वाचस्पत्यम्
भीरु || त्रि० भी—क्रु । १ मयशीले अमरः । २ शतावर्य्यां स्त्री ध- रणिः । ३ कण्टकार्य्यां ४ शतपादिकायां शब्दर० । ५ छायायां ६ योषिति ७ अजायां स्त्री मेदि० । ८ शृगाले पु० शब्दमा० । ९ व्याघ्रे राजनि० १० इक्षुभेदे रत्नमा० ।
शब्दकल्पद्रुमः
भीरुः || त्रि (बिभेतीति । भी भये + “भियः क्रुक्लुकनौ ।” ३ । २ । १७४ । इति क्रुः ।)
भय- शीलः । (यथा, मनौ । ७ । ६२ । “तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । शुचीनाकरकर्म्मान्ते भीरूनन्तर्निवेशने ॥”)
तत्पर्य्यायः । त्रस्नुः २ भीरुकः ३ भीलुकः ४ । इत्यमरः । ३ । १ । २६ ॥ भीलुः ५ । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
भीरुः || पुं, (बिभेतीति । भी + क्रुः ।)
शृगालः । इति शब्दमाला ॥ व्याघ्रः । इति राजनिर्घण्टः ॥ इक्षुभेदः । इति रत्नमाला ॥ अस्य गुणाः । श्लेष्मकारित्वम् । स्वादुत्वम् । अविदाहित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥
शब्दकल्पद्रुमः
भीरुः || स्त्री (बिभेतीति । भी + “भियः क्रुक्लुकनौ ।” ३ । २ । १७४ । इति क्रुः ।)
भयशीला स्त्री । भयप्रकृतिका । इत्यमरभरतौ ॥ (यथा, विष्णु- पुराणे । १ । १५ । ३३ । “सत्यं भीरु ! वदस्येतत् परिहासोऽथवा शुभे ! । दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥”)
शतावरी । इति धरणिः, अमरश्च ॥ (यथा, —
“बहुपुत्त्री वरा भीरुः शतमूली शतावरी । महापुरुषदन्ता च पीवरीन्दीवरी वरी ॥” इति वैद्यकरत्नमालायाम् ॥)
कण्टकारी । इति शब्दचन्द्रिका ॥ शतपादिका । इति शब्दरत्नावली ॥ अजा । छाया । स्त्री । इति राजनिर्घण्टः ॥