वाचस्पत्यम्
भाग || पु० भज—भावे घञ् । १ भजने कर्मणि घञ् । २ अशे अमरः इष्टवस्तुनोऽर्द्धे ३ एकदेशे ४ भाग्ये “त्रिंशांशकेस्तथा राशेर्भाग इत्यभिधीयते” इति ज्योतिषोक्ते राशेः ५ त्रिंशांशके च शब्दर० । भगो देवताऽस्य अण् । ६ पूर्वफल्गुनीनक्षत्रे तत्समसख्यायाम् ७ एकादशसंख्यायां ८ भागहारे केन- चित् अङ्केन कस्यचित् भजनरूपे अङ्कशास्त्रोक्ते व्या- पारभेदे ।
शब्दकल्पद्रुमः
भागः || पुं, (भज्यते इति । भज भागसेवयोः + कर्म्मणि घञ् ।)
अंशः । इत्यमरः । २ । ९ । ८९ ॥ रूप्यार्द्धकः । भाग्यम् । एकदेशः । इति शब्द- रत्नावली ॥ राशेस्त्रिंशभागैकभागः । यथा, —
“त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥” इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥ (भज + भावे घञ् । भजनम् । भगानामैश्व- र्य्याणां समूहः इति अण् । ऐश्वर्य्यसमूहः ॥)