वाचस्पत्यम्
भूगोल || पु० भूगोल इव । गोलाकारे मण्डले “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू० सि० । तत्स्थानभेदस्तन्मानादिकं च सि० शि० उक्तं यथा “मूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षा- वृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजेमयोऽयम् । नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं समन्तात् । सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः । कद- म्बकुसुमग्रन्थिः केसरप्रसरैरिव । मूर्तो धर्त्ता चेद्धरि- त्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्च मूर्त्तिः? । यथोष्णताऽर्कानलयोश्च, शीतता विधौ, द्रुतिः के, काठिनत्वमश्मनि । मरुच्चलो भूरचला स्वभावतो यतो विचित्रा वत वस्तुशक्तयः । आकृष्टिशक्तिश्च मही- तया यत् स्वस्थं गुरु स्वाभिमुखं स्वशक्त्या । आकृ- ष्यत तत् पततीव भाति समे समन्तात् क्व पतत्वियं खे । भपञ्चरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः । खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः । द्वौ द्वौ रवीन्दू भगणौ च तद्वदेका- न्तरौ तावदयं व्रजेताम् । यदब्रुवन्नेवमनम्बराद्या- ब्रुवीम्यतस्तान् प्रति युक्तयुक्तिम् । भूः खेऽधः खलु यातीति बुद्धिवौद्धीमुधा कथम् । यातायातं तु दृष्ट्वापि खे यत् क्षिप्तं गुरु क्षितिम् । किं गण्यं तव वैगुण्यं द्वैगुण्यं या वृथा कथा । भार्केन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिभ्रमम् । यदि समा मुकुरोदरसन्निभा भगवती धरणी तरणिः क्षितेः । उपरिदूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते । यदि निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिण भागके । ममो यतः स्यात् परिधेः शतांशः पृथ्वी च पृथ्वी, नितरां तनीयान् । नरश्च, तत्पृष्ठगतस्य कृत्स्वा समेव तस्य प्रतिभात्यतः सा । पुरान्तरं चेदि- दमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम् । चक्रां- शकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् । निरक्षदेशात् क्षितिषोडशांशे भवदबन्ती गणितेन य- स्मात् । तदन्तर षाडशसगुणं स्याद् भूमानमस्माद् बहु किं तदुक्तम् । शृङ्गीन्नतिग्रहयुतिग्रहणोदयास्तच्छा- यादिकं परिधिना घटतेऽमुना हि । नान्येन तेन जगु रुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण । लङ्का कुमध्ये यमकोटिरस्याः प्राक्, पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये बडवानलश्च । कुवृत्तपादान्तरितानि तानि स्थानानि षड् गोलविदी वदन्ति । वसन्ति मेरौ सुरसिद्धसङ्घा और्बे च सर्वे नरकाः सदैत्याः । यो यत्र तिष्ठत्यवनीं तलस्था मात्मानमस्या उपरिस्थित च । स मन्यतेऽतः कुचतुर्थसंस्थामिथश्च ते तिर्थ्यगिवामनन्ति । अधःशिरस्काः कुदलान्तरस्थाश्छाया- मनुष्या इव नीरतीरे । अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वर्यं यथात्र । भूमेरर्धं क्षारसिन्धो रुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्याः । अर्धेऽन्य- स्मिन् द्वीपषट्कस्य याम्य क्षारक्षीराद्यम्बुधीनां नि- वेशः । लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृत- रश्मिः श्रीश्च यस्माद्बभूव । महितचरणपद्मः पद्म- जन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र । दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः । स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपु- टानि । चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । दिव्यानि व्यरमणी रमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकावभासैः । शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेष्टकपु- ष्करे च । द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वींपसुदाह- रन्ति । लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽत तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः । एवं सिद्धादुदगपि पुराच्छृङ्गङ्गवच्छुक्लनीला वर्षाण्येषां जयरिह बुधा अन्तरे द्रोणिदेशान् । भारतवर्षमिदं ह्यदग- स्मात् किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्मात् विद्धि हिरणमयरम्यकवर्षे । माल्यवांश्च यम- कोष्टिपत्तनाद्रोमकाच्च किल गन्धमादनः । नीलशैलनि- षधावधी च तावन्तारालमनयोरिलावृतम् । माल्यव- ज्जलधिमध्यवर्त्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः । गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः । निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमाव्रतमाबभौ । अ- मरकेद्भिकुषायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम् । इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रि- दशालयः । द्रुहिणजन्मकुपद्मजकर्णिकेति च पुराण- विदोऽभुमवर्णयन् । विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्व । तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः । जम्बूफलाम- लगलद्रसतः प्रवृत्ता जम्बूनदीरसयुता मृदभूत् सुवर्णम् । जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्य- मृतपानपराङ्मुखास्तम् । वनं तथा चैत्ररथं विचित्रं तेष्वप्सरोनन्दननन्दनं च । धृत्याह्वयं यद्धृति- कृत् सुराणां भ्राजिष्णु बैभ्राजमिति प्रसिद्धम् । सरांस्यथैतेष्वरुणं च मानसं महाह्रदं श्वेतजलं यथा- क्रमम् । सरःसु रामारमणश्रमालसाः सुरा रमन्ते ज- लकेलिलालसाः । सद्रत्नकाञ्चनमयं शिखरत्नयं च मेरौ मुरारिकपुरारिपुराणि तेषु । तेषामधः शतमखज्वल- नान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ । विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्धाऽस्मात् । विष्कम्भाचलमस्तकशस्तसरःसङ्गता गता वियता । सी- ताख्या भद्राश्वं, सालकनन्दा च भारतं वर्षम् । ब- ङ्क्षुश्च केतुमालं, भद्राख्या चोत्तरान् कुरून् याता । याऽऽकर्णिताभिलषिता दृष्टा स्पृष्टावगाहिता पीता । उक्ता स्मृता स्तुता वा पुनाति बहुधा पापिनः पुरुषान् । यां चलितो दलिताखिलबन्धो गच्छति बल्गति तत् पितृसङ्गः । प्राप्ततटे विजितान्तकदूतो याति नरे निरयात् सुरलोकम् । ऐन्द्रं कशेरुशकलं किल ताम्र- पर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम् । नागं च सौ- म्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्ष- मध्ये । वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यज- जना निवसन्ति सर्वे । माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः सह्यः मविन्ध्य इह सप्त कुलाचलाख्याः । भूर्लोकाख्यो द- क्षिणे व्यक्षदेशात् तस्मात् सौम्योऽय भुवः, स्वश्च मेरुः । लभ्यः पुण्येः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्वै- स्तपः सत्यमन्त्यः । लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्धं यमकोटिपुर्य्याम् । अधस्तदा सिद्धपुरेऽस्त- कासः खाद्रोमके रात्रिदल तदैव । यत्रोदितोऽर्कः किल तत्र पूर्वा, ततापरा यत्र गतः प्रतिष्ठाम् । तन्मत्- तोऽन्ये च ततोऽखिलानामुदक्स्थितो मेरुरिति प्रसिद्धम् । यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यमकोटिरेष । ततश्च पश्चान्न भवेदवन्ती लङ्कैव तस्याः ककुभि प्रतीप्याम् । तथैव सर्वत्र यतो हि यत् स्यात् प्राणां ततस्तन्न भवेत् प्रतीच्याम् । निरक्षदे- शादितरत्न तस्मात् प्राचीप्रतीच्यौ च विचित्रसंस्थे । निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षि- णोत्तरौ । तदाश्रितं खेजलयन्त्रवत् तथा भ्रमद्भचक्र निजमस्तकोपरि । उदग्दिशं याति यथा यथा नर- स्तथा तथा स्यान्नतमृक्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः । योजन- संख्याभांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः । भूमौ कक्षायां वार्वागेभ्यो योजनानि च व्यस्तम् । सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोर्द्धेः सव्यापसब्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम् । प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय ४९६७ स्तद्व्यासः कुभुजङ्गसायकभुवः १५९१ सिद्धांशकेनाधिकः १०२४ पृष्ठे क्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५२० ३४ भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेः प्रस्फु- टम् । दुष्टं कन्दुकपृष्ठजालवदिलागाले फलं जल्पितं लल्लेनास्य शतांशकोऽपि न मवेद्यस्मात् फलं वास्तवम् । तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा ह्यस्तु वा हे प्रौढा! गणका विचारयत तन्मध्यस्थबुद्ध्या भृशम् । यत् परिध्यर्धविष्कम्भं वृत्तं कृत्तं किलांशुकम् । तेनार्धश्छाद्यते गोलः किञ्चिद्वस्त्रेऽवशिष्यते । गोलक्षेत्रफलात् त- स्माद्वस्त्रक्षेत्रफलं यतः । सार्धद्विगुणितासन्नं तावदेवा- परे दले । एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु । नाधिकं जायते तेन परिधिघ्नं कुतः कृतम् । वृत्तक्षेत्र- फलं यस्मात् परिधिध्नं न युक्तिमत् । दुष्टत्वाद् गणि- तस्यास्य दुष्टं भूपृष्ठजं फलम् । गोलस्य परिधिः कल्प्यो वेदघ्नज्यामितेर्मितः । मुखबुध्नगरेखाभिर्यद्वदाम- लके स्थिताः । दृश्यन्ते वप्रकास्तद्वत् प्रागुक्तपरिधेर्मि- तान् । ऊर्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत् । तत्वैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते । सर्वज्यैक्यं तिभज्यार्धहीनं त्रिज्यार्धभाजितम् । एवं वप्रफलं तत् स्याद् गोलव्याससमं यतः । परिधिव्यासघाती- ऽतो गोलपृष्ठफलं स्मृतम् । वृत्तक्षेत्रे परिधिगुणित प्यासपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम् । गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनि- म्नतम् षड्भिर्भक्तं भवति नियतं गोलगर्भे धनाख्यम्” । पुराणसर्वस्ये विष्णुपु० अन्यथोक्तं यथा “जम्बुप्लक्ष ह्वयौ द्वीपौ शालमलिश्चापरी द्विज! । कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः । एते द्वीपा स- मुद्रैस्तु सप्त सप्तभिरावृताः । वणेक्षुसुरासर्पिर्दधि- दुग्धजलैः समः । जम्बूद्वीपः समस्तानामेतेर्पा मध्यमे स्थितः । तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः । पतु- रशीतिसाहस्रो योजनैरस्य चोच्छ्रयः । प्रविष्टः षोडशा- धस्तात् द्वात्रिंशन्मूर्ध्नि विस्तृतः । मूले षोडशसाहस्रो विस्तारस्तस्य भूभृतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकासं स्थितिः स्थितः । हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः । लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्रद्वि- तयोच्छ्रायास्तावद्विस्तारिणश्च ते । भारतं प्रथमं वर्ष ततः किंपुरषं स्मृतम् । हविवर्षं तथैवान्यं मेरो- र्दक्षिणतो द्विजः । रम्यकञ्चोत्तरं वर्षं तथैवानु हिरण्- मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा । नवसाहस्रमेकैकमेतेषां द्विजसत्तम! । इलावृतञ्च तन्मध्ये सौवर्णो मेरुच्छ्रितः । मेरोश्चतुर्दिशं तत्र नवसाहस्र- विस्तृतम् । इलावृतं महाभाग! चत्वार उपपर्वताः । विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण म- न्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्मृतः । कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च । एकादश शतायामाः पादपा गिरिकेतवः । जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने! । महा- गजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः । रसेन तेषां प्र- ख्याता तत्र जम्बूनदीति वै । सरित् प्रवर्त्तते सा च पी- यते तन्निवासिभिः । न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्लमः । तत्पानसुस्थमनसां जनानां तत्र जा- यते । तीरमृत्तत्र संप्राप्य सुखवायुविशोषिता । जाम्बू- नदाख्यं भवति सुवर्णं सिद्धभूषणम् । भद्राश्वं पूर्वतो मेरोः केतुमालञ्च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ! तयोर्मध्यमिलावृतम् । वनं चैत्ररथं पूर्वं दक्षिणे गन्ध- मादने । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् । अरुणोदं महाभद्रं ससितोदं समानसम् । सरांस्ये- तानि चत्वारि देवभोग्यानि सर्वदा । सीतान्तश्चैव मुञ्जश्च कुवरो माल्यवांस्तथा । वैकङ्कप्रमुखामेरोः पू- र्बतः केसराचलाः । त्रिकूटः शिशिरश्चैव पतङ्गो रुच- कस्तथा । निषधादयो दक्षिणतस्तस्य केसरपर्वताः । शिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः । जारु- धिप्रमुखास्तद्वत् पश्चिमे केसराचलाः । मेरोरनन्तरा- ङ्गेषु जठरादिष्ववस्थिताः शङ्ककूटोऽथ ऋषभो हंसो मानस्तथा परः । कालञ्जराद्याश्च तथा उत्तरे वेसरा- चलाः । चतुर्दशसहस्राणि योजनानां महापुरी । मे- रोरुपरि मैत्रेय । ब्रह्मणः प्रथिता पुरी । तस्यां सम- न्ततश्चाष्टौ दिशासु विदितासु च । इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । विष्णुपादविनिष्क्रान्ता पूर- यित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पूर्य्या गङ्गा पतति वै दिवः । सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत । मीता चालकनन्दा च वङ्क्षुर्भद्रा च वै क्रमात् । पूर्वेण शैलात् सीता तु शैलं यात्यन्तरीक्षगा । ततश्च पूर्ववर्षेण भद्राश्वेनैति पार्णवम् । भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्योत्तरमम्भोधिं समभ्येति महामुने! । वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः । पञ्चिमं केतु- मालाख्यं वर्षमभ्येति सार्णवम् । तथा चालकानन्दापि दक्षिणेनेत्य भारतम् । प्रयाति सागरं भूत्वा सप्तभेदा महामुने! । आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पद्मानि लोकपद्मस्य मर्य्यादाश्चैव बाह्यतः । जठरो देवकूटश्च मर्य्यादाप- र्वताबुभौ । तौ दक्षिणोत्तरायामावानीलनिषधा- यतौ । मेरोः पश्चिमदिग्भागे यथा पूर्वा तथा स्थितौ । त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्षपर्वतौ । पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ । इत्येते मुनि- वर्य्योक्तामर्य्यादापर्वतास्तव । जठराद्याः स्थितामेरो- र्येषां वौ द्वौ चतुर्दिशम् । मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । शीतान्ताद्या मुने! तेषामतीव सुमनो- रमाः । शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः । सुर- म्याणि तथा तेषु काननानि पुराणि च । लक्ष्मीवि- ष्ण्वग्निसूर्य्यादिदेवानां सुनिसत्तम! । तान्यायतनव- र्य्याणि जुष्टानि वराकन्नरैः । गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वह- र्निशम् । भौमाह्येते स्मृताः स्वर्गा धर्मिणामालया- मुने! । नैतेषु पापकर्माणी यान्ति जन्मशतैरपि । भ- द्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज! । वराहः केतुमाले तु भारते कूर्मरूपधृक् । मत्स्यरूपश्च गो- विन्दः कुरुष्वास्ते सनातनः । विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः । सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखि- लात्मकः । यानि किपुरुषाद्यानि वर्षाण्यष्टौ महामुने! । न तेषु शोको नायासी नोद्वेगः क्षुद्भयादिकम् । सुस्था प्रजा निरातङ्काः सर्वदुः स्वविवर्जिताः । दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः । न तेषु वर्षवर्य्येषु भौमान्यम्भांसि तेषु वै । कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्च शत- शस्तेभ्यः प्रसूता या द्विजोत्तम!” । “पराशर उवाच । उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः । नवयोजनसाहस्रो विस्तारोऽस्य महामुने! । कर्ममूमिरियं स्वर्गमपवर्गञ्च गच्छताम् । महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः । विन्ध्यश्च पारि(या) पात्रश्च सप्तात्र कुलपर्वताः । अतः सं- प्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च । तिर्य्यक्त्वं नरकत्वञ्च यान्त्यतः पुरुषामुने! । इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तश्च गम्यते । न खत्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते । भारतस्यास्य वर्षस्य नवभेदान्निशामय । इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् । नामद्वीप- स्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात् । पूर्वे किराता यस्यापि पश्चिमे जवनाः स्थिताः । ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भा- गशः । इज्यायुद्धबलिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः । वेद- स्मृतिमुखाश्चान्याः पारि(या)पात्रोद्भवा मुने! । नर्मदा सुर- साद्याश्च नद्यो विन्ध्यविनिर्गताः । तापीपयोष्णीनिर्विन्ध्या कावेरीपमुखा नदी । गोदावरीभीमरथीकृष्णवेण्वादिका- स्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । कृतामलाताम्रपर्णीप्रमुखामलयोद्भवाः । त्रिसामा ऋषि- कुल्याद्या महेन्द्रप्रभवाः स्मृताः । ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः । शतद्रूचन्द्रभागाद्या हिमवत्- पादनिःसृताः । आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः । अत्रेमे कुरुपञ्चालमध्यदेशादयोजनाः । पूर्वदेशादिका- श्चैव कामरूपनिवासिनः । ओड्राः कलिङ्गामनधा दाक्षि णात्याश्च सर्वशः । तथापरान्ताः सौराष्ट्राः शुद्धाभीरास्तथा- र्बुदाः । मारुकामालकाश्चैव पारि(या)पात्रनिवासिनः । तौवीराः सैन्धवाहूणा शाल्लाः शाकलवासिनः । मद्रा- नामास्तथाम्बष्ठाः पारसीकादयस्तथा । चासां पिबन्तः सलिलं वसन्ति सरितां सदा । चत्वारि भारते वर्षे युगा- न्यत्र महामुने! । कृत त्रेता द्वापर कलिश्चान्यत्र न क्वचित् । तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकाममादरात । पुरुवैर्यज्ञ- पुरुषो जम्बूद्वीपे सदेज्यते । तत्रापि भारतं श्लेष्ठं जम्बूद्वीपे महामुने! । यतो हि कर्मभूरेषा ततोऽन्या- भोगभूमयः । अत्र जन्मसहस्राणां सहस्रैरपि सत्तम! । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयम् । गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्यात् । कर्माण्यसंकल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूप । अवाप्य ता कममहीमनन्ते तस्मिँल्लयं ये त्वमलाः प्रयान्ति । जानीम नैतवद्धवयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः । नववर्षन्तु मैत्रेय! जम्बूद्वीप- मिदं मया । लक्षयोजनविस्तार संक्षेपात् कथितं तव । जम्बूद्वीप समातुत्य लक्षयोजनविस्तृतः । मैत्रेय! वलयाकारः स्थितः स्वीरोदधिर्बहिः । “पराशर उवाच । क्षीरोदेन यथाद्वीपो जस्बुसङ्गाऽभिवेष्टितः । संवेष्ट्य क्षार- मुदधिं प्लक्षद्वीयस्तथा स्थितः । जम्बूद्वीपस्य विस्तारः शत- साहस्रसम्मितः । स एव द्विगुणो ब्रह्मन्! प्लक्षद्वीपोऽप्युदा हृतः । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठः शान्तभयो नाम शैशिरस्तदनन्तरः । सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा इमे । पूर्वं शान्तभयं वर्षं शिशिरं मुखटं तथा । आनन्दञ्च शिवञ्चैव क्षेमकं घ्रुवमेव च । मर्य्याटाकार- कास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम! । गोमेदश्चैव चन्दश्च नारदोदुन्दुभि- स्तथा । सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः । वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः । वसन्ति देवगन्धर्व- सहिताः सततं प्रजाः । तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः । नाधयोघ्याधयोवापि सर्वकालसुखं हि तत् । तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः । ना- मतस्ताः प्रवक्ष्यामि श्रुताः पाप हरन्ति याः । अमु- तप्ता शिखा चैव विपापा दिदिवा क्रमुः । अमृता सुकृता चैव सप्तौतास्तत्र निमृगाः । एते शैलास्तथा नद्यः प्रधानाः कथितास्तव । क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः । ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । अपसर्पिणी न तेषां वै नचैचोतसर्पिणी प्रजा । नात्र- चास्त युगावस्या तेषु स्थानेषु सप्तषु । त्रेतायुगसमः कालः मर्वदैव महासने! । प्लक्षद्वीपादिषु ब्रह्मन् । शाक- द्वीपान्तियेषु ते । पञ्चवर्षसहस्राणि जना तीवन्त्यना- मयाः । धर्माः पञ्चस्यथैतेषु वर्णाश्रभविभागजाः । यर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते । आर्य्यकाः कुरराश्चैव विविंशाभाविनश्च ते । विपक्षत्रियवैश्यास्ते शूद्राश्च द्विजसत्तम! । जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहा- तरुः । प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तम! । इज्यते भगवांस्तत्र तैर्वर्णैरार्य्यकादिभिः । सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः । प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपसमावृतः । तथैवेक्षुरसोदेन परिवेशानुकारिणा । इत्येतत्तव मैत्रेय! प्लक्षद्वीपमुदाहृतम् । संक्षे- पेण मया भूयः शाल्मलं मे निशामय । शाल्मल- स्येश्वरो वीरो वपुष्मांस्तत्सुतान् शृणु । तेषान्तु नाम- संज्ञानि सप्त वर्षाणि तानि वै । श्वेतोऽत्र हरितश्चैव जीमूतो हरितस्तथा । वैद्युतो मानसश्चैव सुप्रभश्च महामुने! । शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः । तत्रापि पर्वताः सप्त विज्ञेयारत्नयोनयः । रसाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः । कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो मही- धरः । कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु । योनितोया वितृष्णा च चन्द्रा शुक्ला विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः । श्वेतञ्च लोहितञ्चैव जीमूतं हरितं तथा । वैद्युतं मानसञ्चैव सुप्रभं नाम सप्तमम् । सप्तैतानि तु वर्षाणि चातुर्वर्णयुतानि वै । शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने! । कपिला- श्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्तितम् । भगवन्तं सम- स्तस्य विष्णुमात्मानमव्ययम् । वायुभूतं मुखश्रेष्ठै- र्यज्वितोऽसङ्गसंस्थितिम् । देवानामत्र सान्निध्यमत्रैव समनोरमे । शाल्मलिश्च महावृक्षो नाम निर्वृतिकार कः एष द्वीपः समुद्रेण सुरीदेनं समावृतः । विस्तारः शाल्- मलस्यैव समेन तु समन्वतः । सुरोदकः परिवृतः कुश- द्वीपेन सर्वतः । शाल्मलस्य तु विस्ताराद्द्विगुणेन सम- न्ततः । ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्व तान् । उद्भिदो रेणुमांश्चैव सुरथो लम्बनो धृतिः । प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्ष उच्यते । तस्मिन् वसन्ति मनुजाः सह दैतेयदानषैः । तथैव देवगन्धर्वयक्षकिंपुरुषा- दिभिः । वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने! । ब्रा- ह्मणाः क्षत्रियाः वैश्याः शूद्राश्चानुक्रमोदिताः । यथोक्त- कर्मकर्तृत्वात् स्वाधिकारक्षयाय ते । तत्र यत्तत् कुशद्वीपे ब्रह्मरूपं जनार्दनम् । यजन्तः क्षपयन्नुग्रमधिकारफल- प्रदम् । विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा १ कुशेशयो हरिश्चैव सप्तमो मन्दराचलः । वर्षाचलास्तु सप्तैव तत्र द्वीपे महामुने! । नद्योऽपि सप्त तासाञ्च शृणु नामान्यनुक्रमात् । धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा । विद्युदस्ता मही चैव सर्वपापहरा- स्त्विमाः । अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाऽचलाः । कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् । तत्प्रमा- णेन स द्वीपो घृतोदेन समावृतः । धृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः । क्रौञ्चद्वीपो महाभाग! श्रूयताञ्चा- परो महान् । कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य वि- स्तरः । क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्र महात्मनः । तन्ना- मानि च वर्षाणि तेषाञ्चक्रे महीपतिः । कुशलो मन्दग- श्चोष्णः पीवरीऽथान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्रेते तत्सुता मुने! । तत्रापि देवगन्धर्वसेविताः सुमनोरमाः । वर्षाचला महाबुद्धे! तेषां नामानि मे शृणु । क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः । चतुर्थी हरशैलश्च स्वभाभिर्भासयन्नभः । देवावृत् पञ्चमश्चैव तथा स्वःपुण्ड- रीकवान् । दुन्दुभिश्च महाशैलो द्विगुणास्ते पर- स्परम् । द्वीपद्वीपेषु ये शैला यथा द्वीपानि ते तथा । वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च । निवसन्ति निरा- तङ्काः सहदेवगणैः प्रजाः । पुष्कराः पुष्कलाधन्यास्ति- ष्याख्याश्च महामुने! । ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चा- नुक्रमोदिताः । ते तत्र नद्यो मैत्रेय! या पिवन्ति शृ- णुष्वताः । सप्त प्रधानाः परतस्तत्रान्याः क्षुद्रनिम्नगाः । सौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः । तत्रापि वर्णैर्भग- वान् पुष्कराद्यैर्जनार्दनः । योगिरुद्रस्वरूपस्तु इज्यते यज्ञसन्निधौ । क्रौञ्चद्वीपः समुद्रेण दधिमण्डीदकेन च । आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः । दधि- मण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामते! । शाकद्वीपेश्वरस्यापि भवस्य सुमहात्मनः । सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त च । जलदश्च कुमारश्च सुकुमारो मणीरकः । कुमु- दोदः समौदाकिः सप्तमश्च महाद्रुमः तत्संज्ञान्यपि- तान्येव सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः सप्त वर्ष- विच्छेदकारिणः । पूर्वस्तत्रोदयनिरिर्जलाधारस्तथा परः तथा रेवतकः श्यामस्तथैवास्तगिरिर्द्विज! । आम्बिकेय- स्तथा रम्यः केशरी पर्वतोत्तमः । शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । तत्पत्रवातसंसर्गादाह्लादो जायते परः । तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्य- श्चात्र महापुण्याः सर्वपापभयापहाः । सुकुमारी कुमारी च नलिनी रेणुका तथा । इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो म- हामुने! । महीधरास्तथा चात्र शतमोऽथ सहस्रशः । ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः । वर्षेष्वेते जनपदाः स्वर्गादभ्येत्य मेदिनीम् । धर्महानिर्न ते- ष्वस्ति न संहर्षः परस्परम् । मर्य्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु । मागाश्च मानधाश्चैव मानसा मन्दगास्तथा । मागा व्राह्मणभूयिष्ठा मागधा क्षत्रिया- स्तथा । वैश्यास्तु मानसास्तेषां शूद्रास्तेषां तु मन्दगाः । शाकद्वीपे तु तैर्वर्णैः सूर्य्यरूपधरो मुने! । यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः । शाकद्वीपस्तु मैत्रेय! क्षीरो- देन समन्ततः । शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः । क्षीराब्धिः सर्वतो ब्रह्मन्! पुष्कराख्येन येष्टितः । द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः । पुष्कराख्य द्वीपपते- र्महावीतोऽभवत् सुतः । धातकिश्च तयोस्तत्र द्वेवर्षे नाम चिह्निते । महावीतं तथैवान्यत् धातकीषण्ड- भण्डितम् । एकश्चात्र महाभाग! प्रख्यातो वर्ष- पर्वतः । मानसोत्तरसंज्ञो वै मध्यतो बलयाकृतिः । योजनानां सहस्राणि ऊर्द्ध्वं पञ्चाशदुच्छ्रितः । ताव- दैव च विस्तीर्णः सर्वतः परिमण्डलः । पुष्करद्वीपबलयं मध्ये संविभजन्निव । स्थितोऽसौ सुमहान् शैलो व्याप्य तद्वर्षकद्वयम् । बलयाकारमेकैकं तयोर्वर्षं तथा गिरिः । दशवर्षसहस्राणि यत्र जीवन्ति मानवाः । निरामया विशोकाश्च रानद्वेषविवर्जिताः । अधमोत्तमौ न तेष्वास्तां न नध्यबधकौ द्विज! नेर्ष्यासूयाभयं रोषो दोषो लोभादिको न च । महावीतं महावर्षं धातकीसंङ्गमन्ततः । मानसोत्तरशैलश्च देवदैत्यादि सेवितः । सत्यानृतं न तत्रास्ते द्वीपे पुष्करसंज्ञिते । न तत्र शैलनद्यो वा द्वीपे वर्षद्वयान्विते । तुल्यवेशास्तु मनुजादेवैस्तत्रैकरूपिणः । वर्णाश्रमाचांरहीनं धर्मा- हरणवर्जितम् । त्रयीवार्त्तादण्डनीतिशुश्र षारहितञ्च तत् । वर्षद्वयञ्च मैत्रेय! भौमः स्वर्गोऽयमुत्तमः । सर्वश्च सुखदः कालो जरारीगादिवर्जितः । पुष्करे धातकी- षण्डं महावीते च वै मुने! । न्यग्रोधः पुष्करद्वीपे व्रह्मणः स्थानमुत्तमम् । तस्मिन्निवसति ब्रह्म । पूज्य- मानः सुरासुरैः । स्वादूदकेनोदधिना पुष्करः परि- येष्टितः । समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा । एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ । पयांसि सर्वदा सर्व- समुद्रेषु समानि वै । ऊनातिरिक्तता तेषां कदाचिन्नैव जायते । स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा । तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तम! । अनूमाश्चाति- रिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति च । उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः । दशोत्तराणि पञ्चैव अङ्गुलानां शतानि वै । अपां धृद्विक्षयौ दृष्टौ सामुद्रीणां महा- मुने! । भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । यत्र संभुञ्जते विप्र! प्रजाः सर्वाः सदैव हि । स्वादूदकस्य पुरतो दृश्यते लोकसंस्थितिः । द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता । लोकालोकस्ततः शैलो योजनायुत- विस्तरः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः । ततस्तमः समावृत्य तं शैह्यं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् । पञ्चाशत्- कीटिविस्तीर्णा सेयमुवीं महामुने! । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा । सेयं धात्री विधात्री च सर्वभूत- गुणाधिका । आधारभूता सर्वेषां मैत्रेय! जगतामिति” । ||भूगोलस्य स्थिरत्वे युक्तिः खगोलशब्दे उक्ता अधिक- मत्र किञ्चिदुच्यते इलण्डीयज्योतिर्विदां मते भूगोलस्यैव दक्षिणोत्तरगतिभ्यां सूर्य्यस्य उत्तरदक्षिणगतित्वं कल्प्यते स्थिरस्य सूर्य्यस्य उत्तरदक्षिणायनयोरसम्भवादिति । तदेतन्मतमतीवासमञ्जसं भूगोलस्य दक्षिणोत्तरगतिस्वीकारे सूर्य्यस्येव कृत्तिकारोहिणोशकटमृगव्याधादीनामपि उत्तरदक्षिणयोर्गतिः प्रसज्येत न च तथा दृश्यते तेषाञ्च यथा विक्षेपनामशरसंख्या सौरागमे पठिता तादृशान्तर एव प्रत्यहं दर्शनं न मनागपि उत्तरदक्षिणा- थनमिति विवेच्य भूगालस्य रिवात्वभनुसन्धातव्यम् ।
शब्दकल्पद्रुमः
भूगोलः || पुं, (भूर्गोलो मण्डलमिव ।)
भुवनकोषः । (यदुक्तं सूर्य्यसिद्धान्ते । “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणा- त्मिकाम् ॥”)
तस्य विवरणम् । यथा, —
“प्रकृतेस्तु महान् जातोऽहङ्कारो महतः पुनः । तन्मात्राणि ह्यहङ्कारात् शब्दः स्पर्शोऽथ रूपकम् ॥ रसो गन्धश्च पञ्चैव गुणा नाम प्रकीर्त्तिताः । पञ्चेमानि महाभाग ! महाभूतानि संग्रहात् । तेभ्य एव प्रजातानि सर्व्वाणि गुणवन्ति च ॥ भूमिरापस्तथा वायुरग्निराकाशमेव च । गुणोत्तराणि सर्व्वाणि तेषां भूमिः प्रधानतः ॥ शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः । भूमावेते गुणाः प्रोक्ता ह्रसन्ति परतः क्रमात् ॥ चत्वारोऽप्सु गुणा बह्मन् ! गन्धस्तत्र न वर्त्तते । शब्दः स्पर्शश्च रूपञ्च त्रय एव हि तेजसि ॥ शब्दः स्पर्शोऽथ वायोस्तु आकाशे शब्द एव हि । एते पञ्च गुणाः प्रोक्ता महाभूतेषु पञ्चमु ॥ वर्त्तन्ते सर्व्वभूतेषु येषु लोकाः प्रतिष्ठिताः । अन्योन्यं नातिवर्त्तन्ते सम्यग्भवति वै तदा ॥ यदा तु विषमं भावमाविशन्ति परस्परम् । तदा देहवियोगः स्याद्देहिनां नान्यथा द्बिज ! ॥ अनुपूर्ब्बा विनश्यन्ति जायन्ते चापि सर्व्वशः । सर्व्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥ तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ अचिन्त्याः स्वलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥ * ॥
जम्बुद्वीपं प्रवक्ष्यामि वात्स्यायन महामुने ! ॥ परिमण्डलो महाभाग ! द्बीपोऽसौ चक्रवत् स्थितः । नदीगिरिप्रतिच्छन्नो विविधैः पत्तनैरपि ॥ षनैर्जनपदैर्वृक्षैस्तथा पुष्पफलोपगैः । लवणेन समुद्रेण समन्तात् परिवारितः ॥ प्रागायता महाभाग ! षडेते रत्नपर्व्वताः । अवगाढा ह्युभयतः सागरौ पूर्ब्बपश्चिमौ ॥ हिमवान् हेमकूटश्च निषधश्च नगोत्तमः । नीलः श्वेतः शृङ्गवांश्च रत्नधातुविचित्रिताः ॥ अयुतानि योजनानि उच्छ्रायास्तेषु कीर्त्तिताः । पृथुत्वे च द्विसाहस्रयोजनास्ते च पर्व्वताः ॥ तेषामन्तरविष्कम्भे नवसाहस्रयोजनः । वर्षे वर्षे प्रमाणन्तु वर्षाणि त्रीणि दक्षिणे ॥ तत्र पुण्या जनपदास्तेषु वर्षेषु तापस ! । वसन्ति तेषु सर्व्वाणि सत्त्वानि विविधानि च ॥ दक्षिणे भारतं वर्षमुत्तरे लवणोदधेः । कूलादेव महाभाग ! तस्य सीमा हिमालयः ॥ ततः किंपुरुषं वर्षं हेमकूटादधस्ततः । हरिवर्षं ततो ज्ञेयं निषधोऽवधिरुच्यते ॥ एवमेवोत्तरे त्रीणि वर्षाणि च तपोधन ! । कुरुवर्षं सिन्धुकूलात् शृङ्गवानवधिः स्मृतः ॥ हिरण्मयं ततो वर्षं श्वेतावधि निगद्यते । रम्यकञ्च ततो वर्षं नीलस्तस्यावधिः स्मृतः ॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । प्रागायतो महाभाग ! माल्यवान्नाम पर्व्वतः ॥ पश्चिमे तु तथैवास्ते पर्व्वतो गन्धमादनः ॥ पूर्व्वे समुद्रकूलात्तु भद्राश्वं नाम वर्षकम् ॥ माल्यवानवधिस्तस्य केतुमालञ्च पश्चिमे । गन्धमादनसीमान्तं नवसाहस्रयोजनम् ॥ * ॥
परिमण्डलस्तयोर्म्मध्ये मेरुः कनकपर्व्वतः । आदित्यतरुणाभासो विधूम इव पावकः ॥ लक्षयोजन उच्छ्रायो मूर्द्ध्नि द्वाविंश एव च । योजनानां सहस्राणि मूले चापि तु षोडश ॥ विस्तृतः स महाभाग ! भूमिष्ठं मूलमस्य तु । प्रविष्टमन्तर्भूम्यां वै षोडशैव सहस्रकम् ॥ ऊर्द्ध्वमन्तश्च तिर्य्यक् च लोकानावृत्य तिष्ठति । तस्य चेलावृतं वर्षं सर्व्वतः परिकीर्त्तितम् ॥ विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल । स वै विचिन्तया मास सौवर्णान् प्रेक्ष्य वायसान् ॥ मेरुरुत्तममध्यानामवराणाञ्च पक्षिणाम् । अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ तमादित्योऽनुपर्य्येति सततं ज्योतिषां वरः । चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ॥ स पर्व्वतो महाभाग ! दिव्यपुष्पसमन्वितः । भवनैरावृतः सर्व्वैर्जाम्बूनदमयैः शुभैः ॥ तत्र देवगणा ब्रह्मन् ! गन्धर्व्वासुरराक्षसाः । अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्व्वदा ॥ अवष्टम्भकरास्तस्य मन्दरो मेरुमन्दरः । मुपार्श्वः कुमुदश्चेति चतुर्दिक्षु स्थिता द्बिज ! ॥ अयुतयोजनोन्नाहास्तावद्विस्तारसंयुताः । चतुर्ष्वेतेषु धर्म्मज्ञ ! चूतजम्बूकदम्बकाः ॥ न्यग्रोधश्चापि चत्वारः पादपा व्राह्मणर्षभ ! । सहस्रयोजनोन्नाहास्तावद्बिटपविस्तृताः ॥ केतुभूताः पर्व्वतानां विशालाः शतयोजनम् । हदाश्च तत्र चत्वारः पयोमध्विक्षुवारिदाः ॥ देवोद्यानानि चत्वारि द्वे चैत्ररथनन्दने । सर्व्वतोभद्रमित्येवं तथा वैभ्राजकं वनम् ॥ तेषु देवस्त्रियो नित्यं विहरन्ति सुरैः सह । गन्धर्व्वाः किन्नराश्चेव तथान्ये सिद्धचारणाः ॥ गायन्तो मधुरं दिव्यं स्त्रीभिः क्रीडन्ति तापस ! । चूतो यो मन्दरोत्सङ्गेऽयुतयोजनमुच्छ्रितः ॥ फलान्यमृतकल्पानि पतन्त्यस्य सुदूरतः । तेषां विशीर्य्यमाणानां रसेनाजनि या नदी ॥ अरुणोदा नाम सैव वहते मन्दराचलात् । यज्जलस्पर्शमात्रेण भवानीशिवयोर्गणाः ॥ स्वदेहसौरभेणापि समन्ताद्दशयोजनम् । सुगन्धयन्ति वातेन वात्स्यायन ! तदद्भुतम् ॥ एवं जम्बूफलानाञ्च पततां मेरुमन्दरे । हस्तिकायप्रमाणानां रसैर्जाता महानदी ॥ सैव जम्बूनदी नाम दक्षिणेन इलावृतम् । तीरयोरुभयोरेव जम्बूरसपरिप्लुता ॥ मृत्तिकैव सुवर्णं स्यात् वार्य्यर्ककिरणान्वयात् । तत्र जाम्बूनदं हेम नानाभरणसंज्ञितम् ॥ देवोपदेवगन्धर्व्वा धारयन्ति सह स्त्रिया । यो वै महाकदम्बश्च सुपार्श्वोपरि तापस ! ॥ तत्कोटरेभ्यः पञ्चैव मधुधाराः सवन्ति वै । पञ्चायामपरीणाहाः पश्चिमेन इलावृतम् ॥ यासां रसांश्च भुञ्जानाः सुमुखोद्गारवायुना । सुगन्धयन्ति धर्म्मज्ञ ! समन्तात् शतयोजनम् ॥ कुमुदाग्रनिरूढो यः शतवल्यो वटो महान् । स्कन्धेभ्यस्तस्य नद्यस्तु उत्तरेण इलावृतम् ॥ पयस्विनीदधिह्रदाघृतकुल्यामधुस्रवाः । गुडस्रवेति पञ्चैव यासां रसनिषेवणात् ॥ बलीपलितदौर्गन्ध्यजरादोषो न विद्यते । कुरङ्गकुरवः शङ्खः कुसुम्भः शिखरस्तथा ॥ वैकङ्कश्च त्रिकूटश्च पर्व्वतौ रुचकर्षभौ ॥ पतङ्गनिषधौ नागसितिवासत्रिकूटकाः । हंसवैदूर्य्यकपिला द्बौ कालञ्जरजारुधी ॥ गिरयो मूलदेशे तु सुमेरोः परिकल्पिताः ॥ जठरो देवकूटश्च द्बौ नगौ मेरुपूर्ब्बतः । अष्टादशसहस्राणि योजनान्युदगायतौ ॥ पृथुतुङ्गौ द्बिसाहस्रयोजनं तापसर्षभ ! । पवनः पारिपात्रश्च मेरोः पश्चिमतः स्थितौ ॥ तथा प्रमाणौ कैलासकरवीरौ तु दक्षिणे । प्रागायतावुत्तरेण त्रिशृङ्गमकरौ तथा ॥ अष्टाभिरेतैर्गिरिभिर्भाति काञ्चनपर्व्वतः । मेरोर्मूर्द्धनि विप्राग्र्य ! मध्ये विश्वसृजः पुरी । चतुरस्रा शातकौम्भी योजनायतविस्तृता ॥ दिक्पालानां तथा पूर्य्यः पूर्ब्बादिषु यथाक्रमम् । ब्रह्मपुर्य्याश्चतुर्थेन भागेन परिकल्पिता ॥ तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि मुरेश्वरः । समेत्य विविधैर्यज्ञैर्यजन्ते भूरिदक्षिणैः ॥ तुम्बुरुर्नारदश्चैव विश्वावसुर्हाहाहूहूः । अभिगम्यामरश्रेष्ठं स्तुवन्ति विविधैः स्तवैः ॥ सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः । तत्र गच्छन्ति भद्रं ते सदा पर्व्वणि पर्व्वणि ॥ तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते । तस्य हैमानि रत्नानि तस्येमे रत्नपर्व्वताः ॥ तस्मात् कुवेरो भगवांश्चतुर्थं भागमश्नुते । ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ पार्श्वे तस्योत्तरे दिव्यं सर्व्वर्त्तुकुसुमान्वितम् । कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ तत्र साक्षान्महादेवो भीमैर्भूतैः समावृतः । पार्व्वत्या सह देवेशो रमते भूतभावनः ॥ कर्णिकारमयीं मालां दधदापादलम्बिनीम् ॥ तस्य शैलस्य शिखरात् क्षीरधारा महामते ! । विश्वरूपा परिमिता भीमनिर्घातनिस्वना ॥ पुण्या पुण्यतमैर्ज्जुष्टा गङ्गा भागीरथी शुभा । तां धारयामास तदा दुर्द्धरां पर्व्वतैरपि ॥ शतं वर्षसहस्राणां शिरसैव पिनाकधृक् । मेरोस्तु शिखराद्देवी भिद्यमाना चतुर्विधा ॥ सीता चालकनन्देति वङ्क्षुर्भद्रेति कीर्त्तिता । सीता तु ब्रह्मसदनात् केशरादिमहाचलान् ॥ अतिक्रम्य प्रस्रवन्ती गन्धमादनमूर्द्धसु । पतित्वा द्विज ! वर्षञ्च भद्राश्वं पुनती क्रमात् । प्राच्यां दिशि महाभाग ! प्रविष्टा लवणोदधिम् ॥ माल्यवच्छिखराद्वङ्क्षुः पतित्वा केतुमालके । प्रतीच्यां दिशि विप्रेन्द्र ! प्रविवेश सरित्पतिम् ॥ भद्रा चोत्तरतो मेरुशिखरात् पतिता गिरीन् । अतिक्रम्य शृङ्गवतः शृङ्गाद्बेगेन पातुका । उत्तरांश्च कुरून् प्राप्य प्रविष्टा लवणार्णवम् ॥ तथैवालकनन्दा च पतन्ती गिरिमूर्द्धसु । हिमालयं विनिर्भिद्य भारतं वर्षमेत्य च । लवणाम्बुधिमभ्येति दक्षिणस्यां दिशिद्बिज ! ॥ मेरोस्तु पश्चिमे पार्श्वे केतुमालो महामते ! । आयुर्दशसहस्राणि वर्षाणां तत्र मानवे ॥ सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः । वीतरोगशोकभया नित्यमानन्दवर्त्तिनः । जायन्ते मानवास्तत्र प्रतप्तकनकप्रभाः ॥ * ॥
गन्धमादनशृङ्गेषु कुवेरः सह राक्षसैः । अप्सरोगणगन्धर्व्वैर्मोदते गुह्यकाधिपः ॥ गन्धमादनपार्श्वे तु गण्डशैलाः सहस्रशः । एकादशसहस्राणि वर्षाणां परमायुषः ॥ तत्र हृष्टा नराः सर्व्वे बलवीर्य्यपराक्रमाः । स्त्रियश्चोत्पलपत्राभाः सर्व्वाः सुप्रियदर्शनाः ॥ उत्तराः कुरवश्चैव भारतञ्च महामते ! । धनुसंस्थे महाभाग ! द्विवर्षे दक्षिणोत्तरे ॥ इलावृतं मध्यमन्तु पञ्चवर्षाणि चैव हि । उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ॥ अपरेषु च वर्षेषु सर्व्वेषु भारतं विना । आयुःप्रमाणं लोकानां दशवर्षसहस्रकम् ॥ एवमेषा महाभाग ! पृथिवी पर्व्वतैश्चिता ॥” इति पद्मपुराणे भूमिखण्डे भूगोलवर्णने १२८ अध्यायः ॥ शेष उवाच । “नवस्वतेषु वर्षेषु भगवान् भूतभावनः । अनुग्रहाय लोकानामास्ते मायावपुर्द्धरः ॥ इलावृते तु भगवान् भव एकः सहोमया । आस्ते विहारनिरतो नान्यस्तत्र पुमान् द्बिज ! ॥ भवानीशापतो ब्रह्मन् ! प्रविशेन्न कदाचन । यत्र प्रविष्टो मोहेन सुतो वैवस्वतस्य वै ॥ इलः स्त्रीभावमापन्नो यस्यां जातः पुरूरवाः । तत्र सङ्कषणं देवं कलां विष्णोर्महात्मनः । भवो भवान्या सहितः स्तौति भक्तिसमन्वितः ॥ भद्राश्वे द्बिज ! वर्षे तु हयशीर्षाकृतिर्हरिः । वसते वर्षपुरुषास्तं स्तुवन्ति जगद्गुरुम् ॥ * ॥
हरिवर्षे तु भगवान्नरसिंहवपुर्धरः । स्तूयते दैत्यपतिना प्रह्लादेन महात्मना ॥ केतुसाले च भगवान् कामदेवस्वरूपवान् । प्रजापतेदुहितृभिः सहैव रमया मुदा ॥ स्तूयते परया भक्त्या जगन्मोहनरूपधृक् ॥ * ॥
रम्यके भगवानास्ते मत्स्यरूपी दयापरः । मनुर्वैवस्वतस्तञ्च स्तौति भक्त्या कृतैः स्तवैः ॥ * ॥
हिरण्मये तु भगवानास्ते कूर्म्मतनुं दधत् । प्रेताधिराजस्तं स्तौति भक्त्या परमया युतः ॥ कुरुवर्षे च भगवान् वराहः सेव्यते जनैः । तं देवी यं क्षितिः स्तौति तद्बर्षपतिभिः सह ॥ वर्षे किंपुरुषे ब्रह्मन् ! भगवानादिपूरुषः । सीतया विहरन्नास्त सततं लक्ष्मणाग्रजः ॥ तञ्च किंपुरुषैः सार्द्धं भक्त्या मारुतनन्दनः । पार्ष्णिसेनेन च सह स्तौति भक्त्या विभावितः ॥ भारते च तथा वर्षे नरनारायणावृषी । नारदः स्तौति भगवान् भगवन्तौ कृतानतिः ॥ द्वीपेऽस्मिन् बहवः सन्ति गिरयः सरितस्तथा । देशाश्च बहवो ब्रह्मंस्तांस्ते वक्ष्याम्यनुक्रमात् ॥ मेरोरुत्तरतः सर्व्वान् पर्य्यायेण ब्रवीम्यहम् । दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ॥ उत्तराः कुरवो नाम पुण्याः सिद्धनिषेविताः । तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः ॥ सुगन्धीनि च पुष्पाणि फलानि रसवन्ति च । सर्व्वे कामदुघा वृक्षा लताः कामप्रपूरिकाः ॥ अपरे क्षीरिणो नाम तरवो मुनिपुङ्गव ! । ये स्रवन्ति सदा क्षीरं रसैरमृतसन्निभम् ॥ वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च । सर्व्वा मणिमयी भूमिः सूक्ष्महाटकबालुका ॥ सर्व्वर्त्तुसुखदा नित्यं पङ्कशर्करवर्ज्जिता । स्वर्गभोगावशेषेण जायन्ते तत्र मानवाः ॥ शुक्लाभिजनसम्पन्नाः सर्व्वे चारुमुखाम्बुजाः । मिथुनानि च जायन्ते स्त्रियः सुरसुतोपमाः ॥ तेषान्ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् । मिथुनं जायते काले समन्ताच्च प्रवर्द्धते ॥ तुल्यरूपगुणोपेतं तुल्यवेशवयस्तथा । निरामया निराबाधाः सदानन्दविवर्त्तिनः ॥ एकादशसहस्राणि तत्र वर्षाणि वै जनाः । जीवन्ति ते महाभाग ! न चान्योन्यं हनन्ति च ॥ भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च ॥ उत्तराः कुरवो ब्रह्मन् ! व्याख्यातास्ते समा- सतः । * । हिरण्मये रम्यके च एष धर्म्मः प्रकीर्त्तितः ॥ मेरोः पार्श्वमहं पूर्ब्बं वक्ष्ये ब्रह्मन् ! यथातथम् । भद्राश्वे भद्रश्रवा नाम तत्र ब्रह्मन् ! महीपतिः ॥ भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः । कालाम्रो नाम वृक्षोऽसौ सिद्धचारणसेवितः ॥ योजनैकसमुत्सेधो नित्यपुष्पफलः शुभः । तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ॥ कुमुदाभाः स्त्रियस्तत्र चारुनासाः सुलोचनाः । चन्द्राभचारुरूपाश्च पूर्णेन्दुसदृशाननाः ॥ नृत्यगीतकलाभिज्ञाश्चन्द्रशीतलकान्तयः । दशवर्षसहस्राणि तत्रायुर्ब्राह्मणर्षभ ! ॥ कालाम्ररसपानेन नित्यं सुस्थिरयौवनाः । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः । सर्व्वकामफलः पुण्यः सिद्धचारणसेवितः ॥ द्बीपख्यातिकरः श्रीमान् सहस्रयोजनोच्छ्रितः । अरत्नीनां सहस्रञ्च शतानि दश पञ्च च ॥ परिणाहस्तु वृक्षस्य रसानां रसभेदिनाम् । तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥ * ॥
तथा माल्यवतः शृङ्गे दृश्यते हव्यवाहनः । नाम्ना सम्बर्त्तकी नाम कालाग्निः प्रलयेऽन्तकृत् ॥ तथा माल्यवतः शृङ्गे पूर्ब्बे पूर्ब्बानुगण्डिकाः । योजनानां सहस्राणि पञ्चषण्माल्यवान् द्विज ! ॥ महारजतसङ्काशा जायन्ते तत्र मानवाः । ब्रह्मलोकच्युताः सर्व्वे जायन्ते तत्र वै नराः ॥ तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्द्ध्वरेतसः । रक्षणार्थन्तु भूतानां न विशन्ति दिवाकरम् ॥ षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च । अरुणस्याग्रतो यान्ति परिवार्य्य दिवाकरम् ॥ षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च । आदित्यतप्तास्ते सर्व्वे विशन्ति शशिमण्डलम् ॥” इति पाद्मे भूमिखण्डे भूगोले १२९ अध्यायः ॥ * ॥
शेष उवाच । दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु । वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः । दशवर्षसहस्राणि शतानि दश पञ्च च ॥ जीवन्ति ते महाभाग ! नित्यं मुदितमानसाः । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ वर्षं हिरण्मयं नाम तत्र हैमन्वती नदी । तत्र चायं महाभाग ! पक्षिराट् पतगोत्तमः ॥ यक्षानुगाश्च बहवो धनिनश्च महाबलाः । एकादशसहस्राणि वर्षाणां ते महामते ! ॥ आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च । शृङ्गाणि च विचित्राणि त्रीण्येव ब्राह्मणर्षभ ! ॥ एकं मणिमयं तत्र द्वितीयं रौक्ममद्भुतम् । सर्व्वरत्नमयञ्चैव तृतीयं तत्र शोभते ॥ यत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली । हेमकूटस्तु सुमहान् कैलासो नाम पर्व्वतः ॥ यत्र वै पवनो राजा गुह्यकैः सह मोदते । अस्त्युत्तरेण कैलासं मैनाकं पर्व्वतं प्रति ॥ हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः । तस्य पार्श्वे महद्दिव्यं शुभ्रकाञ्चनबालुकम् ॥ रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः । दृष्ट्वा पुण्यापगां गङ्गामुवास बहुलाः समाः ॥ यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः । तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ॥ स्रष्टा भूतपतिर्यत्र सर्व्वलोकैः सनातनः । उपास्यते तीग्मतेजा यत्र भूतैः समन्ततः ॥ नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः । तत्र दिव्या त्रिपथगा प्रथमन्तु प्रतिष्ठिता ॥ ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते । वस्वोकसा वा नलिनी पावनी च सरस्वती ॥ जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी । अचिन्त्या दिव्यसङ्काशा प्रभावैश्च समन्विता ॥ उपासते यत्र सत्रं सहस्रयुगपर्य्यये । दृश्यादृश्या च भवति तत्र तत्र सरस्वती ॥ एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः । रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ॥ सपा नागाश्च निषधे गोकर्णञ्च तपोवनम् । देवासुराणां सर्व्वेषां श्वेतपर्व्वत उच्यते ॥ गन्धर्व्वा निषये नित्यं नीले ब्रह्मर्षयस्तथा । शृङ्गवांश्च महाभाग ! देवानां प्रतिसञ्चरः । इत्येतानि महाभाग ! सप्त वर्षाण्यनुक्रमात् ॥ भूतान्यपि निविष्टानि गतिमन्ति ध्रुवाणि च ॥ तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी । अशक्या परिसंख्यातुं श्रद्धेया तु बुभुत्सुना ॥ इलावृते तु भगवान् भवान्या सह मोदते । इत्येवमष्टौ वर्षाणि कथितानि तवानघ ! ॥ * ॥
कर्म्मक्षेत्रं महापुण्यं भारतं शृणु सांप्रतम् । प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ पृथोस्तु ब्रह्मन् ! वैण्यस्य तथेक्ष्वाकोर्महात्मनः । ययातेरम्बरीशस्य मान्धातुर्नहुषस्य च ॥ तथैव मुचुकुन्दस्य शिवेरौशीनरस्य च । सोमकस्य च राजर्षेर्गाधेश्चैव महात्मनः ॥ ऋषभस्य तथैलस्य दिलीपस्य महात्मनः । कुशिकस्य च धर्म्मज्ञ ! नृगस्य नृपतेस्तथा ॥ अन्येषाञ्च महाभाग ! क्षत्त्रियाणां बलीयसाम् ॥ शृणु मे गदतो ब्रह्मन् ! सर्व्वपापप्रणाशनम् ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । बिन्ध्यश्च पारिपात्रश्च सप्तैते कुलपर्व्वताः ॥ तेषां सहस्रशो ब्रह्मन् ! गिरयस्तु समीपतः । धातुचित्राः सत्त्ववन्तो महान्तश्चित्रसानवः ॥ आर्य्या म्लेच्छाश्च धर्म्मज्ञ ! तैर्मिश्राः पुरुषा द्विज ! । नदीं पिबन्ति विपुलां गङ्गां सिन्धु सरस्वतीम् ॥ शतद्रुं चन्द्रभागाञ्च विपापां स्थूलबालुकाम् । गोदावरीं नर्म्मदाञ्च यमुनाञ्च महानदीम् ॥ दृशद्वतीं विपाशाञ्च बाहुदां सरिताम्बराम् । नदीं वेत्रवतीञ्चैव पयोष्णीं देविकामपि ॥ वेदस्मृतिं वेदशिनीं चित्रसेनाञ्च निम्नगाम् । करीषिणीं चित्रवहां कृष्णवेण्वां सुपुण्यदाम् ॥ इराबतीं वितस्ताञ्च त्रिदिवामिक्षुलां कृमिम् । गोमतीं धूतपापाञ्च निचितां लोहितावनीम् ॥ कौशिकीं त्रिदिवां कृत्यां सरयूञ्च महामते ! । चर्म्मण्वतीं वेत्रवतीं चन्दनाञ्च महानदीम् ॥ रहस्यां शतकुम्भाञ्च हन्तिसोमां दिशन्तथा । शरावतीं पयोष्णीञ्च वाजिनीं पुरमालिनीम् ॥ पूर्ब्बाभिरामां धीराञ्च वापीं शीतवलीमपि । पलाशिनीं पापहरां सुप्रयोगां महामते ! ॥ कावेरीञ्चुलुकाञ्चापि वेण्वां भीमरथीमपि । रहस्यां शतकुम्भाञ्च कुशचीरां महानदीम् ॥ पलाशिनीं पापहरां हेमां घृतवतीं तथा । मरुतीं प्रवरां मेलां महेन्द्रां पाटलावतीम् ॥ पुरावतीमनुष्णाञ्च कुशधारां महानदीम् । सदानीरामधृष्याञ्च तथा चीरवतीमपि ॥ करीषिणीमशिक्नीञ्च विपुलां सहिरण्मयीम् । सदाकान्तां शिवाञ्चैव पञ्चमीञ्च महानदीम् ॥ विण्वां वीरकराञ्चापि विश्वामित्रां कपिञ्जलाम् । वसुं सुवस्त्रां गौरीञ्च कुवेरामम्बुवाहिनीम् ॥ रथचित्रां ज्योतिरथां तुङ्गवेण्वां महानदीम् । वैलन्दीं पिञ्जलाञ्चैव तुङ्गवेण्वां महानदीम् ॥ विदिशां कृष्णवेण्वाञ्च हविःस्रावां महापगाम् । सन्ध्यां समासां वेदास्वां भारद्वाजीञ्च निम्नगाम् ॥ शीघ्राञ्च पिच्छिलाञ्चैव कौशिकीं निम्नगामपि । दुर्गां मन्त्रशिलाञ्चैव ब्रह्ममेध्यां दृशद्वतीम् ॥ परोक्षामथ रोहीञ्च सामान्यां वरणामसिम् । सुरसां तपसां दासीं पर्णासाञ्च महानदीम् ॥ मालवीं वृषभां भासां ब्रह्ममेध्यां बृहद्वतीम् । एताश्चान्याश्च बह्व्यो वै महानद्यो द्विजर्षभ ! ॥ सदा निरामया कृष्णा मन्दगा मन्दवाहिनी । चित्रोपला चित्ररथा दुर्गापि पापहारिणी ॥ ब्रह्माणी च महागौरी कोषा चापि महानदी । शुक्तिमती मनङ्गा च मञ्जला वाहिनी तथा ॥ कुमारी ऋषिकुल्या च नदी मन्दाकिनी तथा । सुवर्णा च तथा गङ्गा मारिषा च सरस्वती ॥ लौहित्यं करतोया च तथैव वृषकाह्वया । विश्वस्य मातरश्चैताः सर्व्वाश्चैव महाफलाः ॥ तथा नद्यस्त्वप्रकाशाः शतशश्च सहस्रशः । इत्येताः सरितो ब्रह्मन् ! समाख्यातास्तवानघ ! ॥ वक्ष्यामि पर्व्वतांश्चापि भारते सन्ति ये द्विज ! । मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः ॥ ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा । श्रीशैलो ऋष्यमूकश्च शुक्तिमानृक्ष एव च ॥ द्रोणश्च पारिपात्रश्च रैवतः ककुभस्तथा । गोवर्द्धनश्चित्रकूटो नीलो गोकर्ण एव च ॥ कोकामुख इन्द्रकीलस्तथा कामगिरिर्द्विज ! । अतःपरं जनपदान् वक्ष्यामि द्बिजसत्तम ! ॥ विख्याताः कुरुपाञ्चालाः शाल्ला माद्रेय- जाङ्गलाः । मत्स्याः कुशट्टा मौद्गल्या भोजाः सिन्धुकुलि- न्दकाः ॥ सूरसेनाः पुलिन्दाश्च कुन्तयः केशिकोशलाः । पाञ्चालाः कौशलाश्चैव बोधा मालास्तथैव च ॥ चेदिमत्स्यकरूषाश्च नैकपृष्ठा युगन्धराः । उत्तमाश्च दशार्णाश्च काशयोऽपरकाशयः ॥ कुन्तयोऽवन्तयश्चैव मलजा विजयास्तथा । आधिराज्याः सकुट्टाश्च चक्रवक्रातयः शकाः ॥ मानवास्योपवाहाश्च यकृल्लोमान एव च । वाह्वीका वाटधानाश्च शङ्कलाशर्म्मचण्डकाः ॥ मल्लाः मुदेष्णाः प्रह्रादा महिषाः शशिका- स्तथा । अपरान्ताः परान्ताश्च आभीराः काल- तोयकाः ॥ अटवीशिखराश्चैव मेरुभूताश्च मारिष ! । उपविष्णानुविष्णाश्च जङ्गलाः कुरुवर्णकाः ॥ कुट्टाः परान्ता माहेया मागधा मालवज्जटाः । अन्ध्राश्च बहवो ब्रह्मन् ! कक्षाः सामुद्र- निष्कुटाः ॥ बहिर्गिर्य्योऽङ्गमलदा अन्तर्गिर्य्यस्तथैव च । सह्युत्तराः प्रावृषेयाः सुदेष्टा यामुनास्तथा ॥ शका निषादा निषधा भार्गवाश्च द्विजर्षभ ! । पुण्ड्रा भोगाः किराताश्च तथैवानर्त्तनैरृताः ॥ तीरग्रहाः शूरसेनाः कुन्तलाः कुशलास्तथा । तिलभावा मसावाश्च गान्धारा दर्शकास्तथा ॥ काश्मीराः सिन्धुसौवीरा इजिका कन्यका- गणाः । अभीसाहा कुलूताश्च मधुमत्ताः कुकुन्दकाः ॥ रत्नवट्टाश्च धर्म्मज्ञ ! सौचला वाह्लिकास्तथा । दर्व्वीवरा लता दर्व्वाः मुदामानः सुमल्लिकाः ॥ वनायवो दशाः पार्श्वरोमाणः कुशिकास्तथा । रत्नवट्टाश्च धर्म्मज्ञ ! वाडयामरथोरगाः ॥ रन्ध्राः करीषकाश्चापि कुलिन्दोपेत्यकास्तथा । कच्छा गोपालकच्छाश्च मूषिका वानवासिकाः ॥ किराता वर्व्वराः सिद्धाः पार्व्वतीयाश्च मारिष ! । ओड्रम्लेच्छाः ससैरिन्ध्रा वैदेहास्ताम्रलिप्तकाः ॥ तथापरे जनपदा दक्षिणा ब्राह्मणर्षभ ! । द्रविडाः केरलाः प्राच्या विकल्पमृषकास्तथा ॥ कोवेट्टकास्तथा चोलाः सौहृदा मलका मलाः । ध्वजिन्युत्सवसंकेता कोङ्कवेङ्कटमालवाः ॥ दण्डकाः कोरकाः प्राच्याः कुकुराङ्गार- मारिकाः । तथैव बिन्ध्यचूलिकास्त्रिगर्त्ताः साल्लसेनयः ॥ समङ्गाः कवकाश्चैव तथैवापरवर्त्तकाः । मूषकास्तनबालाश्च पुलिन्दा वर्व्वरैः सह ॥ मुनिवाटाः शिवाटाश्च सरा वेगवशास्तथा । विदर्भा ऋषिकाः काकजनाश्च ब्राह्मणर्षभ ! ॥ यवनाश्च शकाम्भोजास्तङ्गनाः परतङ्गनाः । सकृद्वहाः कुलत्थाश्च दारुणा म्लेच्छजातयः ॥ उत्तराश्चापरे म्लेच्छा हूनाः पारसिकैः सह । तथैव च मलाश्चीना दशार्णा दशमालिकाः ॥ अङ्गवङ्गकलिङ्गाश्च पह्नवा गिरिगह्वराः । खासीकाश्चान्तचाराश्च वैश्यशूद्रकुलानि च ॥ शूद्राभीराश्च दरदा ये चान्ये म्लेच्छभूमयः । आत्रेयाश्च भरद्वाजास्तथैव स्तनपोषकाः ॥ ह्रेषकाश्च कलिङ्गाश्च किरातानाञ्च जातयः । तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च । उद्देशेन मया देशास्तव संकीर्त्तिता द्बिज ! ॥ वर्षे तु भारते ब्रह्मन् ! त्रिवर्गस्य फलं भवेत् । दुह्यते कामधुग्धेनुर्भूमिः सम्यगनुष्ठिता ॥ तस्मिन् शुभाशुभं कर्म्म यथोक्तफलदं नृणाम् । अन्यानि यानि वर्षाणि भूमिस्वर्गाणि तानि वै ॥ भारते विहितं कर्म्म यागध्यानादिलक्षणम् । फलं जनयते सम्यक् विकर्म्म नरकाण्यपि ॥ तत्र सिद्धा नरा ब्रह्मन् ! तपसाराधनेन च । प्रयान्त्रि परमं लोकमपवर्गञ्च मारिष ! ॥ कृतं त्रेता द्वापरञ्च कलिश्च ब्राह्मणर्षभ ! । भारते तु क्रमेणैवं भवन्ति हि युगानि वै ॥ चत्वारि च सहस्राणि वर्षाणां ब्राह्मणर्षभ ! । आयुःसंख्या कृतयुगे संख्याता भारते द्बिज ! ॥ त्रीण्येव तु सहस्राणि त्रेतायां भारते नृणाम् । द्वे सहस्रे द्बापरे तु शतमेकं कलौ स्मृतम् ॥ तत्रापि च स्थितिर्नास्ति कलौ ब्राह्मणसत्तम ! । गर्भस्थाश्च म्रियन्ते च तथा जाता म्रियन्ति च ॥ महाबला महासत्त्वा ज्ञानिनो धर्म्मतत्पराः । तपस्विनो ध्याननिष्ठाः कृते जायन्ति मानवाः ॥ त्रेतायां सर्व्ववर्णाश्च स्वधर्म्मनिरताः सदा । द्वापरे च महाभाग ! क्रूराश्च परहिंसकाः ॥ लुब्धाश्चानृतिकाश्चैव क्रोधना दुष्कृते रताः । कलौ खलु भविष्यन्ति भारते तापस ! प्रजाः ॥ सर्व्वेषामपि वर्षाणां भारतं प्रवरं द्विज ! । सिध्यन्ति मानवा ह्यत्र हरिभक्तिपरायणाः ॥ प्रायो भागवताः सर्व्वे भारते द्बिजसत्तम ! । नानारूपाणि तीर्थानि फलदानि नृणामपि ॥ * ॥
जम्बूद्वीपो मया प्रोक्तो लक्षयोजनविस्तृतः । समानेन प्रमाणेन वेष्टितो लवणाम्भसा ॥ अष्टावत्र उपद्वीपा मुनिभिः परिकीर्त्तिताः । सिन्धुमध्ये महाभाग ! नानाविधजनाश्रिताः ॥ नामानि तेषां वक्ष्यामि शृणु वात्स्यायन द्विज ! । सगरस्य सुतैरश्वान्वेषणे परितो महीम् ॥ खनद्भिः कल्पिता विप्र ! द्वीपा अष्टौ महार्णवे । स्वर्णप्रस्थश्चन्द्रशल्कः सिंहलावर्त्तनौ यथा ॥ पञ्चजन्यस्तथा मन्दहरिणो रमणकाह्वयः । लङ्केति कथिता विप्र ! जम्बुद्बीपस्य तेऽन्तरा ॥” इति पाद्मे भूमिखण्डे भूगोलवर्णने १३० अध्यायः ॥ * ॥
शेष उवाच । “प्लक्षद्वीपं प्रवक्ष्यामि शृणु वात्स्यायन द्बिज ! । यन्मानं जम्बुद्वीपस्य तथैव लवणोदधेः ॥ ततो द्विगुणमानोऽसौ प्लक्षद्बीपो महामते ! । जम्बुद्वीपस्य च यथा वेष्टनं लवणाम्भसा ॥ समानेन प्रमाणेन पुरः परिखया यथा । परिखाया उपवनं यथा भवति वेष्टनम् ॥ प्लक्षद्वीपस्तथैवासौ संवेष्ट्य लवणोदधिम् । द्विलक्षयोजनायामो वर्त्तते द्विजसत्तम ! ॥ तत्र जम्बूप्रमाणोऽस्त्रि द्बीपख्यातिकरस्तरुः । प्लक्षो नाम महाभाग ! स्वर्णवर्णोऽग्निधाम च ॥ तत्र वर्षाणि सप्तैव सुभद्रं यवसं शिवम् । अमृताक्षमशान्तानि क्रमादभयमित्यपि ॥ सप्तैव सीमागिरयो नद्यः सप्त च कीर्त्तिताः । मणिकूटो वज्रकूटो ज्योतिष्मानिन्द्रसेनकः ॥ हिरण्यष्ठीवो मेघमालः सुपर्णः सेतुशैलका । अरुणनृमणा चैव सावित्र्यसिवमी तथा ॥ सत्यम्भवा सुप्रभा च वात्स्यायन ! धृतम्भवा । एताः सप्त महानद्यो दर्शनादेव पावनाः ॥ वर्णानां ब्राह्मणादीनां तत्र नामान्यनुक्रमात् । हंसश्चैव पतङ्गश्चोर्द्ध्वायनश्च तृतीयकः ॥ सत्याङ्गश्च चतुर्थो वै सर्व्वे धर्म्मार्थकोविदाः । अन्ये च पर्व्वतास्तत्र नद्यश्चैव महाफलाः ॥ प्रागायतो महाभाग ! मलयो नाम पर्व्वतः । ततो मेघाः प्रवर्त्तन्ते प्रभवन्ति च सर्व्वतः ॥ ततः परेण विप्रेन्द्र ! जलधारस्तु पर्व्वतः । तस्माद्गृह्णाति वै तोयं वासवः पृथिवीकृते ॥ वर्षासु हि ततो वृष्टिस्ततः शस्यसमुद्भवः । रैवतो नाम तत्राथ गिरिर्यत्र प्रतिष्ठितः ॥ रैवती नाम नक्षत्रं दृश्यते दिवि मोदिता । उत्तरेण तु तस्याथ श्यामो नाम गिरिर्महान् ॥ प्रांशुः श्रीमान्महामेघप्रभयोज्ज्वलविग्रहः । यस्य श्रिया श्यामवर्णाः प्रजास्तत्र महामते ! ॥ अतःपरं महाभाग ! दुर्गो नाम महागिरिः । केशरी केशरयुतो यस्माद्वातः प्रवर्त्तते ॥ प्लक्षो नाम महाद्वोपो यत्र पूज्यस्तु शङ्करः । तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च ॥ धार्म्मिकाश्च प्रजा ब्रह्मन् ! जरामृत्युविवर्ज्जिताः । दीर्घायुषः सत्यपरा वर्द्धन्ते भोगवर्द्धिताः ॥ नद्यश्चान्या महापुण्या गङ्गा च बहुधा मता । महानदी मणिजला सीतासी वेणिका तथा । सहस्राणां शतान्येवं नद्यः संख्या न शक्यते ॥ तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः ॥ मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥ मगा ब्राह्मणभूयिष्ठाः स्वकर्म्मनिरता द्बिज ! । मशकेषु तु राजन्या धार्म्मिकाः सर्व्वकामदाः । मानसे च महाभाग ! वैश्यधर्म्मनिषेविणः । मन्दगेषु तथा शूद्राः शूरा धर्म्मार्थनिश्चिताः ॥ न तत्र राजा विप्रेन्द्र ! न दण्डो न च दण्ड्यता । सधर्म्मेणैव ते सर्व्वे रक्षन्ति च परस्परम् ॥ * ॥
प्लक्षद्वीपसमानेन समुद्रेण वृतो बहिः । इक्षुरसजलेनैव नानारत्नवता द्विज ! ॥ शाल्मलोऽपि तथा द्वीपः प्लक्षाद्द्विगुणमानतः । चतुर्लक्षयोजनेन सुरोदेनावृतो महान् ॥ यत्र वै शाल्मली नाम द्बिलक्षयोजनोच्छ्रिता । द्वीपख्यातिकरो वृक्षः सुपर्णेन कृतालयः ॥ तत्र वर्षाणि सप्तैव कथ्यन्तेऽत्र सुरोचनम् । सौमनस्यं रमणकं देववर्षमिति क्रमात् ॥ पारिभाद्रमाप्यायनमभिज्ञातमिति द्विज ! । सेतुशैलाश्च सप्तैव सुरसः शतशृङ्गकः ॥ वामदेवश्च कुन्दश्च कुमुदः पुष्पवर्षकः । सहश्रुतिरिति ब्रह्मन् ! नद्यः सप्तैव कीर्त्तिताः ॥ अनुमतिः सिनीवाली नन्दा राका सरस्वती । रजनी च कुहूश्चैव महानद्यः सुपुण्यदाः ॥ तत्र विप्रादयो वर्णाः क्रमान्नामानि बिभ्रति । आद्यः श्रुतधरो वर्णस्ततो वीर्य्यधरः स्मृतः । वसुन्धरस्तृतीयस्तु चतुर्थस्तु इषुन्धरः । सर्व्वे ते सोममात्मानं भगवन्तं यजन्ति हि ॥ सुरोदं परिवेष्ट्योऽथ ततो द्बिगुणमानकः । * । कुशद्वीपो घृतोदेन समानेनावृतो द्विज ! ॥ कुशस्तम्बो महांस्तत्र द्वीपख्यातिं करोति च । जाज्वल्यमानो दीप्त्यैव महाज्वलनराशिवत् ॥ तत्र वर्षाणि सप्तैव समानानि प्रमाणतः । वसुदानं दृढरुचिर्नाभिगुप्तं महामते ! ॥ सत्यव्रतं विप्रनाम देवनामेति सप्तमम् । सप्तैव सीमागिरयः कीर्त्तिता द्विजसत्तम ! ॥ वभ्रुश्चैव चतुःशृङ्गः कपिलश्चित्रकूटकः । देवानीक ऊर्द्ध्वरोमा द्रविणश्चेति सप्तमः ॥ महानद्यश्च सप्तैव सर्व्वपापप्रणाशनाः । रसकुल्या मधुकुल्या मित्रविन्दा च मानद ! ॥ श्रुतविन्दा देवगर्भा मन्त्रमाला घृतच्युता । तत्र विप्रादयो वर्णा नामान्तरभृतो द्बिज ! ॥ कुशलः प्रथमो वर्णः कोविदम्भूर्द्वितीयकः । अतिमुक्तस्तृतीयस्तु चतुर्थः कुलकः स्मृतः ॥ ते सर्व्वे ज्ञानसम्पन्ना जातवेदस्वरूपिणः । भजन्ते भगवन्तं वै कर्म्मकौशलयाजिनः ॥ * ॥
घृतोदाच्च तथा द्वीपो द्बिगुणः क्रोञ्चसंज्ञकः । क्षीरोदेन समानेन वेष्टितो ब्राह्मणर्षभ ! ॥ क्रोञ्चो नाम गिरिर्यत्र द्वीपख्यातिकरो महान् । महासेनशराघातकृतच्छिद्रो महामते ! ॥ क्षीरोदेनाभिषिक्तश्च सततं वीचिसञ्चयैः । वर्षाणि तत्र सप्तैव तेषां नामानि मे शृणु ॥ आम्रो मधुरुहो मेघपृष्ठश्चापि वनस्पतिः । लोहितार्णः सुधामा च भ्राजिष्ठश्चापि सप्तमः । गिरयश्चापि सप्तैव वर्षसीमाकरा द्विज ! । शुक्लोऽथ वर्द्धमानश्