वाचस्पत्यम्
भावुक || न० भू—उकञ् । १ मङ्गले २ तद्वति त्रि० अमरः । ३ भावनायुते त्रि० हेमच० । “मुहुरहो रसिका भुवि भावुकाः” इति भाग० १ । १ । ३ ।
शब्दकल्पद्रुमः
भावुकं || क्ली (भवतीति । भू + “लषपतपदस्थाभू- वृषेति ।” ३ । २ । १५४ । इति उकञ् ।)
मङ्गलम् । (यथा, प्रद्युम्नविजये १ अङ्के । “शक्र ! सर्व्वत्र कुशलमस्माकम् । अपि भावुकं वः सुराणाम् ॥”)
तद्बति, त्रि । इत्यमरः । १ । ४ । २६ ॥
शब्दकल्पद्रुमः
भावुकः || त्रि भवनाश्रयः । भवति यः । इति कर्त्तरि भूधातोर्ञुकप्रत्ययेन निष्पन्नः ॥ रसविशेष- भावनाचतुरः । इति श्रीधरस्वामी ॥ यथा, —
“निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं सुहुरहो रसिका भुवि भावुकाः ॥” इति श्रीभागवते । १ । १ । ३ ॥ लग्नपलितप्रियान्धस्थूलसुभगाढ्यशब्दोपपदभू- धातोरभूततद्भावार्थे कर्त्तरि वाच्ये खुकञ्- प्रत्ययेन लग्नम्भावुक इत्यादयश्च निष्पन्नाः ॥
शब्दकल्पद्रुमः
भावुकः || पुं, (भू + उकञ् ।)
नाट्योक्तौ भगिनी- पतिः । इति हेमचन्द्रः ॥