वाचस्पत्यम्
भाव || पु० भावयति चिन्तयति पदार्थान् चु० मू—अच् । ना- ट्योक्तौ नानापदार्थचिन्तके १ पण्डिते । भावयति ज्ञाप- यति हृदयगतम् भू—णिच्—अच् । २ हृद्गतावस्थावेदके मानसविकारे स्वेदकम्पादौ व्यभिचारिभावे । ३ रत्या- दिभावे मेदि० भू—भावे घञ् । साध्यरूपे सिद्धरूपे वा ४ क्रियारूपे धातोरर्थे । ४ रागे ५ आशये च ६ सत्तायां ७ चेष्टायाम् ८ जन्मनि च अमरः ९ विभूतौ । कर्तरि ण । १० आत्मनि ११ बुधे १२ जन्तौ करणे घञ् । १४ गौरविते १५ अभिनयभेदे त्रिका० । १६ योनौ १७ उपदेशे धरणिः । संसारे भवशब्दार्थे च । ज्यो० उक्ते १९ लग्नादितः तन्वादि द्वादशभावे तच्छब्दे ३८०२ पृ० तदानयनञ्च दृश्यम् । २० स्त्रीणां यौवनकाले सत्त्वभवाष्टाविंशत्यलङ्कारान्तर्गतेऽ- ङ्गजे प्रथमालङ्कारे । यथा “यौवने सत्त्वजास्तासामष्टा- विंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयो- ऽङ्गजाः । तत्र भावः “निर्विकारात्मके चित्ते भावः प्रथमविक्रिया” । जन्मतः प्रभृतिनिर्विकारे मनसि उद्- बुद्धमात्रो विकारो भावः । यथा “स एव सुरभिः कालः स एव मलयानिलः! सैवेयमवला किन्तु मनोऽन्यदिव दृश्यते” सा० द० । भावस्य लक्षणान्तरं यथा “शरीरे- न्द्रियवर्गस्य विकाराणां विधायकाः । मावा विभाव- जनिताश्चित्तवृत्तय ईरिताः पुराणे नाट्यशास्त्रे च द्वयोस्तु रतिभावयोः । समानार्थतया चात्र द्वयमैक्येन लक्ष्यते” । २१ ग्रहाणां द्वादशविधचेष्टाभेदे तदानयनं फलं च ज्यो० त० उक्तं यथा “शयनञ्चोपवेशञ्च नेत्रपाणिः प्रकाशनम् । गमनं गम- नेच्छा च सभायां वसतिस्तथा । आगमनं भोजनञ्च नृत्यलिपसा च कौतुकम् । निदा ग्रहाणां भावाश्च द्वादशैते प्रकीर्त्तिताः” । भावानयनक्रमो यथा “यद्राशौ विद्यते स्वेटस्तेन तं परिपूरयेत् । पुनरंशेन संपूर्य्य स्वर्क्षं तत्र नियोजयेत् । जातदण्डं तथा लग्नमेकीकृत्य सदा बुधैः । रविणा मागहारेण शेषं कार्य्ये नियोजयेत्” । अंशेन लवसंख्यया । स्वर्क्षं ग्रहाणां जन्मनक्षत्रम् । तद्यथा । “विशाखानलतोयानि वैष्णवं भगदैवतं पुष्या पौष्णोयमः सर्पो जन्मभान्यर्कतः क्रमात् । ऋक्षोराशिः । यदा मेषे ग्रहस्तदा १ एकपूरितग्रहसंख्याङ्कः । यदा वृषे ग्रहस्तदा २ द्विपूरितो ग्रहसंख्याङ्कः कार्य्यः । जाया- सुतमृत्युतुङ्गस्वगृहत्रिकोणस्थानस्थितपापग्रहाणां नि- द्राशयनभावयोः फलम् “निद्रायाञ्च यदा पोपो जायास्थाने शुभं वदेत् । यदि पापः शुभैर्दृष्टो नाशुभैश्च कदाचर्न । यदि वा शत्रुगेही स्याच्छयने यदि वेक्षितः । तदा नारीसमं तस्य नाशो भवति निश्चितम् । शुभा- शुभैर्यदा दृष्टः शुभग्रहसमन्विंतः । नारी च म्रि- यते तस्य प्रथमा च विशेषतः । सुतस्थाने स्थितः पापी निद्रायां शयनेऽपि वा । तदां शुभं भवेत्तस्य नात्र कार्य्या विचारणा । तुङ्गस्थाने स्वगृहे बा त्रिकोणे वा यदा भवेत् । अपत्यस्य तदा नाशो जायते नात्र संशयः । शुभग्रहो यदा तत्र क्रूरो वा यदि वेक्षितः । तदा प्रथमापत्यस्य नाशो भवति निश्चितम् । मृत्युस्थाने स्थितः पापो निद्रायां शयनेऽपि वा । तदात्मनोऽपमृत्युः स्याद्राजतीऽपरतीऽपि वा । शुभग्रहो यदा तत्र मृ- त्युस्थानेऽपि संस्थितः । तदा च मरणं तस्य मृत्यु- स्थाने विशेषतः । पापग्रहैर्यदा दृष्टः शुभो वा शत्रु- वीक्षितः । तदा तस्य शिरश्छेदो मुनिना परिकीर्त्तितः । एवं क्रमेण बोद्धव्यं ग्रहभावे सुबुद्धिना । बलाबल- विचारेण जायते च शुभाशुभम् । ज्योतिर्वित्सु च स- र्वेषु परिहारः कृतो मया । शयनादिकभावेषु ज्ञातव्य- श्चोपदेशतः । एकादशे वा दशमालये वा धनालये वा यदि वा विलग्ने । पापेन युक्तो न शुमग्रहश्चेत्तथापि सिद्धिं महतीं वटन्ति” । ग्रहभेदेन दशाभेदे फलं यथा ||“मन्दाग्निः पित्तशूली च जायते शयने नरः १ । उपवेशे भवेच्छिल्पी श्यामवर्णस्तथा नरः २ । नेत्रपाणौ भवेत् क्रूरो जलदोषो भवेन्नरः ३ । पुण्यवान् धार्मि- कश्चैव धनवांश्च प्रकाशने ४ । गमने च रवेर्जातः कृपणो धनसंयुतः । बहुभाषी क्षमी क्रोधी लुब्ध- चित्तः सदा भवेत् ५ । अल्पभोक्ता शीघ्रगामी दीर्घायु- र्नृपवल्लभः । शूरः श्रीमान् सुशीलश्च गमनेच्छाभवो नरः ६ । सभायाश्च रवेर्जातः खलो दाता क्षमी भवेत् । दयालुः पण्डिते धीमान् गुणवान् पण्डित प्रियः ७ । आगमने भवेन्मूर्खः कुरूपो धनवान् भ- वेत् ८ । भोजने भक्षको मांसलुब्धो महावपुर्वली ९ । नृत्यकिपसो सुन्दरो वान्मी पण्डितगृहाधिपः १० । उत्साही च महाभोगी कौतुके च दिवाकरे ११ । दाता भोक्ता प्रियः पुत्रकलत्राणां न संशयः । लिङ्गे देहे करे चैव शुदे रोगी तथैव च । निद्रायाञ्च भवेद्भानोः क्रोधनो रक्तनेत्रकः” १२ । इति रवेः । ||“शयने च विधौ क्रोधी दरिद्रो बहुलम्पटः १ । उपवेशे महारोगी धनवांश्च भवेन्नरः २ । नेत्रपाणौ नेत्ररोगी श्लीपदी बहुभाषकः । क्रूरः खलोऽतिशूरञ्च जायत च विधौ तदा ३ । प्रकाशने निशानाधे धन- वाश्च भवेन्नरः । दक्षो बुद्धिमान् दाता च परदारेषु लम्पटः ४ । अरोगी वित्तहा चैव क्रूरकर्मा धनान्वितः । शिरोरोगी दन्तशूली जायते गमने विधौ ५ । नानामतिर्महाक्रोधी सम्पद्युक्तो भवेन्नरः । गमनेच्छुविधौ जातो धनहीनो भवेत् तदा ६ । दाता च धार्मिकश्चैव राजपात्री भवेत् सदा । सभायाञ्च विधी नित्य जायते पुरुषोत्तमः ७ । नित्यक्रोधी महादुःखी भवेदागमने विधौ ८ । भोजने च भवेल्लुब्धो भक्षकश्च महासुरः ९ । यो जातो नृत्यलिप्सायां गुणवान् धा- र्मिको भवेत् । बहुपुत्रो धनी दाता जायते नात्र संशयः १० । कौतुके च भवेद्रोगी नानाविद्यासु तत्परः । उत्साही च महाक्रोधी जायते च सुनि- सितम् ११ । निद्रायां दद्रुरोगी स्यात् क्लेशपापरुजा- न्वितः । पुत्रशोकमहादुःखी नित्यं भ्रमति मेदि- नीम्” १२ । इति चन्द्रस्य । ||“मयने च कुजे जातो लक्ष्मीवद्बहिरङ्गकः । क्षणक्रोधी महादञ्चः कृपणो जायते नरः १ । उप- वेशे यदा भौमे जायते च नराधमः । धनवान् क्रूरकर्मा च निष्ठुरो कातिवर्जितः २ । भेत्रपाणौ च यो जातोह्यक्षिरोगी भवेन्नरः । पुत्रदारधनै- र्युक्तो दारिद्र्येचैव दह्यते ३ । प्रकाशने कुले जातो धनवान् पण्डितः सुधीः । नारी च प्रियते तस्य प्रथमा च विशेषतः ४ । गमने च यदा जातः प्रवासी नित्य दुःखितः । शरीरे च भवेद्रोगी कण्डादिकुष्ठदद्रुकः ५ । प्रवासी गमनेच्छायां गुदरोगी भवेच्च सः । धनहीनः कुकर्म च जायते क्षितिजस्य च ६ । सभायाञ्च यदा जातो धार्मिको बहुसम्पदा । गुणवाञ्च महादाता शिरी- रोगी भवेद् ध्रुवम्” ७ । कुजस्यागमने नित्यं खञ्चो मवति नान्यथा । कर्णरोगी पित्तशूली जायते च न- राधमः ८ । भोजने भूमिजस्यापि यो जातो मांस- लुब्धकः । वृहत्खायो महाक्रोधी मिथ्योत्साही धना- न्वितः ९ । कुजस्य नृत्यलिप्सायां यो जातो धनवान् भवेत् । दाता भोक्ता सदा मानी राजमात्रो भवेच्च सः १० । कौतुके क्षितिजस्यापि जातो भवति पण्डितः । नानाधनेन संयुक्तो बहुपुत्रो द्विभार्य्यकः ११ । निद्रायां भूमिपुत्रस्य यो जातो मूर्ख एवः सः । कलहो बान्धवैः सार्द्धं शीकक्लेशरुजान्वितः १२” इति मङ्गलस्य । “बुधस्य शयने जातो धनवान् क्षुधितः सदा । अङ्गच्छेदा भवेद्वापि खङ्गो भवति मान्यथा १ । उपवेशे च यो जातः प्रवासी जायते ध्रुवम् । कवितागुणधीयुक्तो मौरवर्णो महाशयः २ । नेत्रपाणौ च यो जातः श्लीपदादिरुजान्वितः । चक्षूरोगी विशेषः स्यात् पुत्र- याशी भवेद्ध्रुवम् ३ । प्रकाशने भवेत्जातो राजपात्री थनान्वितः । नानाधनेव संयुक्तो जायते वेदपारगः ४ । गमये यो नरो जातः प्रवाकी नित्यदुःखितः । शरीरे क्षत- माप्नोति नित्यमृणो भवेच्च सः ५ । यो जातो गमनेच्छायां सम्पटो दुष्टचित्तकः । स्त्रीवशो दुष्टभार्य्यश्च स नरो बहु- भाषकः ६ । समायाश्च बुधे जातो मूर्खो भवति पण्डितः । धनवान् धार्मिकञ्चैव चिररोगी भवेत्तु सः ७ । क्रूरः खलो हतो मूर्खः पापशीमो भवेन्नरः । बुधस्यानकने नित्यं जा- यते च नराधमः ८ । भोजने च भवेत् सौख्यं धनहीनो भवेन्नरः । परद्वेषी प्रवासी च शोथमात्रव्यथान्वितः ९ । यो जातो नृत्यलिप्सायां धनवान् पण्डितः कविः । उद- साहो च महाहृष्टो भुनक्ति सुखमद्भुतम् १० । लौतुके च यदा जातो भवेत् सर्वजनप्रियः । अर्शोरोगी दद्रु- युक्तो धनवानख्यसस्यकः ११ । निद्राव्यञ्च यदा जातः सर्वदास्यैकपात्रताम् । नानाक्लेशभवाप्नोति रोगशीक जमक्षयम्” १२ । इति बुधस्य । “धनवान् लम्पटः श्यामः स्थूलव्रकरुत्यान्वितः । जीवस्य शयने जातो मानवो नात्र सशयः १ । उपवेशे सुरोजातो बहुभाधौ च रोगवान् । पशुधाती महाशिल्पी श्लीप- टीरोगलयुतः २ । नेत्रपाणौ सुरोर्जातः सासरोगी धनी भवेत् । क्षतादिश्चरणे नित्यं जायते मात्र संशयः ३ । गुरोः प्रकाशे धनवान् लिङ्गगुह्ये रुजान्वितः । दक्षो लम्पट- पापी च श्यामवर्णो रुजान्वितः५। सर्पभीतो गूढकर्मा साहसी गमनोन्मुखे। परवित्तेन धनवान् पुमान् भवति वाकपतौ ५ । गुरोश्च गमनेच्छायां जातो भवति मा- नवः । शूली धनी प्रवासी च सवाकर्मणि तत्वरः ६ । वक्त्रा दाता च धनवान् राजसेवान्वितो नरः । शूलरोगी भवेन्नित्यं सभायां वाक्पतो स्थिते ७ । धार्मिकस्तीर्थकृ- श्यानी धनी चागमने गुरोः । परदारेषु संलुब्धो जायत नात्र संशयः । भोजने बहुसौख्याद्यो मांसलुब्धो महा- सुरः । कामुकः प्रियवाक्यश्च जायते नात्र संशयः ९ । नृत्यलिप्सोः शठो वाग्यो धनवान् सात्त्विकस्तथा । मह- दैश्वर्य्यसंयुक्तो जीवस्य च भवेन्नरः १० । कौतुके च गुरो- र्जातो धनवान् धार्मिकः सदा । नृत्योत्साही महत्- सङ्गी भुनक्ति सुखमद्भुतम् ११ निद्रायाञ्चैव यो जातश्चक्षू रोगी भवेच्च सः । कृपणो बहुभाषी च दुःखितो भ्रमते महीम्” १२ । इति गुरोः । ||शुक्रस्य शयने जातो सम्पटो बहुभाषकः । दन्तरोगी महाक्रोधी नीचो भवति नित्यशः १ । उपवेशे तथा जातो बलवान् दाम्भिकः सदा । नित्यप्रवासी रोगी च जायते नीचसंस्थिते २ । नेत्रपाणौ भृगोर्दुःखी रोग- शोकसमन्वितः । धनहीनो महारोगी मानवः स्यान्न- संशयः ३ । मृगोः प्रकाशने जातो विद्याधनसमन्वितः । दाता च धार्मिकश्चैव कीर्त्तिमान् जायते नरः ४ । शुक्रस्य गमने जातः पादमूले रुजान्वितः । नित्योत्साही महाशिल्पी भवेत्तीर्थगतौ रतः ५ । गमनेच्छौ यदा जातो व्यातृनाशो भवेद्ध्रुवम् । माता च म्रियते तस्य शैशवे व्याधिसंयुतः ६ । सभायाञ्च भृगोर्जातो राजपात्री महाधनी । कुलशीलो महादक्षः केवलं शूलरोगवान् ७ । भृगोरागपने जातो दुःखितो बहुलम्पटः । दद्रुरोगी पुत्रशोकी जायते च नराधमः । शुक्रस्य भोजने जातो बलवान् दाम्भिकः सदा । महाधनी भवेन्नित्यं वाणि- ज्येन विशेसतः ९ । यो जातो नृत्यलिप्सायां स वाम्भी जायते ध्रुवम् । पाण्डित्यं कविता चैव वर्द्धते च दिने दिने । सदि चैव भवेन्नोचे मूर्खो भवति निश्चयः । तुङ्गस्थाने विशेषेण राजपात्रो महाधनी । कामुको बहुकान्तश्च परयोषित्प्रियः सदा । महाहृष्टो महा- बन्धुः कौतुकी च भवेत् सदा । बहुपुत्रकमुत्रश्च नाना- सुखसमन्वितः । नीचे तद्विपरीतः स्यात् दुःखशोकसम- न्वितः ११ । निद्रायाञ्च भृगोर्जातो भवेद्रोगी च निश्चि- यम् । नित्यल्केशी महादुःखी जायते नात्र संशयः । जायायाञ्च सुतस्थाने यदि निद्रा भृतोर्भवेत् । तदा सर्वविनाशः स्याद्धिष्णुना परिकीर्त्तितम्” १२ । शुक्रस्य । ||“शयने च शनेर्जातो लम्पटो बहुभाषकः । गुह्य- स्थाने भवेद्रोगी कोषवृद्धिश्च जायते । लम्बात् सप्ता- ष्टमे चैव शयनस्यः शनैश्चरः । तदा नित्यप्रवासी स्या- च्छत्रुक्षयी भवेच्च सः । उपवेशे यदा जातः श्लीपटी- दद्रुसंयुतः । धनहीनो भवेत् तस्य पीडा भवति नि- त्यशः २ । नेत्रपाणौ यदा जातो मूर्खो भवति पण्डितः । धनवान् धार्मिकश्चैव द्विभार्य्यो बहुभाधकः ३ । प्रकाशने च यो जाती राजपात्री भवेच्च सः । नानागुणेन गुण- वान् धार्मिकः पण्डितः शुचिः” “मतान्तरे “जायास्थाने च लग्ने च प्रकाशने यदा शनिः । तदा सर्वविनाशः स्याज्जातिध्वंसो भवेद् ध्रुवम् ४ । गमने च यदा जातः पादमूले रुजान्वितः । तीर्थे च गतिमान्नित्यं पुत्रदारै- विवर्जितः ५ । यो जातो गमनेच्छायां श्लोपदीरोगसं- युतः । दन्ताघाती महाक्रोधी कृपणः परनिन्दकः ६ । समायाञ्च शनौ जातः पुत्रदारधनैर्युतः । भवेत्र लभते वित्तं नानारत्नसमन्वितम्” ७ । आगमने यदा जातो महाक्रोधी रुजान्वितः । सर्पादिभिश्च सदष्टो भ्रातृनाशी भवेद् ध्रुवम् ८ । भोजने चैव यो जाती मन्दाग्निश्च महानपि । अर्शोरोगी तथा शूसी चक्षूरोगी भवेच्च सः । यो जातो नृत्यलिप्सायां नर्त्तको बहुभाषशः जीवने दुःखितश्चैव प्रवासी परिदेवकः १० । कौतुके च शनेर्जातो राजपात्रो महाशयः । दाता भोक्ता महादक्षो धार्मिकः पण्डितः शुचिः ११ । निद्रायास्र शनेर्जातो धनवान् प- ण्डितः शुचिः । चक्षुरोगी पित्तशूली द्विभार्य्यो बहुपु- त्रकः । विशेषतश्च धर्मस्ये कर्मस्ये च कदाचन । यदि दैवाद्भवेन्निद्रा नाशी भवति निखितम् । कर्मनाशो धर्मनाशः क्षुधार्त्तः दुःखितः सदा । नित्यप्रवासी रोगी च कार्य्य- नाशः पदे पदे । स्यमित्रनेहे षष्ठे वा केन्द्रे वा स्वगृहे पुनः । तदा सर्वं विचार्य्यञ्च वैपरीत्येन चिन्तनम् । जायायाञ्च सुतस्थाने यदि निद्रा भवेत् पुनः । तदा सर्वं शुभं विद्याद्विष्णुना परिकीर्त्तितम्” १२ । शनेः । ||“शयने च यदा राहीर्जन्म यस्य षवेत् पुनः । तस्य क्लेशो महादुःखं जायते च न संशयः १ । उपवेशे च यो जातः श्लीपदीरोगसंयुतः । बहुहानिर्नरेन्द्रस्य पीडा भवति नित्यशः २ । नेत्रपाणौ यदा जातलक्षू- रोगी भवेद् ध्रुवम् । सर्पाधातो महागीतिर्द्धितार्य्यो बहुभाषकः ३ । प्रकाशने च यो जातो धनवान् धा- र्मिकः पुनः । नित्यप्रवासी चोत्साही सात्त्विको धा- र्मिकः शुचिः ४ । गमने चैव यो जातो नानारोगै- र्धनक्षयः । दन्ताघाती महाक्रोधी पिशुनः परनिन्दकः ५ । यो जातो गमनेच्छायां बहुपुत्रो महाधनः । पण्डितो गुणवान् दाता जायते ञ्च नरोत्तमः ६ । सभायाञ्च यदा जातः कृपणो धनसंयुतः । नानागुणेन गुणवान् धा- र्मिकः पण्डितः शुचिः ७ । आगमने च यो जातो लम्पटो बहुभाषकः । सुहृद्बन्धुविनाशः स्यान्नानाक्लेशश्च जा- यते ८ । भोजने च महादुष्टो मन्दाग्निश्च रुजान्वितः । कृपणः कटुवाक्यश्च दुःखितो नित्यसेवकः ९ । यो जातो नृत्यलिप्सायां खञ्जो भवति नान्यथा । पुत्रनाशो भ- वेत् तस्य जायानाशो भवेद् ध्रुवम् १० । कौतुके च यदा जातो गुणैः सर्वैः समन्वितः । नानाधनेन धनवान् राजसेवासु तत्परः । यदि दैवाद् भवेत् तुङ्गी स्वगृही वा कदाचन । तदा सर्वं वैपरीत्यं जायते च न संशयः ११ । यो जातो राहुनिद्रायां दुःखितः सर्वत- स्तथा । नानास्थाने गतो वापि धनपुत्रविवर्जितः । जाया- याञ्च सुतस्थाने यातो निद्रां विधुन्तुदः । तदा सर्वं वैप- रीत्यं शतजायासमन्वितः १२ । राहोः एवं केतूनाम् । २२ वैशेविकोक्तेषु द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकेषु षट्सु पदार्थेषु “द्रव्यादयः पञ्च भावा अनेके समवायिनः” भाषा० “तथा हि पदार्थोद्विविधः भावोऽभावश्च । तत्र भावाः षट् सप्तमस्याभावत्वकीर्तनात्” सि० सु० । अभाव एक इति पदार्थाः सप्त । तत्र द्रव्यादिपञ्चकस्य अनेकत्वविशिष्टं भावत्वं लक्षणं समवायस्य भावत्वेऽपि एकत्वात् न तत्र प्रसङ्गः । तत्र च द्रव्यादिषट्कान्यतमत्वम् भावत्वमिति सि० मु० । सत्तासम्बन्धित्वमिति दिनकरप्रकृतयः । सम्बन्धित्वं समवाय सम्बन्धेन तादात्म्येन एकार्धसमवायेन वा बोध्यम् । तेन द्रव्यादित्रिके समवायेन, सत्तायां तादात्म्येन विशेषेषु एकार्थसमवायेन, समवाये स्यात्मकसमवायेन स्वरूपसम्बन्ध विशेषेण सत्तासम्बन्धसत्त्वानाप्रसङ्गः” । “भावो यथा तथाऽभावः कार्य्यवत्कारण सतः” कुसुमा० । भू—चिन्तायाम् करणे अच् । २३ अन्तःकरणे “भावदुष्टो न शुध्यति” आ० त० । २४ तन्त्रोक्ते पश्वाचारादित्रये “भावस्तु त्रिविधा देवि! दिव्यवीरपशुक्रमात् । दिव्यवीरौ महामावौ अधमः पशुभावकः । वैष्णवः पशुमावेन पूजयेत् परमेश्वरम् । शक्तिमन्त्रे वरारोहे! पशुभावो भयानकः । दिव्ये वीरे महेशानि! जायते सिद्धिरुत्तमा” । यास्केन साध्यरूपायाः क्रियाया भावत्वमुक्तं यथा “तद् यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्याते नाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्य्यन्तं, मूर्त्तं सत्त्वभूतं सत्त्वनामभिर्व्रज्या पङ्क्तिरित्यादिभिः सत्त्वाना- मुपदेशो गौरश्वः पुरुषो हस्तीति भवतीति भावस्य, आस्ते शेते व्रजति तिष्ठतीति” । आलङ्कारिकोक्तभावस्य द्विविधता सञ्चारिव्यभिचारिभेदात् तत्तच्छब्दे दृश्यम् । २५ सङ्गीत- सङ्गतपदार्थद्योतकहस्तादिचेष्टाभेदे च । “यस्य च क्रियया क्रियान्तरं लक्ष्यते स भावः” इति व्याकरणपरिभाषिते २५ पदार्थे च तत्र च सप्तमीत्याकरे स्थितम् । भवतीति भू—कर्त्तरि ण । २७ उत्पत्तियुते षड्विकारयुते च पदार्थे भावविकारशब्दे दृश्यम् । २८ सांख्यमतसिद्धेषु धर्माधर्मादिषु बुद्धिधर्मेषु “संसरति निरुपभोगं भावैरधि- वासितं लिङ्गम्” सा० का० । “भावैरधिवासितं धर्माधर्मज्ञाना- ज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्प्याणि भावास्तदन्विता बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवा- सितं यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितं भवति तस्माद्भावैरेवाधिवासितत्वात् संसरति” तत्त्वकौ० । तेषां करणाश्रितत्वं कार्य्याश्रितत्वञ्च दर्शितं यथा “सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्य्याश्रयिणश्च कललाद्याः” सा- का० “वैकृतिकानैमित्तिकाः प्राकृतिकाः, स्याभाविकाः सांसिद्धिकाः भावाः यथा सर्गादावादिविद्वान् भयवान् कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रादुर्बभूवेति स्मरन्ति । वैकृतिकाश्च भावाः असांसिद्धिकाः उपायानु ष्ठानोत्पन्नाः यथा प्राचेतसप्रभृतीनां महर्षीणाम् । एव- मधर्माज्ञानावैराग्यानैश्वर्य्याण्यपि । कार्य्यं शरीरं तदा- श्रयिणस्तस्यावस्याः कललबुद्बुदमांसपेशीकरण्डाङ्गप्रत्यङ्ग- व्यूहाः गर्भस्थस्य, ततो निर्गतस्य बालस्य बाल्यकौमारयौ- वनयार्द्धकातीति” त० कौ० । २९ तत्तत्पदार्थासाधारणे धर्म च “भावे त्वतलौ” पा० । भावशब्देनासाधारधर्म उच्यते । स च तदितरावृत्तित्वे यावत्तद्वृत्तिधर्मः यथा गोत्वमित्यादौ भावार्थकत्वप्रत्ययेन गवेतरावृत्तित्वे सति सकलगोव्यक्तिवृत्तिधर्मो बोध्यते ।
शब्दकल्पद्रुमः
भावः || पुं, (भावयति चिन्तयति पदार्थानिति । भू + णिच् + पचाद्यच् । भवतीति । भू + “भव- तेश्चेति वक्तव्यम् ।” इति काशिकोक्तेर्णो वा ।)
नाट्योक्तौ विद्वान् । मानसविकारः । सत्ता । (यथा, श्रीमद्भगवद्गीतायाम् । २ । १६ । “नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥”)
स्वभावः । अभिप्रायः । (यथा, रामायणे । २ । २ । १९ । “तस्य धर्म्मार्थविदुषो भावमाज्ञाय सर्व्वशः । ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह ॥”)
चेष्टा । आत्मा । जन्म । इत्यमरः । ३ । ३ । २०६ ॥ (चित्तम् । यथा, मनुः । ४ । २२७ । “दानधर्म्मं निषेवेत नित्यमैष्टिकपौर्त्तिकम् । परितुष्टेन भावेन पात्रमासाद्य भक्तितः ॥”)
क्रिया । लीला । पदार्थः । (यथा, रघुः । ३ । ४१ । “अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥”)
विभूतिः । बुधः । जन्तुः । रत्यादिः । इति मेदिनी । वे, २१ ॥ गौरवितः । अभिनयान्तरम् । इति त्रिकाण्डशेषः ॥ (विषयः । यथा, हितोपदेशे । “अवश्यम्भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥” पर्य्यालोचना । यथा मनुः । ६ । ८० । “यदा भावेन भवति सर्व्वभावेषु निस्पृहः । तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥” प्रेम । यथा, गीतायाम् । १० । ८ । “इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥”)
धात्वर्थः । (यथा, सुग्धबोधे वोपदेवः । “देशाध्वकालभावं वाटैः ।” क्रियान्तरापेक्षि- क्रियाविशिष्टः तत्र सप्तमी विहिता तथा च मुग्धबोधटीकायां रामतर्कवागीशः । “यस्य क्रियया क्रियान्तरमपेक्ष्यते स इह भावः ॥”)
योनिः । उपदेशः । इति धरणिः ॥ संसारः । इत्यनेकार्थकोषः ॥ नवग्रहाणां शयनादिद्बादश- चेष्टाः । यथा, —
“शयनञ्चोपदेशश्च नेत्रपाणिः प्रकाशनम् । गमनं गमनेच्छा च सभायां वसतिस्तथा ॥ आगमनं भोजनञ्च नृत्यलिप्सा च कौतुकम् । निद्रा ग्रहाणां भावाश्च द्वादशैते प्रकीर्त्तिताः ॥” भावानयनक्रमो यथा, —
“यद्राशौ विद्यते खेटस्तेन तं परिपूरयेत् । पुनरंशेन संपूर्य्य स्वर्क्षं तत्र नियोजयेत् ॥ जातदण्डं तथा लग्नमेकीक्वत्य सदा बुधैः । रविणा भागहारेण शेषं कार्य्ये नियोजयेत् ॥ अंशेन नवसंख्यया । खर्क्षं ग्रहाणां जन्म- नक्षत्रम् । तद्यथा, —
“विशाखानलतोयानि वैष्णवं भगदैवतम् । पुष्या पौष्णोयमः सर्पो जन्मभान्यर्कतः क्रमात् ॥” ऋक्षो राशिः । यदा मेषे ग्रहस्तदा १ एक- पूरितग्रहसंख्याङ्कः । यदा वृषे ग्रहस्तदा २ द्विपूरितो ग्रहसंख्याङ्कः कार्य्यः ॥ * ॥
जाया- सुतमृत्युतुङ्गस्वगृहत्रिकोणस्थानस्थितपापग्रहाणां निद्राशयनभावयोः फलम् । “निद्रायाञ्च यदा पापो जायास्थाने शुभं वदेत् । यदि पापः शुभैर्दृष्टो नाशुभैश्च कदाचन ॥ यदि वा शत्रुगेही स्याच्छयने यदि वेक्षितः । तदा नारीसमं तस्य नाशो भवति निश्चितम् ॥ शुभाशुभैर्यदा दृष्टः शुभग्रहसमन्वितः । नारी च म्रियते तस्य प्रथमा च विशेषतः ॥ सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा । तदाशुभं भवेत्तस्य नात्र कार्य्या विचारणा ॥ तुङ्गस्थाने स्वगृहे वा त्रिकोणे वा यदा भवेत् । अपत्यस्य तदा नाशो जायते नात्र संशयः ॥ शुभग्रहो यदा तत्र क्रूरो वा यदि वेक्षितः । तदा प्रथमापत्यस्य नाशो भवति निश्चितम् ॥ मृत्युस्थाने स्थितः पापो निद्रायां शयनेऽपि वा । तदात्मनोऽपमृत्युः स्याद्राजतोऽपरतोऽपि वा ॥ शुभग्रहो यदा तत्र मृत्युस्थानेऽपि संस्थितः । तदा च मरणं तस्य मृत्युस्थाने विशेषतः ॥ पापग्रहैर्यदा दृष्टः शुभो वा शत्रुवीक्षितः । तदा तस्य शिरश्छेदो मुनिना परिकीर्त्तितः ॥ एवं क्रमेण बोद्धव्यं ग्रहभावे सुबुद्धिना । बलाबलविचारेण जायते च शुभाशुभम् ॥ ज्योतिर्वित्सु च सर्व्वेषु परिहारः कृतो मया । शयनादिकभावेषु ज्ञातव्यञ्चोपदेशतः ॥ एकादशे वा दशमालये वा धनालये वा यदि वा विलग्ने । पापेन युक्तो न शुभग्रहश्चे- त्तथापि सिद्धिं महतीं वदन्ति ॥” फलं यथा, —
“मन्दाग्निः पित्तशूली च जायते शयने नरः । १ । उपवेशे भवेच्छिल्पी श्यामवर्णस्तथा नरः ॥ २ ॥ नेत्रपाणौ भवेत् क्रूरो जलदोषो भवेन्नरः । ३ । पुण्यवान् धार्म्मिकश्चैव धनवांश्च प्रकाशने ॥ ४ ॥ गमने च रवेर्जातः कृपणो धनसंयुतः । बहुभाषी क्षमी क्रोधी लुब्धचित्तः सदा भवेत् ॥ ५ ॥ अल्पभोक्ता शीघ्रगामी दीर्घायुर्नृपवल्लभः । शूरः श्रीमान् सुशीलश्च गमनेच्छाभवो नरः ॥ ६ ॥ सभायाञ्च रवेर्जातः खलो दाता क्षमी भवेत् । दयालुः पण्डितो धीमान् गुणवान् पण्डित- प्रियः ॥ ७ ॥ आगमने भवेन्मूर्खः कुरूपो धनवान् भवेत् । ८ । भोजने भक्षको मांसलुब्धो महावपुर्बली ॥ ९ ॥ नृत्यलिप्सौ सुन्दरो वाग्मी पण्डितस्य गृहा- धिपः । १० । उत्साही च महाभोगी कोतुके च दिवाकरे ॥ ११ ॥ दाता भोक्ता प्रियः पुत्त्रकलत्राणां न संशयः । लिङ्गे देहे करे चैव गुदे रोगी तथैव च । निद्रायाञ्च भवेद्भानोः क्रोधनो रक्तनेत्रकः ॥ १२ ॥ इति रवेस्तुङ्गातुङ्गे बलाबले वा बोध्यम् ॥ * ॥
“शयने च विधौ क्रोधी दरिद्रो बहुलम्पटः । १ । उपवेशे महारोगी धनवांश्च भवेन्नरः ॥ २ ॥ नेत्रपाणौ नेत्ररोगी श्लीपदी बहुभाषकः । क्रूरः खलोऽतिशूरश्च जायते च विधौ तदा ॥ ३ ॥ प्रकाशने निशानाथे धनवांश्च भवेन्नरः । दक्षो बुद्धिमान् दाता च परदारेषु लम्पटः ॥ ४ ॥ अरोगी वित्तहा चैव क्रूरकर्म्मा धनान्वितः । शिरोरोगी दन्तशूली जायते गमने विधौ ॥ ५ ॥ नानामतिर्महाक्रोधी सम्पदी च भवेन्नरः । गमनेच्छुविधौ जातो धनहीनो भवेत्तदा ॥ ६ ॥ दाता च धार्म्मिकश्चैव राजपात्रो भवेत् सदा । सभायाञ्च विधौ नित्यं जायते पुरुषोत्तमः ॥ ७ ॥ नित्यक्रोधी महादुःखी भवेदागमने विधौ । ८ । भोजने च भवेल्लुब्धो भक्षकश्च महासुरः ॥ ९ ॥ यो जातो नृत्यलिप्सायां गुणवान् धार्म्मिको भवेत् । बहुपात्रो घनी दाता जायते नात्र संशयः ॥ १० ॥ कौतुके च भवेद्रोगी नानाविद्यासु तत्परः । उत्साही च महाक्रोधी जायते च सुनिश्चि- तम् ॥ ११ ॥ निद्रायां दद्रुरोगी स्यात् क्लेशपापरुजान्वितः । पुत्त्रशोकमहादुःखी नित्यं भ्रमति मेदिनीम् ॥ १२ इति चन्द्रस्य ॥ * ॥
शयने च कुजे जातो लक्ष्मीबहुकुरङ्गकः । क्षणक्रोधी महादक्षः कृपणो जायते नरः ॥ १ ॥ उपवेशे यदा भौमे जायते च नराधमः । धनवान् क्रूरकर्म्मा च निष्ठुरो जातिवर्ज्जितः ॥ २ ॥ नेत्रपाणौ च यो जातः अक्षिरोगी भवेन्नरः । पुत्त्रदारधनैर्युक्तो दारिद्र्येणैव दह्यते ॥ ३ ॥ प्रकाशने कुजे जातो धनवान् पण्डितः सुधीः । नारी च म्रियते तस्य प्रथमा च विशेषतः ॥ ४ ॥ गमने च यदा जातः प्रवासी नित्यदुःखितः । शरीरे च भवेद्रोगः कण्ड्वादिकुष्ठदद्रुकः ॥ ५ ॥ प्रवासी गमनेच्छायां गुदरोगी भवेच्च सः । धनहीनः कुकर्म्मा च जायते क्षितिजस्य च ॥ ६ सभायाञ्च यदा जातो धार्म्मिको बहुसम्पदः । गुणवांश्च महादाता शिरोरोगी भवेद्धुवम् ॥ ७ कुजस्यागमने नित्यं खञ्जो भवति नान्यथा । कर्णरोगी पित्तशूली जायते च नराधमः ॥ ८ ॥ भोजने भूमिजस्यापि यो जातो मांसलुब्धकः । बृहत्कायो महाक्रोधी नित्योत्साही धना- न्वितः ॥ ९ ॥ कुजस्य नृत्यलिप्सायां यो जातो धनवान् भवेत् । दाता भोक्ता सदा मानी राजपात्रो भवेच्च सः ॥ १० ॥ कौतुके क्षितिजस्यापि जातो भवति पण्डितः । नानाधनेन संयुक्तो बहुपुत्त्रो द्विभार्य्यकः ॥ ११ ॥ निद्रायां भूमिपुत्त्रस्य यो जातो भूर्ख एव सः । कलहो बान्धवैः सार्द्धं शोकक्लेशरुजान्वितः ॥ १२ इति मङ्गलस्य ॥ “बुधस्य शयने जातो धनवान् क्षुधितः सदा । अङ्गच्छेदो भवेद्वापि खञ्जो भवति नान्यथा ॥ १ ॥ उपवेशे च यो जातः प्रवासी जायते ध्रुवम् । कवितागुणधीयुक्तो गौरवर्णो महाशयः ॥ २ ॥ नेत्रपाणौ च यो जातः श्लीपदादिरुजान्वितः । चक्षूरोगी विशेषात् स्यात् पुत्त्रनाशी भवेद्- ध्रुवम् ॥ ३ ॥ प्रकाशने भवेज्जातो राजपात्री धनान्वितः । नानाधनेन संयुक्तो जायते वेदपारगः ॥ ४ ॥ गमने यो नरो जातः प्रवासी नित्यदुःखितः शरीरे क्षतमाप्नोति नित्यमृणी भवेच्च सः ॥ ५ ॥ यो जातो गमनेच्छायां लम्पटो दुष्टचित्तकः । स्त्रीवशो दुष्टभार्य्यश्च कामुको बहुभाषकः ॥ ६ ॥ सभायाञ्च बुधे जातो मूर्खो भवति पण्डितः । धनवान् धार्म्मिकश्चैव चिररोगी भवेत्तु सः ॥ ७ ॥ क्रूरः खलो हतमूर्खः पापशीलो भवेन्नरः । बुधस्यागमने नित्यं जायते च नराधमः ॥ ८ ॥ भोजने च भवेत् सौख्य धनहीनो भवेन्नरः । परद्बेषी प्रवासी च शोषगात्रव्यथान्वितः ॥ ९ ॥ यो जातो नृत्यलिप्सायां धनवान् पण्डितः कविः । उत्साही च महाहृष्टो भुनक्ति सुख- मद्भुतम् ॥ १० ॥ कौतुके च यदा जातो भवेत् सर्व्वजनप्रियः । अर्शोरोगी दद्रुयुक्तो धनवानल्प शस्यकः ॥ ११ ॥ निद्रायाञ्च यदा जातः सर्व्वदुःखैकपात्रताम् । नानाक्लेशमवाप्नोति रोगशोकयमक्षयम् ॥ १२ ॥” इति बुधस्य ॥ * ॥
“धनवान् लम्पटः श्यामः स्थूलो व्रणरुजान्वितः । जीवस्य शयने जातो मानवो नात्र संशयः ॥ १ ॥ उपवेशे गुरोर्जातो बहुभाषी च रोगवान् । पशुघाती महाशिल्पी श्लीपदी रोगसंयुतः ॥ २ ॥ नेत्रपाणौ गुरोर्जातः काशरोगी धनी भवेत् । क्षतादिश्चरणे नित्यं जायते नात्र संशयः ॥ ३ ॥ गुरोः प्रकाशे धनवान् लिङ्गगुह्ये रुजान्वितः । दक्षो लम्पटपापी च श्यामवर्णो रुजान्वितः ॥ ४ ॥ सर्पभीतो गूढकर्म्मा साहसी गमनोन्मुखे । परवित्तेन धनवान् पुमान् भवति वाक्पतौ ॥ ५ ॥ गुरोश्च गमनेच्छायां जातो भवति मानवः । शूली धनी प्रवासी च सेवाकर्म्मणि तत्परः ॥ ६ ॥ बक्ता दाता च धनवान् राजसेवान्वितो नरः । शूलरोगी भवेन्नित्यं सभायां वाक्पतौ स्थिते ॥ ७ ॥ धार्म्मिकस्तीर्थविन्मानी धनी चागमने गुरोः । परदारेषु संलुब्धो जायते नात्र संशयः ॥ ८ ॥ भोजने बहुसौख्याढ्यो मांसलुब्धो महासुरः । कामुकः प्रियवाक्यश्च जायते नात्र संशयः ॥ ९ ॥ नृत्यलिप्से शठो वाग्मी धनवान् सात्विकस्तथा । महदैश्वर्य्यसंयुक्तो जीवस्य च भवेन्नरः ॥ १० ॥ कौतुके च गुरोर्जातो धनवान् धार्म्मिकः सदा । नृत्योत्साही महत्सङ्गो भुनक्ति सुखमद्- भुतम् ॥ ११ ॥ निद्रायाञ्चैव यो जातश्चक्षूरोगी भवेच्च सः । कृपणो बहुभाषी च दुःखितो भ्रमते महीम् ॥ ११ ॥” इति गुरोः ॥ * ॥
“शुक्रस्य शयने जातो लम्पटो बहुभाषकः । दन्तरोगी महाक्रोधी नीचो भवति नित्यशः ॥ १ ॥ उपवेगे तथा जातो बलवान् दाम्भिकः सदा । नित्यप्रवासी रोगी च जायते नीचसंस्थिते ॥ २ ॥ नेत्रपाणौ भृगोर्दुःखी रोगशोकसमन्वितः । धनहीनो महारोगी मानवः स्यान्न संशयः ॥ ३ ॥ भृगोः प्रकाशने जातो विद्याधनसमन्वितः । दाता च धार्म्मिकश्चैव कोर्त्तिमान् जायते नरः ॥ ४ ॥ शुक्रम्य गमने जातः पादमूले रुजान्वितः । नित्योत्साही महाशिल्पी भवेत्तीर्थगतौ रतः ॥ ५ ॥ गमनेच्छौ यदा जातो भ्रातृनाशो भवेद्ध्रुवम् । माता च म्रियते तस्य शैशवे व्याधिसंयुतः ॥ ६ ॥ सभायाञ्च भृगोर्जातो राजपात्रो महाधनी । कुलशीली महादक्षः केवलं शूलरोगवान् ॥ ७ ॥ भृगोरागमने जातो दुःखितो बहुलम्पटः । दद्रुरोगी पुत्त्रशोकी जायते च नराधमः ॥ ८ ॥ शुक्रस्य भोजने जातो बलवान् दाम्भिकः सदा । महाधनी भवेन्नित्यं बाणिज्येन विशेषतः ॥ ९ ॥ यो जातो नृत्यलिप्सायां स वाग्मी जायते ध्रुवम् । पाण्डित्यं कविता चैव वर्द्धते च दिने दिने ॥ यदि चैव भवेन्नीचे मूर्खो भवति निश्चितम् । तुङ्गस्थाने विशेषेण राजपात्रो महाधनी ॥ कामुको बहुकान्तश्च परयोषित्प्रियः सदा । श्यामवर्णस्तथा मानी याज्ञिको बहुभा- षकः ॥ १० ॥ शुक्रस्य कौतुके जातो धनवान् सात्विकः सदा । महाहृष्टो महावन्धुः कौतुकी च भवेत् सदा ॥ बहुपुत्त्रकलत्रश्च नानासुखसमन्वितः । नीचे तद्विपरीतः स्यात् दुःखशोकसम- न्वितः ॥ ११ ॥ निद्रायाञ्च भृगोर्जातो भवेद्रोगी स निश्चितम् । नित्यक्लेशी महादुःखी जायते नात्र संशयः ॥ जायायाञ्च सुतस्थाने यति निद्रा भृगोर्भवेत् । तदा सर्व्वविनाशः स्याद्विष्णुना परिकी- र्त्तितः ॥ १२ ॥” इति शुक्रस्य ॥ * ॥
“शयने च शनेर्जातो लम्पटो बहुभाषकः । गुह्यस्थाने भवेद्रोगी कोषवृद्धिश्च जायते ॥ लग्नात् सप्ताष्टमे चैव शयनस्थः शनैश्चरः । तदा नित्यप्रवासी स्याच्छत्रुक्षयी भवेच्च सः ॥ १ ॥ उपवेशे यदा जातः श्लीपदी दद्रुसंयुतः । धनहीनो भवेत्तस्य पीडा भवति नित्यशः ॥ २ ॥ नेत्रपाणौ यदा जातो मूर्खो भवति पण्डितः । धनवान् धार्म्मिकश्चैव द्विभार्य्यो बहुभाषकः ॥ ३ ॥ प्रकाशने च यो जातो राजपात्रो भवेच्च सः । नानागुणेन गुणवान् धार्म्मिकः पण्डितः शुचिः ॥” मतान्तरे । जायास्थाने च लग्ने च प्रकाशने यदा शनिः । तदा सर्व्वविनाशः स्याज्जातिध्वंसो भवेद् ध्रुवम् ॥ ४ ॥ गमने च यदा जातः पादमूले रुजान्वितः । तीर्थे च गतिमान्नित्यं पुत्त्रदारैर्विवर्ज्जितः ॥ ५ ॥ यो जातो गमनेच्छायां श्लीपदी रोगसंयुतः । दन्ताघाती महाक्रोधी कृपणः परनिन्दकः ॥ ६ ॥ सभायाञ्च शनेर्जातः पुत्त्रदारधनैर्युतः । सर्व्वत्र लभते वित्तं नानारत्नसमन्वितम् ॥ ७ ॥ आगमने यदा जातो महाक्रोधी रुजान्वितः । सर्पादिभिश्च संदष्टो भ्रातृनाशी भवेद्ध्रुवम् ॥ ८ ॥ भोजने चैव यो जातो मन्दाग्निश्च महानपि । अर्शोरोगी तथा शूली चक्षूरोगी भवेच्च सः ॥ ९ ॥ यो जातो नृत्यलिप्सायां नर्त्तको बहुभाषकः । जीवतो दुःखितश्चैव प्रवासी परसेवकः ॥ १० ॥ कौतुके च शनेर्जातो राजपुत्त्रो महाशयः । दाता भोक्ता महादक्षो धार्म्मिकः पण्डितः शुचिः ॥ ११ ॥ निद्रायाञ्च शनेर्जातो धनवान् पण्डितः शुचिः । चक्षूरोगी पित्तशूली द्विभार्य्या बहुपुत्त्रकः ॥ विशेषतश्च धर्म्मस्थे कर्म्मस्थे च कदाचन । यदि दैवाद्भवेन्निद्रा नाशो भवति निश्चितम् ॥ कर्म्मनाशो धर्म्मनाशः क्षुधार्त्तो दुःखितः सदा । नित्यप्रवासी रोगी च कार्य्यनाशः पदे पदे ॥ स्वमित्रगेहे षष्ठे वा केन्द्रे वा स्वगृहे पुनः । तदा सर्व्वं विचार्य्यञ्च वैपरीत्येन चिन्तनम् ॥ जायायाञ्च सुतस्याने यदि निद्रा भवेत् पुनः । तदा सर्व्वं शुभं विद्याद्विष्णुना परि- कीर्त्तितम् ॥ १२ ॥ इति शनेः ॥ * ॥
शयने च यदा राहोर्जन्म यस्य भवेत् पुनः । तस्य क्लेशो महादुःखं जायते च न संशयः ॥ १ ॥ उपवेशे च यो जातः श्लीपदी रोगसंयुतः । बहुहानिर्नरेन्द्रस्य पीडा भवति नित्यशः ॥ २ ॥ नेत्रपाणौ यदा जातश्चक्षूरोगी भवेद्ध्रुवम् । सर्पाघातो महाभीतिर्द्बिभार्य्यो बहुभाषकः ॥ ३ ॥ प्रकाशने च यो जातो धनवान् धार्म्मिकः पुनः । नित्यप्रवासी चोत्साही सात्त्विको धार्म्मिकः शुचिः ॥ ४ ॥ गमने चैव यो जातो नानारोगैर्धनक्षयः । दन्ताघाती महाक्रोधी पिशुनः परनिन्दकः ॥ ५ ॥ यो जातो गमनेच्छायां बहुपुत्त्रो महाधनः । पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ ६ ॥ सभायाञ्च यदा जातः कृपणो धनसंयुतः । नानागुणेन गुणवान् धार्म्मिकः पण्डितः शुचिः ॥ ७ ॥ आगमने च यो जातो लम्पटो बहुभाषकः । सुहृद्बन्धुविनाशः स्यान्नानाक्लेशश्च जायते ॥ ८ ॥ भोजने च महादुष्टो मन्दाग्निश्च रुजान्वितः । कृपणः कलहाढ्यश्च दुःखितो नित्यसेवकः ॥ ९ ॥ यो जातो नृत्यलिप्सायां खञ्जो भवति नान्यथा । पुत्त्रनाशो भवेत्तस्य जायानाशो भवेद्ध्रुवम् ॥ १० ॥ कौतुके च यदा जातो गुणैः सर्व्वैः समन्वितः । नानाधनेन् धनवान् राजसेवासु तत्परः ॥ यदि दैवाद्भवेत्तुङ्गी स्वगृही वा कदाचन । तदा सर्व्वं वैपरीत्यं जायते च न संशयः ॥ ११ ॥ यो जातो राहुनिद्रायां दुःखितः सर्व्वतस्तथा । नानास्थाने गतो वापि धनपुत्त्रविवर्ज्जितः ॥ जायायाञ्च सुतस्थाने यदि निद्रां विधुन्तुदः । तदा सर्व्वं वैपरीत्यं शतजायासमन्वितः ॥ १२ ॥ नानाशास्त्रं समालोक्य क्रियते ग्रन्थसंग्रहः । बलाबलविचारेण युक्त्या सञ्चिन्तयेद्बुधः ॥” इति ग्रहाणां शयनादिद्बादशभावविवेकः समाप्तः ॥ इति जातरत्नः कोष्ठीप्रदीपश्च ॥ अथ तन्वादिद्वादशभावाः । ते च नराणां जन्मलग्नावधिकद्बादशस्थानानि । यथा, —
“सामर्थ्यं तनु कल्यते समुदये वित्तं कुटुम्बं ततो विक्रान्तिं सहजं तृतीयभवने योधञ्च सञ्चि- न्तयेत् । बन्धुं वाह्यसुखालयानपि ततो धीमन्त्रपुत्त्रांस्ततः षष्ठेऽथ क्षतविद्विषौ मदगृहे कामं स्त्रियं वर्त्म च ॥ रन्ध्रायुर्मृतयोऽष्टमे गुरुतपो भाग्यानि चित्तन्ततो मानाज्ञास्पदकर्म्मणां दशमभे कुर्य्यात्ततश्चिन्त- नम् । प्राप्त्यायावथ चिन्तयेद्भवगृहे ऋप्फे तु मन्त्रि- व्ययौ सौम्यस्वामियुतीक्षणैरुपचयस्तेषां क्षतिस्त्वन्यथा ॥ इति द्वादशभावविवेकः ॥ अरातिव्रणयोः षष्ठे चाष्टमे मृत्युरन्ध्रयोः । अयस्य द्वादशस्थाने वैपरीत्येन चिन्तनम् ॥” अरात्यादिभावापवादः ॥ अथ तन्वादिद्वादशभावस्थग्रहफलम् । “लग्ने सूर्य्येऽक्षिरोगी शशिनि बलयुतो रूप- वान् वित्तयुक्तो भौमे व्यङ्गः सुवाग्मी शशधरतनये सर्व्व- शास्त्रार्थवेत्ता । जीवे दाता पवित्रः सुकविरथ गते भार्गवे मण्डलेशः शौरौ कण्डूतिगात्रस्तमसि च नियतं वञ्चितो धर्म्महीनः ॥ १ ॥ वित्तेऽर्के चैव रोगी सततगदयुतो रात्रिनाथे घनाढ्यो भौमे नित्यं प्रवासी कृषिसुतधनवान् सोमपुत्त्रे प्रधानः । जीवे लक्ष्मीप्रमोदी विलसति भृगुजे दर्पितः स्त्रीनिकेतः सौरौ दीनोऽति नित्यं तमसि च नियतं चौरि- कावित्तिजीवी ॥ २ ॥ भ्रातर्य्यर्के सधर्म्मः स भवति नियतं भ्रातृहा रात्रिनाथे हिस्रो भौमेऽनुजानां सपदि वधकरो भूमिका- वृत्तिजीवी । सौम्ये सत्यस्य हन्ता भवति सुरगुरौ कामदेव- स्वरूपः शुक्रे राज्याधिकारी रविजदनुजयोर्भ्रातृहन्ता धनाढ्यः ॥ ३ ॥ अर्के बन्धौ सुदुःखी स्वजनपरिवृतः शीतगौ जानुरोगी भौमे कुग्रामवासी भवति शशिसुते भ्रातृपुत्त्रा- न्बितोऽपि । जीवे रत्नोपभोगी त्रिदशरिपुगुरौ सर्व्वसोख्या- धिकारी सौरौ गेहे निवासी भवति शशिरिपौ मन्द- कर्म्मा कुचेलः ॥ ४ ॥ पुत्त्रस्थेऽर्के नरोऽसौ प्रथमसुतहतः सिंहराशौ सुपुत्त्रः स्रोमे सर्व्वाधिकारी भवति धरणिजे पुत्त्रशोका- कुलोऽसौ । सौम्ये सुस्थः सुदेहः प्रचुरधनयुतो देवपूज्ये सुपुत्त्रः कन्यायुक्तो हि शुक्रे रविजदनुजयोः पुत्त्रपौत्त्रै- र्विहीनः ॥ ५ ॥ षष्ठेऽर्के शत्रुहन्ता रिपुगणरहितः क्षीणचन्द्रे गतायुः पूर्णे शत्रुञ्च हन्याद्भवति धरणिजे हीनदेहो- ऽतिदीनः । सौम्ये शास्त्रार्थयुक्तस्त्रिदशपतिगुरौ राज्य- सौख्योपभोगी दैत्याचार्य्येऽतिरोगी रविजदनुजयोः पापभुङ्- नित्यदुःखी ॥ ६ ॥ पत्न्यामर्के च जायापतिरतिविमुखी शीतरश्मौ सुपुत्त्रः सुस्थो भूयान्नरोऽसौ भवति धरणिजे हीन- भार्य्यश्च नूनम् । सौम्ये सुस्थः सुदेहस्त्रिदशपतिगुरौ शास्त्रवेत्ता शतायुः । शुक्रे पुत्त्रप्रमोदी रविजदनुजयोर्हीनभार्य्यश्च नूनम् ॥ ७ ॥ मृत्यौ चार्के समृत्युर्भवति च नियतं शीतरश्मौ गतायु- र्भूमेः पुत्त्रे सुरोगी शशधरतनये शूलरोगी विकर्म्मा । जीवे तीर्थे च मृत्युर्भवति भृगुसुते धार्म्मिक- स्तीर्थगोऽसौ सौरौ शूली गतायुर्भवति विधुरिपौ वेदमुक्तो गतायुः ॥ ८ ॥ धर्म्मे चार्के नरोऽसौ विविधधनयुतः शीतगौ पुण्यकर्म्मा लक्ष्मीवान् पुण्यचेता भवति धरणिजे देव- वित्तापहारी । सौम्पे धर्म्म्यः मुशीलस्त्रिदशपतिगुरौ राज- तुल्यः सुकर्म्मा शुक्रे तीर्थानुरागी रविजदनुजयोः पापशीलः सुदुःखी ॥ ९ ॥ कर्म्मण्यर्के प्रतापी प्रचुरधनयुतः श्लीपदी क्रोधदृष्टिः सोमे श्लेष्मान्वितोऽसौ विविधधनयुतो भूमिजे बन्धुहीनः । नित्योत्साही च सौम्ये प्रचुरधनयुतो देव- पूज्यऽभिमानी दिव्यस्त्रीशोऽपि शुक्रे नृपतिसमधनः सौरिदैत्ये सुखी च ॥ १० ॥ आये चार्के नरोऽसौ पितृधनसहितः शीतगौ चारुशीलो भौमे नित्यं स रोगी शशधरतनये सर्व्वदा क्रोधयुक्तः । जीवे श्रीमान् प्रदाता करितुरगपतिर्भार्गवे शास्त्रविज्ञः छत्री रत्नादियुक्तो रविजदनुजयोः क्रूरकर्म्मा कुचेलः ॥ ११ ॥ अर्के संस्थे व्ययेऽसौ पुरधनरहितः सर्व्वरोगी सुदुःखी सोमे खेदान्वितोऽसौ भवति धरणिजे द्यूतरक्तो विबुद्धिः । सौम्ये धर्म्मार्थकारी दिनकररहिते देवपूज्ये- ऽभिमानी शुक्रे शास्त्रानुरागी रविजदनुजयोः क्रूरकर्म्मा कुचेलः ॥ १२ ॥ इति ज्योतिस्तत्त्वम् ॥ * ॥
स्त्रीणां यौवनकाले स्वभावजाष्टाविंशत्यलङ्का- रान्तर्गताङ्गजप्रथमालङ्कारः । यथा, —
“यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥” तत्र भावः । “निर्व्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥” जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः । यथा, —
“स एव सुरभिः कालः स एव मलयानिलः । सैवेयमवला किन्तु मनोऽन्यदिव दृश्यते ॥” इति साहित्यदर्पणे तृतीयपरिच्छेदः ॥ * ॥
भावस्य लक्षणान्तरं यथा, —
“शरीरेन्द्रियवर्गस्य विकाराणां विधायकाः । भावा विभावजनिताश्चित्तवृत्तय ईरिताः ॥ पुराणे नाट्यशास्त्रे च द्वयोस्तु रतिभावयोः । समानार्थतया चात्र द्बयमैक्येन लक्ष्यते ॥” * ॥
पूर्ब्बोक्तमानसविकाररूपभावस्य विवरणं यथा, रजःसत्त्वतमोमयश्चित्तविकारो भावः । चित्त- वृत्तिविशेषो भाव इत्यन्ये । अतएव मनो- विकारो रत्यादिर्भाव उक्तः । भावयति जनयति रसान् भावः अन् । तथा च भरतः । “नानाभिनयसम्बन्धान् भावयन्ति रसानिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाटकोक्तिषु ॥” भावाश्च त्रिविधाः स्थायिनो व्यभिचारिणः सात्त्विकाश्च । तत्र स्थायिनो यथा, —
“रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयन्तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्त्तिताः ॥ व्यभिचारिणी यथा, —
“निर्व्वेदग्लानिशङ्काख्यास्तथासूयामदम्रमाः । आलस्यञ्चैव दैन्यञ्च चिन्ता मोहो धृतिः स्मृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्व्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ स्वप्नो विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः प्रयान्ति रससंस्थितम् ॥” सात्त्विका यथा, —
“स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मता इति ॥ रत्यादयः स्थायिनोऽष्टौ निर्व्वेदाद्या व्यभि- चारिणस्त्रयस्त्रिंशत् स्वेदादयः सात्त्विका अष्टौ चेति ऊनपञ्चाशद्भावाः पञ्चाशद्भावा इत्यन्ये । इत्यमरटीकायां भरतः ॥ (प्रधानव्यभिचारिप्रभृतयो भावशब्देनोच्यन्ते । यदुक्तं साहित्यदर्पणे तृतीयपरिच्छेदे । “सञ्चारिणः प्रधानानि देवादिविषया रतिः । उद्बुद्धमात्रः स्यायी च भाव इत्यभिधीयते ॥”)
भगवद्भावो यथा, —
“शुद्धसत्त्वविशेषात्मा प्रेमसूर्य्यांशुसाम्यभाक् । रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥” इति भक्तिरसामृतसिन्धुः ॥ * ॥