वाचस्पत्यम्
भट || पु० भट—अच् । १ योद्धरि अमरः “तद्भटचातुरीतुरी” नैष० । २ म्लेच्छभेदे हेम० ३ वीरे ४ नीचभेदे ५ रात्रिञ्चरे च मेदि० ६ इन्द्रवारुण्याम् (राखालशशा) स्त्री रत्न० ।
वाचस्पत्यम्
भट || भाषणे भ्वा० पर० सक० सेट् । भटति अभा(भ)टीत् ।
वाचस्पत्यम्
भट || भृतौ कर्ममूल्यग्रहणे भ्वा० पर० सक० मेट् भटति । अभा टीत्—अभटीत् । यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति । भाटं न दद्यात् दाप्योसाऽवरूढस्यापि भाटकम्” वृद्धमनुः ।
शब्दकल्पद्रुमः
भटः || पुं, (भट्यते भ्रियते इति । यद्वा भटतीति । भट + अच् ।)
योद्धा । इत्यमरः । २ । ८ । ६१ ॥ (यथा, भागवते । ८ । १० । ९ । “उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः । केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥” म्लेच्छभेदः । इति हेमचन्द्रः ॥ वीरः । (यथा, नैषधे । १ । १३२ । “पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्य्यते । धिगीदृशन्ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे पतत्त्रिणि ॥”)
पामरविशेषः । इति मेदिनी । टे, २४ ॥ रजनीचरः । इति शब्दरत्नावली ॥ वर्णसङ्कर- विशेषः । यथा, “वर्द्ध्वकाराद्भटो जातो नाटिक्यां वरवाहकः ॥” इति पराशरपद्धतिः ॥
शब्दकल्पद्रुमः
भट || भृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
भृतिरिह पोषणम् । कर्म्ममूल्य- मिति गोविन्दभट्टः । भटति भृत्यं स्वामी । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भट || म भाषणे । इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-सेट् घटादिः ।)
म भटयति । भाषणं कथनम् । इति दुर्गादासः ॥