत् । मरुत्प्रपाताग्निजलबन्धनादिषु मृत्युषु ॥ स्वतन्त्रपरतन्त्रेषु वासुदेवं जपेद्बुधः । सर्व्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ॥ यथाभिरोचते नाम तत् सर्व्वार्थेषु कीर्त्तयेत् । सर्व्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः ॥ सर्व्वाण्येतानि नामानि परस्य ब्रह्मणो हरेः ॥” एवं विष्णुधर्म्मोत्तरे च मार्कण्डेयवज्रसंवादे ॥ किञ्च । “कूर्म्मं वराहं मत्स्यं वा जलप्रतरणे स्मरेत् । भ्राजिष्णुमग्निजनने जपेन्नाम त्वखण्डितम् ॥ गरुडध्वजानुस्मरणादापदो मुच्यते नरः । ज्वरजुष्टशिरोरोगविषवीर्य्यञ्च शाम्यति ॥ बलभद्रन्तु युद्धार्थी कृष्यारम्भे हलायुधम् । उत्तारणं बाणिज्यार्थी राममभ्युदये नृप ! ॥ माङ्गल्यं मङ्गलं विष्णुं माङ्गल्येषु च कीर्त्तयेत् । उत्तिष्ठन् कीर्त्तयेद्विष्णुं प्रस्वपन् माधवं नरः ॥ भोजने चैव गोविन्दं सर्व्वत्र मधुसूदनम् ॥” तत्रैवान्यत्र । “औषधे चिन्तयेद्विष्णुं भोजने च जनार्द्दनम् । शयने पद्मनाभञ्च मैथुने च प्रजापतिम् ॥ संग्रामे चक्रिणं क्रुद्धं स्थानभ्रंशे त्रिविक्रमम् । नारायणं विषोत्सर्गे श्रीधरं प्रियसङ्गमे ॥ जलमध्ये वराहञ्च पावके जलशायिनम् । कानने नरसिंहञ्च पर्व्वते रघुनन्दनम् ॥ दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् । मायासु वामनं देवं सर्व्वकार्य्येषु माधवम् ॥” किञ्च । “कीर्त्तयेद्वासुदेवञ्च अनुक्तेष्वपि यादव ! । कार्य्यारम्भे तथा राजन् ! यथेष्टं नाम कीर्त्त- येत् ॥ सर्व्वाणि नामानि हि तस्य राजन् ! सर्व्वार्थसिद्धौ तु भवन्ति पुंसः । तस्माद्यथेष्टं खलु कृष्णनाम सर्व्वेषु कार्य्येषु जपेत भक्त्या ॥” इति श्रीहरिभक्तिविलासे ११ विलासः ॥ भगवद्वशीकारित्वम् । यथा, महाभारते भग- वद्वाक्यम् । “ऋणमेतत् प्रवृद्धं मे हृदयान्नापसर्पति । यद्गोविन्देति चुक्रोश कृष्णे ! मां दूरवासिनम् ॥” आदिपुराणे श्रीकृष्णार्ज्जुनसंवादे । “गीत्वा तु मम नामानि नर्त्तयेन्मम सन्निधौ । इदं ब्रवीमि ते सत्यं क्रीतोऽहं तेन चार्ज्जुन ! ॥ गीत्वा च मम नामानि रुदन्ति मम सन्निधौ । तेषामहं परिक्रीतो नान्यक्रीतो जनार्द्दनः ॥” एवं श्रुत्वा च मम नामानीत्यादि ॥ विष्णुधर्म्मे प्रह्लादेन । “जितं तेन जितं तेन जितं तेनेति निश्चितम् । जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥” इति तत्रैव ११ विलासः ॥ भगवत्सान्निध्यलक्षणानि यथा । हयशीर्षे । “तस्मिन्नेव मुहूर्त्ते तु हर्षो वा भयमेव च । चक्षुर्भ्रमो विभ्रमो वा त्रासो वा जायते यदि ॥ व्यामोहः परमोहो वा स्तनितं परमं तथा । अशुतानां श्रुतिर्वा स्यात् गात्राणां वाथ वेपथुः ॥” व्यामोहो मौढ्यविशेषः । परमोहो मूर्च्छा । “वैराग्यं नेत्रयोर्वा स्याद्दर्पः कन्दर्प एव वा । परमो विस्मयो वाथ दिव्यो वा श्रूयते ध्वनिः ॥ दिव्यवादित्रघोषो वा गन्धर्व्वनगरस्य वा । दर्शनं जायते काले तस्मिन् सुरगणार्च्चितम् ॥ नरा नार्य्योऽथ दृश्यन्ते गायन्तोऽप्यथ हर्षिताः । नन्दितूर्य्यरवो वापि श्रूयते छन्दसां ध्वनिः ॥ दिव्यगन्धा रसा वापि एकस्यापि भवन्ति हि । लिङ्गैरेतैर्विजानीयात् तत्र सन्निहितं हरिम् ॥ प्रभा चैव विशेषेण ज्वलतीव च दृश्यते । स्फुरन्तीव च दृश्येत प्रतिमा च विशेषतः ॥ स्फुरन्निव जनः कश्चित् स्मयमान इव क्वचित् । वीक्ष्यमाणो जनस्तत्र प्रहृष्ट इव लक्ष्यते ॥ एतैस्तु लक्षणैर्ज्ञेयस्तत्र सन्निहितो हरिः । विशेषादथवा पश्येच्छक्रचापोपमं क्वचित् ॥ छविं वज्रप्रभां पश्येत् पद्मरागप्रभां यथा । सौदामिनीप्रभां पश्येत् प्रतिमायां क्वचिद्यदि ॥ एतैर्लिङ्गैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः । बधिरा इव केचित्तु मूका इव तथापरे । विभ्रान्ता इव केचिच्च जडा इव तथापरे ॥ धावन्त इव केचित्तु पतन्त इव चापरे । नृत्यन्त इव चाप्यन्ये मत्ता इव तथा यदि । चित्रस्था इव केचित्तु विवशा इव केचन । भवन्ति तत्र चोन्मत्ताः प्रमत्ता इव चापरे । लिङ्गैरेतैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥” इति श्रीहरिभक्तिविलासे ३९ विलासः ॥ (शिवः । यथा, महाभारते । १३ । १७ । १२७ । “निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवान् उत्थानः सर्व्व- कर्म्मणाम् ॥”)