वाचस्पत्यम्
भगीरथ || पु० सूर्य्यवंश्ये नृपभेदे “असमञ्जसस्तु तनयो ह्यंशु- मान्नाम विश्रुतः । तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः । येन भागीरथी गङ्गा तपःकृत्वाऽवतारिता” मत्स्यपु० १२ अ० ।
शब्दकल्पद्रुमः
भगीरथः || पुं, (भं ज्योतिष्कमण्डलं गीर्वाङ्मयं तत्र रथ इन्द्रियाणि रथ इवास्य ।)
दिलीपराज- पुत्त्रः । कपिलशापेन भस्मीभूतानामधः पति- तानां पितॄणामुद्धरणायानेन मर्त्त्यलोके गङ्गा आनीता । यथा, मात्स्ये १२ अध्यायः । “असमञ्जसस्तनयो ह्यंशुमान्नाम विश्रुतः । तस्य पुत्त्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥ येन भागीरथी गङ्गा तपः कृत्वावतारिता । भगीरथस्य तनयो नाभाग इति विश्रुतः ॥”