वाचस्पत्यम्
भङ्गि(ङ्गी) || स्त्री भतज्—इन् न्यङ्क्वा० कुत्वम् वा ङीप् । १ वि- च्छेदे २ कोटिल्ये ३ विन्यामे ४ कल्लोले ५ भेदे ६ व्याजे च ।
शब्दकल्पद्रुमः
भङ्गिः || स्त्री (भज्यतेइति । भन्ज + इन् । नङ्क्वादित्वात् कुत्वम् ।)
विच्छेदः । (यथा, रघौ । १३ । ६९ । “यानादवातरदद्रूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥”)
कौटिल्यभेदः । इत्यमरभरतौ ॥ विन्यासः । इति कलिङ्गः ॥ (भङ्गं करोतीति । भन्ज + णिच् + इः ।)
कल्लोलः । इत्यरुणदत्तः ॥ भङ्गः । इत्यन्ये ॥ व्याजः । छलनिभः । इति रभसः ॥