वाचस्पत्यम्
भाव्य || न० भू—आवश्यके भावे ण्यत् । १ अवश्यभवितव्ये । भू- कर्त्तरि यत् भव्य स्वार्थे अण् । २ भव्यशब्दार्थे “भावीत्य- वश्यं यत् भाव्यं तत्र ब्रह्मा न बाधकः” कालि० पु० ३८ अ०
शब्दकल्पद्रुमः
भाव्यं || क्ली अवश्यभवितव्यम् । इति भूधातो- रवश्यम्भावार्थे भावे ध्यण्प्रत्ययेन निष्पन्नम् । यथा । विप्रेण शुचिना भाव्यम् । इति मुन्ध- बोधव्याकरणम् ॥ प्रयोगदर्शनात् कर्त्तरि च तत्र त्रि । यथा, —
“कृतस्य करणं नास्ति दैवाधिष्ठितकर्म्मणः । भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यवाधकः ॥” इति कालिकापुराणे ३८ अध्यायः ॥