वाचस्पत्यम्
भारती || स्त्री भृ—अतच् । स्वार्थे प्रज्ञाद्यण् । १ वाक्ये तदधि- देवतायां २ सरस्वत्यां ३ पक्षिभेदे “भारती संस्कृतप्रायो वाग्व्यापारो नराश्रय” इति सा० ६ पु० अलङ्कारोक्ते ४ वृत्तिभेदे च ५ सन्न्यासिनामुपाधिभेदे च स्त्री ।
शब्दकल्पद्रुमः
भारती || स्त्री (भृ + अतच् । स्त्रियां ङीप् ।)
वचनम् । (यथा, कुमारे । ६ । ७९ । “तमर्थमिव भारत्या सुतया योक्तुमर्हसि ॥”)
सरस्वती । (यथा, कालिदासः । “वीणापुस्तकरञ्जितहस्ते भगवति भारति देवि ! नमस्ते ॥”)
पक्षिभेदः । वृत्तिभेदः । इति मेदिनी । ने, १३८ ॥ यथा, —
“शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती ॥” भारती वृत्तिस्तु भारती संस्कृतप्रायो वाग्- व्यापारो नराश्रयः । इति साहित्यदर्पणस्य ६ परिच्छेदः ॥ ब्राह्मी । इति राजनिर्घण्टः ॥ (शङ्कराचार्य्यशिष्यतोटकस्य शिष्याणामन्य- तमस्य उपाधिविशेषः । यथा, प्राणतोषिण्या- मवधूतप्रकरणे । “विद्याभारेण सम्पूर्णः सर्व्वभारं परित्यजेत् । दुःखभारं न जानाति भारती परिकीर्त्तिता ॥” नदीविशेषः । यथा, महाभारते । ३ । २२१ । २५ । “भारती सुप्रयोगा च कावेरी मुर्म्मुरायथा ॥”)