वाचस्पत्यम्
भुवन || न० भवत्यत्र भू—आधारादौ क्युन् । १ जगति २ जने ३ आ- काशे ४ चतुर्दशसंख्यायाम् । ५ जले च मदि० । भुवनानि च चतुर्दश यथा “चतुर्दशविधं ह्येतद्भूतवृन्दं प्रकीर्त्तितम् । भूर्भुवःखर्महश्चैव जनश्च तप एव च । सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः” “अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् । महातलं रमातलं पातालं सप्तमं स्मृतम् । रुक्मभौमं शिलाभौमं पातालं नील- मृत्तिकम् । रक्तपीतश्वेतकृष्णभौभानि च भवन्त्यपि । पातालानाञ्च सप्तानां लीकानाञ्च यदन्तरम् । शुषिरं तानि कथ्यन्ते भुवनानि चतुर्दश” वह्निपु०
शब्दकल्पद्रुमः
भुवनं || क्ली (भवन्त्यस्मिन् भूतानीति । भू + “भूसू- धूभ्रस्जिभ्यश्छन्दसि ।” उणा० २ । ८० । इत्यत्र बहुलवचनाद्भाषायामपि प्रयुज्यते ।” इत्युज्ज्वल- दत्तोक्त्या क्युन् ।)
जगत् । (यथा, भट्टिः । १ । १ । “गुणैर्व्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥”)
सलिलम् । गगनम् । जनः । इति मेदिनी । ने, १०२ ॥ चतुर्द्दशभुवनानि यथा, —
“चतुर्द्दशविधं ह्येतद् भूतसर्गं प्रकीर्त्तितम् । भूर्भुवः स्वर्महश्चैव जनश्च तप एव च ॥ सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः । जम्बूः शाकः कुशः क्रौञ्चः शाल्मलो मेदपुष्करः । सप्तद्वीपाः प्रधानानि ह्युपद्वीपैस्तु संयुताः ॥ लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः । सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् । चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताः स्मृताः ॥ उत्तराः कुरवो रम्यं वर्षं हैमवतं तथा । भद्राश्वं केतुमालञ्च तथा वषमिलावृतम् ॥ भारतं हरिवर्षञ्च तथा किंपुरुषावृतम् । एतान्यष्टौ तु वर्षाणि पुण्यानि कथितानि तु ॥ इन्द्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् । नागवीथी तथा सौम्यो गन्धर्व्वो वारुणस्तथा ॥ सागराख्यस्तु नवमो भेदभारतवार्षिकः । इदन्तु भारतं वर्षं कर्म्मभूमिरिति स्मृतम् ॥ शेषाणि द्वीपवर्षाणि भोगस्थानानि सन्त्यपि । भागीरथी पावनी च ह्रदिनी ह्रादिनी तथा ॥ सीता वंक्षुश्च सिन्धुश्च सप्त गङ्गाः प्रकीर्त्तिताः । सुप्रभा काञ्चनी चैव विशाला सुमनोह्रदाः ॥ सरस्वत्योघनादा च सुवेणुर्विमलोदका । एता गङ्गास्तु विख्याताः सप्त पुण्यप्रदाः शुभाः ॥ हिमवान् हेमकूटश्च निषधो नीलपर्व्वतः । श्वेतश्च शृङ्गवान्मेरुर्माल्यवान् गन्धमादनः ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ॥ लोकालोको महांस्तेषु तथैवोत्तरमानसः । एते विंशतिर्विख्याताः पर्व्वतास्तस्थुषां वराः ॥ अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि ॥ पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् । शुषिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥” इति वह्निपुराणम् ॥ (भूतजातम् । यथा, ऋग्वेदे । १ । १५७ । ५ । “युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवने- ष्वन्तः ।” तथा च वाजसनेयसंहितायाम् । ९ । ५ । “यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्म्म साविषत् ॥” * ॥
भावनम् । यथा, ऋग्वेदे । १० । ८८ । १ । “तस्य भर्म्मणे भुवनाय देवा धर्म्मणे कं स्यधया पप्रथन्त ॥” * ॥
पुं, मुनिविशेषः । यथा, महा- भारते । १३ । २६ । ८ । “नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ॥”)