संस्कृत-शब्दकोशः

भूमयी भूमिकदम्ब

भूमि

वाचस्पत्यम्

भूमि(मी) ||‍ स्त्री भवन्त्यस्मिन् भूतानि भू—मि किञ्च वा ङीप् । १ पृथिव्याम् २ स्थानमात्रे मेदि० ३ जिह्वायां संक्षि० उणा० योगशास्त्रोक्ते ४ योगिनां चित्तस्यावस्थाभेदे, ५ एक- संख्यायाञ्च । पाण्डुसंख्यादितोऽच् समा० बहु० । द्विभूमः प्रसादः पाण्डुभूमो देशः । योगोक्तमूमयश्च “तस्य भूमिषु विनियोगः” पा० सू० उक्ताः । “तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः । नह्यजिता- धरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते तदभावाच्च कुतः तस्य प्रज्ञालोकः, ईश्वरप्रसादा- ज्जितोत्तरभूमिकस्य च नाधारभूमिषु परचित्तज्ञानादि संयमो युक्तः कस्मात् तदर्थस्यान्यतएवावगतत्वात् भूमेरस्या इयमनन्तरा भूमिः” भा० । सा च भूमिः सप्तप्रकारा यथोक्तं तत्रैव “तस्य सप्तधा प्रान्तभूमिः प्रज्ञा” पात० सू० । “तस्मेति प्रत्युदितख्यातेः प्रत्याम्नायः सप्तधेति अशुद्ध्या- बरणमलापनमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्त- गकारैव प्रज्ञा विवेकिनो भवति । तद्यथा परिज्ञातं ज्ञेयं नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवी न पुनरेतेषां क्षेतव्यमस्ति साक्षात्कृतं निरोधसमाधिना हानम् । भावितो विवेकख्यातिरूपो हानोपाय इत्येषा चतुष्टवी कार्य्यविमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिगुणा गिरिशिस्वरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां विप्रलीनानां पुन- रस्त्युत्पादः प्रयोजनाभावादिति एतस्यासवस्थायां शुकसम्बन्धातीतस्यरूपमात्रज्योतिरमलः केवली पुरुष पत्येतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कशल इत्याख्यायते प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति सिद्धा भवति विवेक- रवा तिर्हामोपायः इति” भा० । “प्रत्युदितख्यातेः वर्त्त- मानख्यातेः योगिनः प्रत्याम्नायः परामशः अशुद्विरेवा- वरणं चित्तसत्त्वस्य तदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे तामसराजसव्युत्यानप्रत्ययानुत्पादे निर्विप्लववियेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारैव प्रज्ञा विवेकिनो भवति विषयभेदात् प्रज्ञामेदः प्रकृष्टोऽन्तो यासां भूमीनामवस्थानां तास्तथोक्ता यतः परं नास्ति संप्रकर्षः प्रान्ता भूमयः यस्याः प्रज्ञाया वियेकख्यातेः सा तथोक्ता ता एव सप्तप्रकाराः प्रज्ञा भूमीः उदाहरति । तद् यथेति तत्र पुरुष- प्रयत्ननिष्पाद्यासु चतसूषु भूमिषु प्रथमामुदाहरति परिज्ञातं हेयं यावत् किल प्राधानिकं तत् सर्वं परिणामतापसंस्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति हेयं तत् परिज्ञातम् । प्रान्ततां दर्शयति नास्य पुनः किञ्चिद् परिज्ञातं परिज्ञेयमस्ति । द्वितीयायाह क्षीणा इति । प्रान्ततामाह न पुनरिति । तृतीयामाह साक्षात्कृतं प्रत्यक्षेण निश्चितं यथा संप्रज्ञातावस्थायामेव निरोध० समाधिसाध्यं हानं न पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः । चतुर्थीमाह भावितो निष्पादितः विवेकख्याति- रूपो हानोपायो नास्याः परं भावनीयमस्ति इति शेषः । एषा चतुष्टयी कार्य्यविमुक्तिरिति कार्य्यान्तरेख विसुक्तिः प्रज्ञाया इत्यर्था प्रयत्ननिष्पाद्यामुक्त्वाऽनिष्पा- दनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्तविमुक्तिस्तु त्रयो । तत्र ध्रथमासाह चरिताधिकारा बुद्धिकृतभोगाव- बर्गकार्य्येत्यर्थः । द्वितीयामाह गुणा इति प्रान्ततामाह न चैवामिति । तृतीयामाह एतस्यामवस्थायामिति तस्या- मवस्थायां जीवन्नेव पुरुषः कुशलो मुक्त इत्युच्यते चरमदेहत्वादित्याह एतामिति । अनौपचारिकं मुक्त- माह प्रतिंप्रभवे प्रधानलयेऽपि चित्तस्य मुक्तः कशल इत्येव भवति गुणातीतत्वादिति” विवरणम् । पृथिवीरूपभूमिगुणाश्च भा० शा० उक्ता यथा “भूमेः स्थैर्य्यं गुरुत्वञ्च काठिन्यं प्रसवार्थता । गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः” । प्रथमगुरुत्वं पतनविरोधी गुणः द्वितीयगुरुत्वम् पिण्डपुष्टिरतो न पौनरुक्त्यम् । शक्तिः धारणादिसामर्थ्यम् सधातः संञ्जिष्टावयवत्वम् । स्यापना मनुष्यादेर्धारणानुफुलव्यापारः । धृतिर्धारणा इत्यर्थः ।


शब्दकल्पद्रुमः

भूमिः || स्त्री (भवन्ति भूतान्यस्यामिति । भू + “भुवः कित् ।” उणा० ४ । ४५ । इति मिः । स च कित् ।)
पृथिवी । स्थानमात्रम् । इति मेदिनी । मे, २२ ॥ (यथास्या पर्य्यायः । “भूर्भूमिः पृथिवी पृथ्वी मेदिनी वसुधावनिः । क्षितिरुर्व्वी मही क्षौणी क्ष्मा धरा कुर्वसुन्धरा ॥” इति वैद्यकरत्नमालायाम् ॥)
जिह्वा । इति संक्षिप्तसारोणादिवृत्तिः ॥ योगिनामवस्थाविशेषः । यथा, —
“निरुद्धे चेतसि पुरा सविकल्पसमाधिना । निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥ व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः । अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये । विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥” इति गीतागूढार्थदीपिकायां मधुसूदनसरस्वती ॥ भूमेः पर्य्यायादयः पृथिवीशब्दे द्रष्टव्याः । अस्या गुणाः । “भूमेः स्थैर्य्यं गुरुत्वञ्च काठिन्यं प्रसवार्थता । गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः ॥” इति महाभारते मोक्षधर्म्मः ॥ अस्यार्थः । स्थैर्य्यमचाञ्चल्यम् १ । गुरुत्वं पतन- प्रतियोगी गुणः २ । काठिन्यम् ३ । प्रसवार्थता धान्याद्युत्पत्तिस्तदर्थता ४ । गन्धः ५ । गुरुत्वं पिण्डपुष्टिः ६ । शक्तिः गन्धग्रहणसामर्थ्यम् ७ । संघातः श्लिष्टावयवत्वम् ८ । स्थापना मनुष्या- द्याश्रयम् ९ । धृतिः पाञ्चभौतिके मनसि यो धृत्यंशः । इति तट्टीका ॥ * ॥
भूमिदानमाहात्म्यम् यथा, —
“सर्व्वेषामेव दानानां भूमिदानमनुत्तमम् । यो ददाति महीं राजन् ! विप्रायाकिञ्चनायवै ॥ अङ्गुष्ठमात्रमथवा स भवेत् पृथिवीपतिः । न भूमिदानसदृशं पवित्रमिह विद्यते ॥ भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति । उभौ तौ पुण्यमापन्नौ नियतं खर्गगामिनौ ॥ यत्किञ्चिद्भूमिदानन्तु सर्व्वदानोत्तमोत्तमम् । महीपते ! नरः कोऽपि भूमिदो भूमिमाप्नुयात् ॥ भूमिदानसमं दानं नास्त्यत्र पृथिवीतले । तस्मादल्पमलञ्चैव भुक्तिमुक्तिसुखप्रदम् ॥ यथा तथा प्रकारेण भूमिदाता तु भूमिपः । सुखी स्यात् सर्व्वकालेषु चान्ते स्वर्गमवाप्नुयात् ॥ बृहदल्पतरं वापि भूमिदानं महत्तमम् । यः कश्चिद्ब्राह्मणे दत्त्वा भवतीह महीपतिः ॥ सर्व्वथा सर्व्वदा देया धरित्री ब्राह्मणस्य तु । प्राणान्तेनैव न क्वापि हरणीया जनैरपि ॥ कृत्वा खातादिकं कर्म्म विप्रभूमिं नरो बलात् । करोति यदि राजेन्द्र ! तत् सर्व्वं निष्फलं भवेत् ॥ ब्राह्मणाद्दानग्रहणं विनानुज्ञाञ्च पार्थिव ! । तथा तत्परितोषञ्च तत्तन्मूल्यादिकं विना ॥ विप्रभूमौ भूसुरोऽपि दैवं पैत्रं तथाध्वरम् । हरिसद्म तथारामप्रासादमण्डपं गृहम् ॥ खातादिखननं सेतुबन्धनं भवनं गवाम् । सधान्यफलमूलादिशाकादिक्षेत्रमेव च ॥ पञ्चाम्रवपनं पुष्पोद्यानं वृक्षादिरोपणम् । सवटाश्वत्थतुलसीधात्रीविल्वादिरोपणम् ॥ नित्यं नैमित्तिकं काम्यं स्नानसन्ध्यादिकं तथा । पञ्चयज्ञं तथेष्टार्च्चादिकमेतत्तु चापरम् ॥ श्रीकृष्णसेवनं भक्तभक्तिषोडशपूर्ब्बकम् । का कथा वेतरेषान्तु न कुर्य्यात् पारमार्थिकः ॥ यः कर्म्मफलकामेप्सुर्न करोत्यत्र कर्म्म च । कुरुते मत्ततामोहादज्ञानाद्वा भ्रमादितः । नृपते ! कुर्व्वतामेतत् सर्व्वं स्यान्निष्फलं ध्रुवम् ॥ यद्भू मिरथवा तस्य संपूर्णं फलमेव च । अतो लोके हि धर्म्मात्मा ज्ञानी च सर्व्वधर्म्म- वित् ॥ विवेकी धर्म्मशास्त्रज्ञः पुराणागमवेदवित् । वेदान्तज्ञो मुनिः साधुः कार्ष्णादिर्वा महीपते ! । न कुर्य्याद्भू मिहरणं ब्राह्मणीहरकल्मषम् ॥” इति पाद्मोत्तरखण्डे ४९ अध्यायः ॥ * ॥
अपि च । बृहस्पतिः । “षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । उच्छेत्ता चानुमन्ता च तावन्ति नरके वसेत् ॥ तथा । भूमिं दत्त्वा तु यः पत्रं कुर्य्याच्चन्द्रार्ककालिकम् । अनाच्छेद्यमनाहार्य्यं दानलेख्यन्तु तद्बिदुः ॥ महाभारते । अपि पापकृतो राज्ञः प्रतिगृह्णन्ति साधवः । पृथिवीं नान्यदिच्छन्ति पावनीं जननीं यथा ॥ नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् । दाने वाप्यथवादाने नामास्याः परमं प्रियम् ॥” दानादानकाले यत् प्रियदत्ता नामास्याः परमं प्रियमित्युक्तं तेन प्रियदत्तामित्युच्चार्य्य दातव्या प्रतिग्रहीतव्या च । भूमेः पूजायां दानवाक्ये च प्रियदत्तेति विशेषणम् । भूमिर्विष्णुदेवताका । षष्टिवर्षसहस्रावच्छिन्नस्वर्गवासः फलम् । प्रति- ग्रहे तद्भूमेः प्रदक्षिणमात्रम् । भूमेरसन्निधाने तामुद्दिश्य प्रदक्षिणम् । इति शुद्धितत्त्वम् ॥ * ॥
आर्द्राद्यपादगे रवौ भूमी रजोयुक्ता भवति तत्काले पाठादिनिषेधो यथा ज्योतिषे । “रजोयुक् क्ष्माम्बु वाची च रौद्राद्यपादगे रवौ । तस्यां पाठो बीजवापो नाहिभीर्दुग्धपानतः ॥ रजोयुक् क्ष्मा ऋतुमती पृथ्वी । ज्योतिषे । यस्मिन् वारे सहस्रांशुर्यत्काले मिथुनं व्रजेत् । अम्बु वाची भवेन्नित्यं पुनस्तत्कालवारयोः ॥” मत्स्यसूक्ते । “धरण्यामृतुमत्याञ्च भूमिकम्पे तथैव च । अन्तरागमने चैव विद्यां नैव पठेद्बुधः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
“न स्वाध्यायं वषट्कारं न देवपितृपूजनम् । हलानां योजनञ्चैव बीजानां वपनं तथा । दिनत्रयं न कुर्व्वीत यावत् पृथ्वी रजस्वला ॥ यतिनो व्रतिनश्चैव विधवा च द्बिजस्तथा । अम्बुवाचीदिनेनैव पाकं कृत्वा न भक्षयेत् ॥ स्वपाकं परपाकं वा अम्बुवाचीदिने तथा । भक्षणं नैव कुर्वीत चाण्डालान्नसमं स्मृतम् ॥” इति राजमार्त्तण्डः ॥ अशुद्धां भूमिमाह देवलः । ‘सा अमेध्या मलिना दुष्टा एतत्त्रितयान्यतमा भवति ।’ अत्रामेध्या यथा, —
“प्रसूते गर्भिणी यत्र म्रियते यत्र मानुषः । चाण्डालैरुषितं यत्र यत्र विन्यस्यते शवः ॥ विण्मूत्रोपहतं यत्तु कुणपो यत्र दृश्यते । एवं कश्मलभूयिष्ठा भूरमेध्येति लक्ष्यते ॥” कुणपः शवः । दुष्टा यथा, —
“कृमिकीटपदक्षेपैर्द्दूषिता यत्र मेदिनी । द्रप्सापकर्षर्णेः क्षिप्तैर्वान्तैश्च दुष्टतां व्रजेत् ॥” द्रप्सा घनीभूतश्लेष्मा । मलिना यथा, —
“नखदन्ततनूजत्वक्तुषपांशुरजोमलैः । भस्मपङ्कतृणैर्वापि प्रच्छन्ना मलिना भवेत् ॥ तासाञ्च शुद्धिमाह । “दहनं खननं भूमेरुपलेपनवापने । पर्य्यन्यवर्षणञ्चैव शौचं पञ्चविधं स्मृतम् ॥” वापनं मृदन्तरेण पूरणम् । अत्रामेध्याया- श्चतुष्कं पञ्चकं वा । दुष्टायाः द्विकं त्रिकं वा । मलिनायाः दहनादीनामेकधा शोधनमाह देवलः । “पञ्चधा वा चतुर्द्धा वा भूरमेध्या विशुध्यति । द्विधा दुष्टा त्रिधा वापि शुध्यते मलिनैकधा ॥” अन्यपञ्चप्रकारमाह मनुः । “सम्मार्जनेनाञ्जनेन सेकेनोल्लेखनेन च । गवाञ्च परिवासेन भूमिः शुद्ध्यति पञ्चधा ॥” सम्मार्जनं तृणाद्यपनयनम् । अञ्जनं गोमये- नोपलेपनम् । सेको जलेन प्रक्षालनम् । उल्लि- खनं तक्षणम् । परिवासो गवोपस्थापनम् अत्र सेकपरिवासयोर्निर्लेपस्थापनविषयत्वम् अन्येषाममेध्यलिप्तविषयत्वम् । ब्रह्मपुराणे । “ग्रामाद्दण्डशतं त्यक्त्वा नगराच्च चतुर्गुणम् । भूमेः सर्व्वत्र शुद्धिः स्याद्यत्र लोको न विद्यते ॥” दण्डं चतुर्हस्तः । नगरं महाग्रामः । इति गोपालपञ्चाननकृतशुद्धिनिर्णयः ॥ * ॥
भूमौ वर्ण- लेस्वनादिनिषेधो यथा, —
“न भूभौ विलिखेद्वर्णं मन्त्रं न पुस्तके लिखेत् । न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् ॥ भूकम्पे ग्रहणे चैव अक्षरं वाथ पुस्तकम् । भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता । तदा भवति देवेशि ! तस्मात्तत् परिवर्जयेत् ॥” इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥



Correction: