वाचस्पत्यम्
भाषा || स्त्री भाष—अ । १ वाक्ये २ संख्यतादिवाक्ये च “अष्टादश- भाषावारविलासिनीभुजङ्गः” इति सा० द० । भाषाभेदाञ्च प्राकृतशब्दे ४५४९ पृ० दर्शिताः । व्यवहारे ३ प्रतिज्ञा- सूचकवाक्ये "यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” इति स्मृतिः । पूर्बपक्षशब्दे ४४०६ पृ० दृश्यम् । ४ रागिणी- भेदे हला० ।
शब्दकल्पद्रुमः
भाषा || स्त्री (भाष्यते शास्त्रव्यवहारादिना प्रयु- ज्यते इति । भाष् + “मुरोश्च हलः ।” ३ । ३ । १०२ । इत्यप्रत्ययः । टाप् ।)
रागिणीविशेषः । इति हलायुधः ॥ वाक्यम् । वाग्देवता । तत्- पर्य्यायः । ब्राह्मी २ भारती ३ गीः ४ वाक् ५ वाणी ६ सरस्वती ७ व्याहारः ८ उक्तिः ९ लपितम् १० भाषितम् ११ वचनम् १२ वचः १३ । इत्यमरः । १ । ६ । १ ॥ त्रयोदश वचने । पूर्ब्बसप्तकं वागधिकृतायां देवतायाञ्च । इति तट्टीकायां भरतः ॥ शास्त्रीयाष्टादशभाषा यथा । संस्कृतम् १ प्राकृता २ उदीची ३ महाराष्ट्री ४ मागधी ५ मिश्रार्द्धमागधी ६ शकाभीरी ७ श्रवन्ती ८ द्राविडी ९ ओड्रीया १० पाश्चात्या ११ प्राच्या १२ वाह्लीका १३ रन्तिका १४ दाक्षिणात्या १५ पैशाची १६ आवन्ती १७ शौरसेनी १८ । एतासां लक्षणोदाहरणानि प्राकृतलङ्केश्वर- व्याकरणे द्रष्टव्यानि ॥ अथ भाषाविभागः । “पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम् । शौरसेनी प्रयोक्तव्या तादृशीबाञ्च योषिताम् ॥ आसामेव तु गाथान्तु महाराष्ट्रीं प्रयोजयेत्। अत्रोक्ता मागधी भाषा राजान्तःपुरचारि- णाम् ॥ चेटानां राजपुत्त्राणां श्रेष्ठिनाञ्चार्द्धमागधी । प्राच्या विदूषकादीनां धूर्त्तानां स्यादवन्तिका ॥ योधनागरिकादीनां दाक्षिणात्याहि दीव्यताम् । शकाराणां शकादीनां शाकारीं संप्रयोजयेत् ॥ वाह्लीकभाषा दिव्यानां द्राविडी द्रविडादिषु । आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ॥ आभीरी शावरी चापि काष्ठपत्रोपजीविषु । तथैवाङ्गारकारादौ पैशाची स्यात् पिशाच- वाक् । चेटीनामप्यनीचानामपि स्यात् शौरसेनिका ॥ बालानां षण्डकानाञ्च नीचग्रहविचारिणाम् । उन्मत्तानामातुराणां सैव स्यात् संस्कृतं क्वचित् ॥ ऐश्वर्य्येण प्रमत्तस्य दारिद्र्योपस्कृतस्य च । भिक्षुबल्कधरादीनां प्राकृतं संप्रयोजयेत् ॥ संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च । देवीमल्लिसुतावेश्याष्वपि कैश्चित्तथोदितम् ॥ यद्देशो नीचपात्रस्तु तद्देशे तस्य भाषितम् । कार्य्यतश्चोत्तमादीनां कार्य्यो भाषाविपर्य्ययः ॥ योषित्सखीबालवेश्याकितवाप्सरसां तथा । वैदग्ध्यार्थं प्रदातव्यं संस्कृतञ्चान्तरान्तरा ॥ एषामुदाहरणान्याकारेषु बोद्धव्यानि । भाषा- लक्षणानि भाषार्णवे । इति साहित्यदर्पणे ६ परिच्छेदः ॥ अथ भाषापादः । तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती । “प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥ स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥ यदा त्वेवंविधः पक्षः कथितः पूर्ब्बवादिना । दद्यात्तत्पक्षसम्बद्धं प्रतिवादी तदोत्तरम् ॥ प्रतिज्ञा साध्याभिधायिका वाक् । तस्या दोषैः परस्परविरुद्धार्थपदादिभिस्त्यक्तं साध्यं साधना- र्हाभिमतं पक्षं विदुः । अन्यथा प्रतिज्ञादोषेण साध्यदोषः स्यात् । अतएवोक्तम् । “वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता । असङ्करेण वक्तव्ये व्यवहारेषु वादिभिः ॥” वक्तव्ये पक्षप्रतिज्ञे पूर्ब्बोक्ते । नारदेनापि । “सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥” उत्तरो विजयी । यद्यप्यन्यत्र साध्यं तद्- विशिष्टधर्म्माधर्म्मी पक्ष इति भेदः तथाप्यत्र बाक्प्रतार्य्यर्णादिघर्म्मविशेषविशिष्टतया धर्म्मि- णोऽधमर्णपदैरेव साध्यत्वात् साध्यपक्षयोरभेदा- भिधानम् । उपसंहारे च एवंविधः पक्ष इति । मिताक्षरायान्तु । भाषा प्रतिज्ञा पक्ष इति नार्थान्तरमित्युक्तम् । भाषार्थमुक्त्वा भाषास्वरूप- प्रपञ्चमाह । स्वल्पाक्षर इति । निराकुलः पौर्व्वापर्य्यविपर्य्यासादिशून्यः । तत्र । “द्यूते च व्यवहारे च प्रवृत्ते यज्ञकर्म्मणि । यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति ॥” इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा शोधयेत् ॥ * ॥
तच्छोधनमाह बृहस्पतिः । “न्यूनाधिकं पूर्ब्बपक्षं तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” तल्लिखनप्रकारमाह व्यासः । “पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् । न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत्” फलकं काष्ठादिपट्टकम् । कात्यायनः । “पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् । पाण्डुलेखेन फलके ततः पत्रेऽभिलेखयेत् ॥ शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनम् । उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥ अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनां वचः । चौरवच्छासयेत्तन्तु धार्म्मिकः पृथिवीपतिः ॥” स्वभावोक्तमकृत्रिमम् । एतच्च स्वरविशेषादिना सुज्ञेयम् । अतएव याज्ञवल्क्यः । “छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥” भूतं तत्त्वार्थसम्बन्धम् । नारदः । “भूतं तत्त्वार्थसम्बन्धं प्रमादाभिहितं छलम् । किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता ॥ मनुष्यचित्तवैचित्र्यात् परीक्षा साध्वसाधु वा । सर्व्वेष्वर्थविवादेषु वाक्छलेनावसीदति ॥ पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥” सर्व्वेष्वर्थविवादेषु प्रमादाभिधानेऽपि नावसी- दति । अत्रोदाहरणं पशुस्त्रीत्यादि । अर्थ- विवादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतार्थादप्यर्थाद्वीयत इति गम्यते । यथाह- मनेन शिरसि पादेन ताडितः इत्यभिधाय केवलं हस्तेन ताडितः इति वदन्न केवलं दण्ड्यः पराजीयते च । ततश्च त्वं मह्यमृणं धारयसि मत्त ऋणत्वेन गृहीततावद्धनकत्वादिति भाषा- शरीरम् । एतच्च संस्कृतदेशभाषान्यतरेण यथा- बोधं वक्तव्यं लेख्यं वा । मूर्खाणामपि वादिप्रति- वादितादर्शनात् । अतएवाध्यापनेऽपि तथोक्तं विष्णुधर्म्मोत्तरे । “संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥ इति व्यवहारतत्त्वम् ॥